१९८ श्रीमद्वाल्मीकिरामायणम् । [युद्धकाण्डम् ६ १३ तथेत्युक्त्वा दुततरं मायावी राक्षसेश्वरः । । निर्जगाम बलैः सार्ध बहुभिः परिवारितः ॥ ४ ॥ नागैरश्वैः खरैरुष्ट्रैः संयुक्तः सुसमाहितः ॥ पताकाध्वजचित्रैश्च रैथैश्च समलङ्कतः॥ ५॥ ततो विचित्रकेयूरमुकुटैश्च विभूषितः। तनुत्राणि च संरुध्य सधनुर्निर्ययौ द्रुतम् ॥ ६ पताकालङ्कतं दीप्तं तप्तकाञ्चनभूषणम् । रथं प्रदङ्किणं कृत्वा समारोहचमूपतिः॥ ७॥ यष्टिभिस्तोमरैश्चित्रैः शूलैश्च मुसलैरपि ॥ भिन्दिपालैश्च पांशैश्च शक्तिभिः पट्टिशैरपि ॥ ८ ॥ खद्वैधकैर्गदाभिश्च निशितैश्च परश्वधैः पदातयश्च निर्यान्ति विविधाः शस्त्रपाणयः । विचित्रवससः सर्वे दीप्त राक्षसपुङ्गवाः ॥ ९ ॥ गजा मदोत्कटाः शूराश्चलन्त इव पर्वताः । ते क्रुद्धकुशलै रूढास्तोमराङ्कुशपाणिभिः ॥ १० ॥ अन्ये लक्षणंसंयुक्ताः शूरा रूढा मैहाबलाः॥ [अश्वाः परिपतन्तिम राक्षसैश्च प्रचोदिताः ॥११॥] तद्राक्षसबलं घोरं विप्रथितमशोभत । प्रावृट्काले यथा मेघा नर्दमानाः सविद्युतः ॥ १२ ॥ निःसृता दक्षिणद्वारादङ्गदो यत्र यूथपः । तेषां निष्क्रममाणानामशुभं समजायत ॥ १३ ॥ आकाशाद्विघनत्तीव्रा उल्काश्चाभ्यपतंस्तदा ॥ वमन्त्यः पावकज्वलाः शिवा घोरं ववाशिरे ॥१४॥ व्याहरन्ति मृगा घोरा रक्षसां निधनं तदा ॥ समापतन्तो योधास्तु पुंस्खलन्भयमोहिताः ॥ १५॥ एतानौत्पातिकान्दृष्ट्वा वजदंष्ट्रो महाबलः । धैर्यमालम्ब्य तेजस्वी निर्जगाम रणोत्सुकः ॥ १६ ॥ तांस्तु निंक्रमतो दृष्ट्वा वानरा जितकाशिनः । प्रणेदुः सुमहानादन्पूरयंश्च दिशो दश ॥ १७ ॥ ततः प्रवृत्तं तुमुलं हरीणां राक्षसैः सह ।। घोराणां भीमरूपाणामन्योन्यवधकाङ्किमणाम् ॥ १८ ॥ निष्पतन्तो महोत्साहा भिन्नदेहशिरोधराः ॥ रुधिरोक्षितसर्वाङ्गा न्यपतजगतीतले ॥ १९ ॥ केचिदन्योन्यमासाद्य शूराः परिघपाणयः । चिक्षिपुर्विविधं शत्रं समरेष्वनिवर्तिनः ॥ २० ॥ द्रुमाणां च शिलानां च शस्राणां चापि निस्खनः ॥ धूयते सुमहांस्तत्र घोरो हृदयभेदनः॥२१॥ रथनेमिखनस्तैत्र धनुषश्चापि निस्घ्नः। शङ्कभेरीमृदङ्गानां बभूव तुमुलः खनः ॥ २२ ॥ केचिदत्राणि संपुंज्य बाहुयुद्धमकुर्वत ॥ २३ ॥ तलैश्च चरणैश्चापि मुष्टिभिश्च द्रुमैरपि ॥ जानुभिश्च हताः केचिद्भिन्नदेहाश्च राक्षसाः। शिलाभिघूर्णिताः केचिद्वानरैर्युद्धदुर्मदैः ॥ २४ ॥ बहुभिः बलाध्यक्षैरिति शेषः ॥४॥। रथैरित्यस्य संयुक्त | अत्रापि गजा नियन्तीत्यनुषङ्गः ॥ ११–१३ ।। इत्यनेनान्वयः। समनूकृतः चन्दनकुसुमादिभिरलङ्क- | विघनात् घनशून्यात् ।। १४-१५ । औत्पातिकान् तः । तनुत्राणि कवचतलत्रकण्ठत्रशिरस्त्राणानि । अशुभसूचकान् ॥ १६ ॥ पूरयन् अपूरयंश्चेत्यर्थः । संरुध्य संबध्य धृत्वेत्यर्थः ॥५-७॥। यष्टिभिरित्यादि सार्धश्लोकद्वयं ॥ ८-९ । गजा इति । अत्र निर्या केचित्तु पूरयन् पूरयन्त इत्यर्थः, वचनव्यत्यय आर्षे न्तीत्यनुषज्यते । गजानेव विशिनष्टि-ते युद्धेत्या- इत्याहुः ॥ १७ । । तुमुलं रणसङ्कलं । ‘तुमुलं रण- दिना । तोमराङ्कशपाणिभिः यन्तृभिः । रूढाः | सङ्कले ” इत्यमरः ॥ १८-२२। अत्राणि संसृज्य आरूढा इत्यर्थः । १० । अन्ये लक्षणसंयुक्ता इति । सर्वाण्यत्राणि प्रयुज्य । तदनन्तरमत्राभावात् बाहु [पा० ] १ ङ. --ट. बहुभिःसमलंकृतः , २ क. ख.घ.-ट. चापैश्च. ३ क~ट. कुशलारूढाः. ४ ख. लक्षणसंश्लिष्टः ५ क. ग. महाजवाः. ६ इदमद्ये च पाठेदृश्यते. ७ ङ • झ. सवं. ८ च. छ. समन्ततः. ९ ग• झ. ज. ट. तीनादुल्मुका न्यपतंस्तदा . १० च.-ट. घोराववाशिरे११ ख. -ट. प्रास्खलंस्तत्रदारुणं. १२ ङ. झ. ट. विद्रवतो. १३ ङ. झ. ट. र्विविधाञ्शस्त्रान् . १४ च. अ . ट. स्तत्रसागरस्यचघोषवत्. ङ, झ. स्तत्रधनुषश्चापिघोषवत्. १५ ङ. झ. ट. संयज्य. १६ ङ.-ट. द्भन्नदेहाश्च ५
पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२०२
दिखावट