१७८ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ ' . रामस्य लक्ष्मणस्यापि सर्वेषां च वनौकसाम् । विक्रमा निष्फलाः सर्वे यथा शरदि तोयदाः॥१७ एवमुक्त्वा तु तान्सर्वांत्राक्षसान्परिपार्श्वतः ॥ यूथपानपि तान्सर्वास्ताडयामास रावणिः ॥ १८ ॥ नीलं नवभिराहत्य मैन्दं च द्विविदं तथा ॥ त्रिभिस्त्रिभिरमित्रघ्नंस्तताप प्रवरेषुभिः ॥ १९ ॥ जाम्बवन्तं महेष्वासो बिा बाणेन वक्षसि ॥ हनूमतो वेगवतो विससर्ज शरान्दश ॥ २० ॥ गवाझ शरभं चैव द्वावप्यमिततेजसौ । द्वाभ्यां द्वाभ्यां महावेगो विव्याध युधि रावणिः ॥२१॥ गोलाङ्गलेश्वरं चैव वालिपुत्रमथाद्भू विव्याध बहुभिर्योगैस्त्वरमाणोथ रावणिः ॥ २२ ॥ तान्वानरवरान्भित्त्वा शरैरग्निशिखोपमैः ॥ ननाद बलवांस्तत्र महासवः स रावणिः ॥ २३ ॥ तानर्दयस्वा बाणौधैस्त्रासयित्वा च वानरान् । प्रजहास महाबाहुर्वचनं चेदमब्रवीत् ॥ २४ ॥ शरबन्धेन घोरेण मया बद्धौ चमूमुखे ॥ सहितौ भ्रातरावेतौ निशामयत राक्षसाः ॥ २५ ॥ एवमुक्तास्तु ते सर्वे राक्षसाः कूटयोधिनः। परं विसयमाजग्मुः कर्मणा तेन हर्षिताः ॥ २६ ॥ विनेदुश्च महानादान्सर्वतो जलदोपमाः ॥ हतो राम इति ज्ञात्वा रावणिं समपूजयन् ॥ २७ ॥ निष्पन्दौ तु तदा दृष्ट्वा तैवुभौ रामलक्ष्मणौ ॥ वसुधायां निरुच्चासौ हतावित्यन्वमन्यत ॥२८॥ हर्षेण तु समाविष्ट इन्द्रजित्समितिंजयः॥ प्रविवेश पुरीं लङ्कां हर्षयन्सैवेराक्षसान् ॥ २९ ॥ रामलक्ष्मणयोटैट् शरीरे सायकैश्चिते ॥ सर्वाणि चाङ्गोपाङ्गानि सुग्रीवं भयमाविशत् ॥ ३० ॥ तमुवाच परित्रस्तं वानरेन्द्रं विभीषणः । सबाष्पवदनं दीनं शोकंव्याकुललोचनम् ॥ ३१ ॥ अलं त्रासेन सुग्रीव बाष्पवेगो निह्यताम् ॥ एवंप्रायाणि युद्धानि विजयो नास्ति नैष्ठिकः ॥३२॥ 8शेषभाग्यताऽस्माकं यदि वीर भविष्यति । मोहमेतौ प्रहास्येते महात्मानौ महाबलौ ॥ ३३ ॥ पर्यवस्थापयात्मानमनाथं मां च वानर ।। सत्यधर्माभिरक्तानां नास्ति मृत्युकृतं भयम् ॥ ३४ ॥ एवमुक्त्वा ततस्तस्य जलक्लिन्नेन पाणिना । सुग्रीवस्य शुभे नेत्रे प्रममार्ज विभीषणः ॥ ३५ ॥ ततः सलिलमादाय विद्यया परिजप्य च ॥ सुग्रीवनेत्रे धर्मात्मा स ममार्ज विभीषणः ॥ ३६ ॥ त्यर्थः । सर्वेषामस्माकं मूलहरः अनर्थः अनर्थकरो | विशेषणीयः ।।३०--३१॥ एवंप्रायाणि एवंविधानि । रामः ॥ १६ ॥ विक्रमाः सेतुबन्धनाद्यः ॥ १७ ॥| ५ प्रायश्चानशने मृत्यौ तुल्यबाहुल्ययोरपि “ इति परिपार्श्वतः समीपतः ॥ १८–१९ ॥ हनूमतः हनू- | विश्वः । नैष्ठिकः नियतः ।। ३२ ॥ सशेषभाग्यतेति । मर्थमित्यर्थः । संबन्धसामान्ये षष्ठी ।। २०-२१ । अस्माकं भाग्यशेषं यद्यस्तीत्यर्थः ।। ३३ ॥ पर्यवस्था- गोलालेश्वरं गवाक्ष ॥ २२-२४ ॥ निशामयत | पयात्मानं मनो निश्चलं कुरु । खामपर्यवस्थापनेन पश्यत । २५ ॥ कूटयोधिनः कपटयोधिनः ।। २६- | मां च पर्यवस्थापय । धैर्यं कारयेत्यर्थः । पर्यवस्था- २९ ॥ शरीरे इति प्रत्येकापेक्षया द्विवचनं । पने हेतुमाह--सत्येति । मृत्युकृतं अपमृत्युकृतं। ३४ ॥ अङ्गानि करादीनि । उपाङ्गानि अङ्गुल्यादीनि । जलक्लिन्नेन जलसिक्तेन ।। ३५ । एवममाङ्गल्यनिवृ अत्रापि शरैश्चितानीति योज्यं। दृष्ट्वा स्थित इति सुग्रीवो ! त्यर्थं अन्तिनिवृत्त्यर्थं वा नेत्रे प्रमृज्य राक्षसमाया ॥ १५॥ स० अनाथमित्यनेन पलायितस्यतवराज्यमस्तिनतथाममेतिसूचयति ॥ २४ ॥ ति० ततः सामान्यतःप्रमार्जनानन्तरं विद्यया तिरस्करणीविद्यातिरस्कारकविद्यया परिजप्य। परिवीक्ष्येतिपाठेप्ययमेवार्थः । राक्षसमायापरिज्ञानेनधैर्यसंपादनं चैतत्प्रमा जनस्यफलं । वस्तुतः ततस्सलिलमितिलोकोबहुपुस्तकेषुनास्तीतिप्रायेणप्रक्षिप्तोयं । तेनेन्द्रजितंददर्शतितकार्यप्रकाशकोत्तरवाक्या भावात् ॥ ३६ ॥ r पा० 1 १ क. ग. झ. ब. ट, लक्ष्मणस्यैव २ ग.च्च. झ. ब. ट• तावप्यमितविक्रमौ. ३ ग. घ. च. अ. भ्रातरौराम. ४ क. ख. ध. च. ट. न्सर्वनैऋतान्. ५ कटः क्रोधव्याकुल, ६ च. छ. सशेषभाग्यमस्माकं क. ङ. झ. ध. ट. सभाग्यशेषतास्माकं. ७ घ . प्रहास्येतेभ्रातरौरामलक्ष्मणौ.
पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१८२
दिखावट