पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । जाम्बवांश्च सुषेणश्च वेगदशीं च वानरः ।। ऋक्षराजो महासत्त्वः कुक्षिं रक्षन्तु ते त्रयः । । २१ ।। [ पैश्चार्धमिव लोकस्य प्रचेतास्तेजसा वृतः ॥ जघनं कपिसेनायाः कपिराजोऽभिरक्षतु] ॥ २२ ॥ राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः । व्यादिदेश मैहावीर्यान्वानरान्वानरर्षभः ॥ २३ ॥ ते वानरगणाः सर्वे समुत्पत्य युयुत्सवः । गुहाभ्यः शिखरेभ्यश्च आशु पुष्विरे तदा ॥ २४ ॥ ततो वानरराजेन लक्ष्मणेन च पूजितः ॥ जगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम् ॥ २५ ॥ शतैः शतसहस्रश्च कोटीभिरयुतैरपि । वारणाभैश्च हरिभिर्ययौ परिवृतस्तदा । तं यान्तमनुयाति स महती हरिवाहिनी ।। २६ ।। दृप्ताः प्रमुदिताः सर्वे सुग्रीवेणाभिपालिताः । आपुवन्तः पुवन्तश्च गर्जन्तश्च पुवंगमाः ।। क्ष्वेलन्ती निनदन्तस्ते जग्मुवै दक्षिणां दिशम् । भक्षयन्तः सुगन्धीनि मधूनि च फलानि च । उद्वहन्तो महावृक्षान्मञ्जरीपुञ्जधारिणः ।। २८ ।। अन्योन्यं सहसा दृप्ता निर्वहन्ति क्षिपन्ति च । ततश्चाक्षिपन्त्यन्ये पातयन्त्यपरे परान् ।। २९ ।। रावणो नो निहन्तव्यः सर्वे च रजनीचराः ।। इति गर्जन्ति हरयो राघवस्य समीपतः ॥ ३० ॥ पुरस्तादृषभो वीरो नीलः कुमुद एव च । पन्थानं शोधयन्ति स्म वानरैर्बहुभिः सह ।। ३१ ।। मध्ये तु राजा सुग्रीवो रामो लक्ष्मण एव च । बहुभिर्बलिभिभीमैर्तृताः शत्रुनिबर्हणाः ॥ ३२ ॥ हरिः शतबलिवीरः कोटीभिर्दशभिर्तृतः । सर्वामेको ह्यवष्टभ्य रक्ष हरिवाहिनीम् ।। ३३ ॥ कोटीशतपरीवारः केसरी पनसो गजः ॥ और्कश्चातिबलः पार्श्वमेकं तस्याभिरक्षति ।। ३४ ।। मेन उत्तरदिग्गजेन। भूतेशः यक्षेशः । द्रविणाधिपतिः | अव्यक्त शब्दायमाना । * णद् अव्यक्त शब्दे धनाधिपतिः। अत्र त्वं च ि शिबिकामारुह्य आवाभ्यामा- | इति धातुः । भक्षयन्तः पिबन्तः । उद्वहन्तः विला गच्छेति सिद्धम् ।। २० । ऋक्षराजः जाम्बवद्धाता । | सार्थ हस्ते धारयन्त ।। २७-२८ ॥ सहसा । कुक्षिं पश्चाद्भागं । जाम्बवान् सुषेणः वेगदश चेति | तरसा । निर्वहन्ति उद्वहन्ति । क्षिपन्ति पातयन्ति । त्रय: महासत्वः ऋक्षराजश्च कुक्षिं रक्षन्त्वित्यन्वय | अन्ये पतन्त: सन्तः । परान् पातयितृन् । आक्षिपन्ति । ॥ २१-२२ । व्यादिदेश रामोत्तं सर्वं कुरुतेत्या- |प्रतीकारकरणासामथ्र्येन परिभाषणं कुर्वन्तीत्यर्थः । ज्ञापयामास ।। २३ । पुविरे पुतगतिं चक्रिरे | अपरे शक्ता : । परान् पातयितृन् । पातयन्ति ! ।। २४ ॥ पूजितः पुरस्कृत इत्यर्थः । धर्मात्मा नीति - |॥ २९ । नः अस्माभिरित्यर्थः ।। ३० । अत्र पूर्व रूपधर्मज्ञ इत्यर्थः ।। २५ । ययौ राम इतिशेषः । | रामेण मार्गरक्षणाय ये नीलाद्यो नियुक्ताः ततोन्ये हरिवाहिनी पूर्वोक्तबलवानरभिन्ना ।। २६ । गच्छ- | कुमुदाद्यस्तु रामभक्तयुत्साहेन स्वयमेव प्रवृत्ता इति तामवस्थाविशेषान् दर्शयति-दृप्ता इत्यादिना । |ज्ञेयं । ऋषभोदक्षिणपार्श्वरक्षणाय नियुक्तो भक्तया दृप्ताः गर्विता: । आप्वन्त: मण्डलाकारं भ्रमन्त | पराक्रमातिशयेन च अत्रापि रक्षणं कृतवानिति ज्ञेयं इत्यर्थः । गजेन्तः मेघध्वनिं कुवेन्त : । घनगर्जित - |।। ३१ । मध्ये त्विति । जग्मुरिति शेष ।। ३२ ।। मिति प्रसिद्धिः । क्ष्वेलन्तः सिंहनादं कुर्वन्त: । | अवष्टभ्य अधिष्ठाय ।। ३३ । गजस्याग्रभागनियुक्त क्ष्वेला तु सिंहनादः स्यात् ' इत्यमरः । निनदन्तः | स्यापि पार्श्वरक्षणं भक्तयतिशयात् । अत्र कार्यकरणा ति० अयमृषभोदक्षिणपार्श्वविनियुक्तादन्योनीलसहकारी ॥ ३१ ॥ ति० सर्वावाहिनीमवष्टभ्यैकोररक्ष । समन्ततोभ्रमन्स त्रक्षतिस्मेत्यर्थः ॥ ३३ ॥ ति० केसर्यादीनां तुणद्वाद्वौतस्यबलस्यदक्षिणं वामंचैकैकंपार्श्वमभिरक्षतइत्यर्थइतिकतकः । एषगज [ पा० ] १ इ.-ट. महाबाहुः. २ अयंश्लोकः क. ख. च. छ. पाठेषुदृश्यते. ३ ग. ड. च. छ. झ. अ. ट. महावीर्यो वानरान्. ४ ड. च. छ. झ. ट. महौजसः. ५ क.-ट. हृष्टाः. ६ क. ख. च. छ. अ. सुषेणपरिपालिताः. ७ ड. व झ. अ. ट. निनदन्तश्च. क.-घ. ज. विनदन्तस्ते. ८ क .-ट. पतन्तश्चोत्पतन्त्यन्ये . ९ घ. ड. ट. पातयन्तःपरे, १० डः ज. झ. ट. अर्कश्चबहुभिःपाश्चै. ग. ऋक्षश्चातिबल