पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८० [ युद्धकाण्डम् ६ पृच्छते च यथावृत्तं पित्रे सर्वं न्यवेदयत् । यथा तौ शरबन्धेन निश्चेष्टौ निष्प्रभौ कृतौ ॥ ४९ ॥ स हर्षवेगानुगतान्तरात्मा श्रुत्वा वचस्तस्य महारथस्य ॥ जहौ ज्वरं दाशरथेः सैमुस्थितं प्रहृष्य वाचऽभिननन्द पुत्रम् ॥ ५० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षट्चत्वारिंशः सर्गः ॥४६॥ सप्तचत्वारिंशः सर्गः ॥ ४७ ॥ रावणाज्ञया राक्षसीभिस्त्रिजटया सहसीतायाः पुष्पकारोपणपूर्वकं रणाङ्गणप्रापणेनरामलक्ष्मणदुरवस्थाप्रदर्शनम् ॥ १ ॥ राक्षसभटैरावणनियोगेन लङ्कायांरामलक्ष्मणनियोगोद्धोषणम् ॥ २ ॥ प्रीतिप्रविष्टे लङ्कां तु कृतार्थं रावणात्मजे । राघवं पैरिवायत ररक्षुर्वानरर्षभाः ॥ १ ॥ हनुमानङ्गदो नीलः सुषेणः कुमुदो नलः ॥ गजो गवाक्षो गवयः शरभो गन्धमादनः॥ जाम्बवानृषभः स्कन्धो रम्भः शतबलिः पृथुः ॥ २ ॥ व्यूढानीकाश्च यत्ताश्च दुमानादाय सर्वतः । वीक्षमाणा दिशः सर्वास्तिर्यगूर्ये च वानराः॥ वृणेष्वपि च चेष्टत्सु राक्षसा इति मेनिरे ॥ ३॥ रावणश्चापि संहृष्टो विसृज्येन्द्रजितं सुतम् ॥ आजुहाव ततः सीतारक्षिणी राक्षसीस्तदा ॥ ४॥ राक्षस्यस्त्रिजटा चैव शासनात्समुपस्थिताः । ता उवाच ततो हृष्टो राक्षसी राक्षसाधिपः ॥ ५ ॥ ताविन्द्रजिताऽऽख्यात वैदेह्या रामलक्ष्मणौ ॥ घृष्पकं च समारोप्य दर्शयध्वं हेतौ रणे ॥ ६ ॥ यदाश्रयादवष्टब्धा नेयं मामुपतिष्ठति । सोया भर्ता सह भ्रात्रा निरैस्तो रणमूर्धनि ॥ ७ ॥ निर्विशङ्का निरुद्विग्ना निरपेक्षा च मैथिली । मामुपस्थास्यते सीता सर्वाभरणभूषिता ॥ ८ ॥ यथावृत्तं वृत्तमनतिक्रम्य । इदमेव विवृणोति--यथा | अथ सीतायै वीरशयनस्थरामलक्ष्मणप्रदर्शनं सप्त- ताविति ॥ ४९ ॥। हर्षवेगः हर्षातिशयः तेनानुगतो चत्वारिंशे–प्रतिप्रविष्ट इत्यादि ।। १ ॥ ये ररक्षुस्ता ठयाप्तः अन्तरात्मा मनो यस्य स तथोक्तः । दाशरथेः नाह-हनुमानित्यादिना ॥ । २ ॥ अन्यान्वानरानाह- निमित्तात् । ज्वरं चिन्तासंतापं । अनया राज्या प्रतिपद्तेत्यूचुः ॥ । ५० ॥ इति श्रीगोविन्दराजविर- व्यूढानीकाश्चेति । । व्यूढानीकाः कृतव्यूहसेनावन्तः। चिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धका- | चेष्टत्सु चेष्टमानेषु ।। ३-५ ॥ आख्यात कथयत ण्डव्याख्याने षट्चत्वारिंशःसर्गः ॥ ४६ ॥ । ६ । अवष्टब्धा गर्विता। निर्विशङ्का निर्वचारा । निरुद्विग्ना निःशोका । भावे निष्टा । निरपेक्ष रामः ती० वस्तुतस्तुसरावणः हर्षवेगानुगतान्तरात्ममयः दाशरथेःसमुत्थितंज्वरंजहौ तस्यवचःश्रुखा तंपुत्रं इन्द्रजितं । प्रहृष्य वाचा भिनद्य पुत्रप्रीत्यैकेवलंतंवामात्रेणननन्द नतुपरमार्थतः । ‘कालज्ञोराघवःकालेसंयुगायाभ्यचोदयत्’ इत्यारभ्य ‘‘इन्द्रजित्तुम हामायःसर्वसैन्यसमावृतःविवेशनगरींलङ्कां’ इत्यन्तेनवानररक्षसांप्रतिपत्प्रवृत्तंयुद्धमुक्तं ।५०।। इतिषट्चत्वारिंशःसर्गः ॥४६॥ । ती० व्यूढानीकाः व्यूढानि गरुडादिव्यूहाकाराणि अनीकानियेषांते ॥ ३ ॥ स० राक्षस्यः इतराः । त्रिजटेति ताभ्यःपृथकृ- त्योक्तिः उत्तरत्रसामान्यतोराक्षसीरित्युक्तिश्च त्रिजटा सीतापक्षेवर्ततइतिरावणमनसिसंदेहंसूचयतः ॥ ५ ॥ शि० मैथिली सर्वा भरणभूषितासती मां लङ्कसंपतिं । उपस्थास्यते अत्रैवनिवत्स्यतीत्यर्थः ॥ ८ ॥ [ पा० ] १ घर पुत्रस्तस्मै. २ ग. ङ. -ट. समुत्थंप्रहृष्टवाचा. ३ ङ.-ट. तस्मिन्प्रविष्टेलकायां घः प्रतिप्रविष्टेलङ्कायां ४ ङ.--ट. परिवार्योथः ५ छ. झ. अ. ट. गवाक्षःपनसःसानुप्रस्थो महाहरिः. ६ घ. जांबवानृक्षराजश्वरंभः, ७ क. ख. ङ. च. झ. झ. ट. सुन्दरंभः. ८ क. घ.-ट. शासनात्तमुपस्थिताः ९ ग. ङ. व. झ. अ. ट. पुष्पकंतत्समारोप्य . १० घ. गतायुधि. ११ ङ. -ट, निहतो.