पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३२ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १२९ एतैः सर्वैरभिज्ञानैरभिज्ञाय सुदुःखिता । विजगर्हऽत्र कैकेयीं क्रोशन्ती कुररी यथा ॥ ३ ॥ सकामा भव कैकेयि हतोऽयं कुलनन्दनः । कुलमुत्सादितं सर्वं त्वया कलहशीलया ॥ ४॥ आर्येण 'किं ते कैकेयि कृतं रामेण विप्रियम् । यन्मैया चीरवसनस्त्वया प्रस्थापितो वनम् । [ इदैनीं स हि धर्मात्मा राक्षसैश्च कथं हतः॥ ५॥] एवमुक्त्वा तु वैदेही वेपमाना तपस्विनी ॥ जगाम जगतीं बाला छिन्ना तु कदली यथा ॥ ६ ॥ सा मुहूर्तात्समाश्वास्य प्रतिलभ्य च चेतनाम् । तच्छिरः समुपाघ्राय विललापायतेक्षणा ॥७॥ हा हताऽस्मि महाबाहो वीरव्रतमनुव्रत ॥ इमां ते पश्चिमावस्थां गताऽसि विधवा कृता ॥ ८ ॥ प्रथमं मरणं नाय भर्तृवैगुण्यमुच्यते । सुवृत्त साधुवृत्तायाः संवृत्तस्त्वं ममाग्रतः ॥ ९ ॥ दुःखादुःखं प्रपन्नया मग्नायाः शोकसागरे । यो हि मानुद्यतस्त्रातुं सोपि त्वं विनिपातितः ॥१०॥ सा श्वश्रूर्मम कौसल्या त्वया पुत्रेण राघव ॥ वऍसेनेव यथा धेनुर्विवत्सा वत्सलं कृता ॥ ११ ॥ ललाटं ॥ २ ॥ अभिज्ञानैः चिहैः । ॐ प्रज्ञानं चाष्य- | अतो विधवा कृता ॥ ८ । प्रथमं भर्तुर्मरणं भार्या मिज्ञानं” इत्यमरः । अभिज्ञाय तदेव शिर इति प्रत्यभि- | दोषनिमित्तकं भवति तत्त्वत्र न पश्यामीत्याह-प्रथ ज्ञायेत्यर्थः । अत्र रामविषये ॥ ३ ॥ हे कैकेयि | ममिति । प्रथमं भर्तुर्मरणं नार्या वैगुण्यं वैगुण्यहे सकामा भव । संपूर्णकामाभवेत्यर्थः । कः काम | तुकं । सुवृत्तस्त्वं साधुवृत्ताया ममाग्रतः संवृत्तः इत्यत्राह--हत इति । कलहशीलया कलहस्वभावया। | मृतः । कथमिदं संगच्छत इति भावः । अस्मिन्पक्षे कलहप्रयोजनयेतियावत् । त्वया सर्वं कुलं रघुवंशः । | न सुवृत्तपदस्वारस्यं । यद्वा भवन्मरणस्य मदोष एव उत्सादितं भवति । तथा कुलनन्दनोयं रामो हतः। हेतुरित्याह-प्रथममिति । विगुण एव वैगुण्यं । प्रव्राजनव्याजेन रामहननमेव त्वया संकल्पितं तदि- | स्वार्थे ष्यच् । प्रथमं "भर्तृमरणं भार्यादोषनिमिः दानीं विपरीतफलं ते जातं । कुलतन्तुभूतरामहननेन | तकमिति सुप्रसिद्धे । अतो हे सुवृत्त साधु तदेकपराः सर्वे भरताद्यो हता एव । कलह एव ते | वृत्त । साधुवृत्तायाः सम्यग्जीवनवत्याः । ममाप्रत प्रयोजनं फलितमितिभावः ॥ ४ ॥ हेत्वन्तराभावा । स्त्वं मृतोसि । ममैगुण्यहेतुकं त्वन्मरणमितिभावः। दिदमेव रामवनप्रव्राजने हेतुरित्याह---आयेणोतेि ॥ | सुवृत्तेत्यनेन त्वत्रैगुण्यहेतुकं न भवतीति ज्ञापितं आर्येण सर्वप्रियकारिणेत्यर्थः । यत् येन कारणेन । । ९ ॥ स्खस्य वैगुण्यसद्भावे निदर्शनमाह-दुःखा मया सह चीरवसनो रामः प्रस्थापितः तादृशं | दिति । दुःखाहुःखं अत्यन्तदुःखं । प्रपन्नायाः वन विप्रियं किं कृतं ॥ ५ ॥ तपस्विनी शोचनीया । | प्रस्थानं प्रथमं दुःखं तस्मादपिदुःखं रावणेनापहरणं जगतीं भूमिं । जगाम । मूर्छिछतेत्यर्थः । बाला मृदुबु- | तत् प्राप्तायाइत्यर्थः। संप्रति भर्तृमरणेन शोकसागरे द्धिरित्यर्थः ॥ ६ ॥ समाश्वास्य उच्छासं प्राप्य । निमग्नायाः। इयं च षष्ठी ‘« यस्य च भावेन भाव- चेतनज्ञानं। आयतेक्षणा अशुमिश्रत्वेन शिरोवलोकनाथै | लक्षणम् ” इत्यस्मिन्नर्थे । शोकसागरे मग्नायाः शोक विस्तृतविलोचनेत्यर्थः ॥ ७ ॥ वीरव्रतं शत्रुमहत्वा न | सागरे मग्नायां मयि । दुःखाहुःखं प्रपन्नायाः प्रप- निवर्तिष्य इति संकल्पं । अनुव्रत अनुप्राप्त । गतास्मि | न्नायां सत्यां । यो सां त्रातुमुद्यतः स त्वमपि बिनि दृष्टवत्यस्मि । ‘‘ गत्यथ ज्ञानार्थाः ” इति न्यायात् । । पातित इति संबन्धः ।। १० । न केवलं ममैववुःखं ती० प्रथमंभर्तृमरणं नार्यावैगुण्यं दुश्चरित्रहेतुकमुच्यते । तथासति साधुवृत्तायाममग्रतःसंवृत्तःममापचारंविनैवकौमृतोसी त्यर्थः । ति७ नार्याभर्तुर्मरणं प्रथमंवैगुण्यं मुख्योऽनर्थः । यतु भर्तुःप्रथमंमरणेनार्यावैगुण्यं दुश्चरित्रमूलमित्यर्थइति तन्न । एवं हिसर्वविधवानामसतीत्वापत्तेः ॥ ९ ॥ रामानु० वत्सेनेवत्वया धेनुर्यथा धेनुरिव सेति यथेवशब्दयोनिर्वाहः ॥ ११ ॥ [ पा०] १ क, ख, ग. ड. जळूट. किंनुकैकेय्याः . २ ख. घ. यहुँह ।चीरवसनस्तयाप्रव्राजित. ङ.--अ. यन्मयाची रवसनंदत्वाप्रव्राजितो. ३ इदमर्घ. क. ख. च. छ. पाठेषुदृश्यते. ४ क. ग. ड. झ. ल. समाश्वस्य. ५ घ. विधिनकृता, ६ ङ. झ. ट. महदुःखं . ७ क. ग, ङ. झ• ट, वत्सलातेयथाधेनुः वा. रा. १४