पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६४ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ आह त्वां राघवो रामः कौसल्यानन्दवर्धनः । निष्पत्य प्रतियुध्यस्ख नृशंस पॅरुषो भव ॥ हन्तास्मि त्वां सहामात्यं सपुत्रज्ञातिबान्धवम् ॥ निरुद्विग्नास्त्रयो लोका भविष्यन्ति हते त्वयि ॥७७ देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् । शत्रुमद्योद्धरिष्यामि त्वामृषीणां च कण्टकम् ॥ ७८ ॥ विभीषणस्य चैश्वर्यं भविष्यति हते त्वयि । न चेत्सत्कृत्य वैदेहीं प्रणिपत्य प्रदास्यसि ॥ ७९ ॥ इत्येवं परुषं वाक्यं ब्रुवाणे हरिपुङ्गवे । अमर्षवशमापन्नो निशाचरगणेश्वरः ॥ ८०॥ ततः स रोर्धताम्राक्षः शशास सचिवांस्तदा ॥ गृह्तामेष मेंधा वध्यतामिति चासकृत् ॥ ८१ ॥ रावणस्य वचः श्रुत्वा दीप्ताग्निसमतेजसः ॥ जगृहुस्तं ततो घोराश्चत्वारो रजनीचराः ॥ ८२ ॥ ग्राहयामास तारेयः खयमात्मानमात्मवान् ॥ बलं दर्शयितुं वीरो यातुधानगणे तदा ॥ ८३ ॥ स तान्यङ्कद्वये सक्तानादाय पतंगानिव । प्रासादं शैलसंकाशमुत्पपाताङ्गदस्तदा ॥ ८४ ॥ तेऽन्तरिक्षाद्विनिभृतास्तस्य वेगेन राक्षसाः । भूमौ निपतिताः सर्वे राक्षसेन्द्रस्य पश्यतः ॥ ८५ ॥ ततः प्रासादशिखर शैलङ्गमिवोन्नतम् ॥ दैदी राक्षसेन्द्रस्य वालिपुत्रः प्रतापवान् ॥ ८६ ॥ तैत्पफाल पदाक्रान्तं दशग्रीवस्य पश्यतः । पुरा हिमवतः शुङ्ग वंजिणेव विदारितम् ॥ ८७॥ भङ्क्त्वा प्रासादशिखरं नाम विश्राव्य चात्मनः । विनद्य सुमहानादमुत्पपात विहायसम् ॥८८॥ व्यथयत्राक्षसान्सर्वान्हर्षयंश्चापि वानरान् । स वानराणां मध्ये तु रामपार्श्वमुपागतः ॥ ८९ ।। रावणस्तु परं चक्रे क्रोधं प्रासादधर्षणात् । विनाशं चात्मनः पश्यन्निश्वासपरमोऽभवत् ॥ ९० ॥ रामस्तु बहुभिर्हयैर्निनदद्भिः प्लवङ्गमैः । वृतो रिपुवधाकाळी युद्धायैवभ्यवर्तत ॥ ९१॥ सुषेणस्तु महावीर्यो गिरिकूटोपमो हरिः । बहुभिः संवृतस्तत्र वानरैः कामरूपिभिः ॥ ९२ ॥ चंर्द्राणि सर्वाणि सुग्रीववचनात्कपिः ॥ पर्यक्रामत दुर्धर्षा नक्षत्राणीव चन्द्रमाः ॥ ९३ ॥ गतः। मां श्रुतवानसि किमित्यर्थः । ७५ ॥ राघव | असकृच्छुशासेत्यन्वयः । यद्वा दुमेधा इत्यङ्गमेवाह इत्यादिना छद्मना न योत्स्यत इत्युक्तं । कौसल्यान ॥ ८१-८२ ॥ यातुधानगणे विषये स्वबलं दर्श- न्दवर्धन इत्यनेन बहुतपःप्रभावजनिततया धार्मिकत्व- | यितुं । धृतिमान् । स्वयं आत्मानं प्राहया आमवन् मुक्तं । निष्पत्य पुरान्निर्गत्य । पुरुषो भव शरो भवे | मास ग्रहीतुमनुमेने ॥ ८३-८६ । पफाल व्यशी- त्यर्थः। पुरुषाधमेति पाठे पुरोपरोधेष्यनिर्गमने नूनं | येत ।। ८७ ॥ विश्राव्य विशेषेण श्रावयित्वा ।८८ – पुरुषाधम एवासीति भावः ॥ ७६ ॥ हन्तेति अह- ८९ ॥ प्रासादधर्षणात् प्रासादभजनात् । पश्यन् मिति शेषः। निरुद्विग्नाः निर्भयाः ॥ ७७ । उद्धरि- | तर्कयन् । निश्वासपरमः अधिकनिश्वासः ॥ ९० ॥ ष्यामि उन्मूलयिष्यामि । कण्टकं बाधकमित्यर्थः । राम इति अङ्गदागमनं दृष्टेति शेषः ॥ ९१ ॥ संवृतः ॥-७९ ॥ आपन्नः प्राप्तः । बभूव ।।८०।। दुर्मेधाः । बभूवेति शेषः । उत्तरश्लोकेनैकवाक्यत्वे हरिकपि- ७८ दुबृद्धिः। न दूतो वध्य इति शास्त्रानभिज्ञ इत्यर्थः । । शब्दयोःपौनरुक्त्यं स्यात् ॥ ९२ ॥ न्यूनताव्याचं स० वनपर्वणिमार्कण्डेयोपाख्याने ‘‘इङ्गितज्ञास्ततोभर्तुश्चत्वारोरजनीचराः । चतुर्वजेषुजगृहुःशठूलमिवपक्षिणः” इत्युक्तेः बध्यतामितिशशास’ अङ्गचेष्टभिःसूचयामास । ८१ ॥ सत्य० राक्षसाः वचःश्रुखेवजहुः । चतुर्वतेषु स्कन्धभुजेषु पार्श्वद्वयवर्तेिष्वितिसंभवयैककण्ठ्यं ॥ ८२ ॥ ति० युद्धायैवाभिवर्तत अभ्यवर्तत ॥ ९१ ॥ [ पा० ] १ क. -घः च ज. पुरुषाधम. २ ङ. झ. ट. रोषमापन्नः. ३ क ख. ड, -ट. गृह्यतामिति. ४ झ. अ. ट. दीप्ताग्निमिवतेजसा. ५ क. -इ, झ. झ. ट. बाहुद्वयासक्तान्, ६ च. छ. अ. हरिपुङ्गवः. ७ घ. शैलशङ्गाभं. ८ ङ.--ट. तस्योपतनवेगेननिर्दूतास्तत्रराक्षसाः ९ क.--डी. मिवोच्छूितं, १० च• बभञ्ज. ङ. झ. ज. ट. चक्रम•११ ङ. झ. ट. पफालचतदाक्रान्तं. ग. घ. तत्पफालतदछन्तं, १२ ख. ---ट. वर्गेणेव. १३ ख. ङ. झ. ट. विहायसारे १४ ङ, झ. अ. ट. वाभिवर्तत. १५ ङ. झ. ट. सतुद्वाराणिसंयम्य.