पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२६ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ सान्त्व्यमाना मया भद्रे यंमुपाश्रित्य वल्गसे । खरहन्ता स ते भर्ता राघवः समरे हतः ॥ १७ ॥ छिन्नं ते सर्वतो मूलं दर्पस्ते विहतो मया ॥ व्यसनेनात्मनः सीते मम भार्या भविष्यसि ॥ १८ ॥ विउँजेमां मतिं मूढे किं मृतेन करिष्यसि ॥ भवख भद्रे भार्याणां सर्वासामीश्वरी मम ॥ १९ ॥ अल्पपुण्ये विवृत्तार्थे मूढे पण्डितमानिनि ॥ शृणु भर्तृवधं सीते घोरं वृत्रवधं यथा ॥ २० ॥ समायातः समुद्रान्तं मां हन्तुं किल राघवः ॥ वानरेन्द्रप्रणीतेन महता वृतः॥ २१ ॥ ॐ निविष्टः समुद्रस्य पीड्य तीरमथोत्तरम् ॥ बलेन महता रामो व्रजत्यस्तं दिवाकरे ॥ २२ ॥ अथाध्वनि परिश्रान्तमर्धरात्रे स्थितं बलम् ॥ सुखसंसुप्तमासाद्य चारितं प्रथमं चरैः ॥ २३ ॥ तत्प्रहस्तप्रणीतेन बलेन महता मम ॥ बलमस्य हतं रात्रौ यत्र रामः सलक्ष्मणः ॥ २४ ॥ पट्टिशान्परिघांचैतान्दण्डान्खङ्गान्महायसान् ॥ बाणजालानि शूलानि भाखरान्कूटमुद्गरान् ॥२५॥ यष्टैश्च तोमराञ्शक्तीश्चक्राणि मुसलानि च ॥ उद्यम्योद्यम्य रक्षोभिर्वानरेषु निपातिताः ॥ २६ ॥ अथ सुप्तस्य रामस्य प्रहस्तेन प्रमाथिना ॥ असक्तं कृतहस्तेन शिरश्छिन्नं महासिना ॥ २७ ॥ विभीषणः समुत्पत्य निगृहीतो यदृच्छया ॥ दिीः प्रव्राजितः सँधैर्लक्ष्मणः प्लवगैः सह ॥ २८ ॥ यपरमार्थ ॥ १६ । वल्गसे जल्पसि । मां निष्षुर- | स्थितः। तदस्य बलं प्रहस्तप्रणीतेन महता बलेन हतं मवद इत्यर्थः । १७ ॥ मूलं आधारभूतं । सर्वतः ॥ २४ ॥ पट्टिशानित्यादिश्लोकद्वयं ।। पट्टिशान् असि- कात्येन व्यसनेन निमित्तेन । प्रार्थनां विनेत्यर्थः । विशेषान् । परिघान् अर्गलानि । चक्रान् क्षुद्रचक्राणि। ॥१८॥ मृतेन रामेण । भवस्यात्मनेपदमा पें ॥१९॥ | सहायसान् महयसनिर्मितान् । दण्डविशेषणमेतत् । निवृत्तार्थे एतावत्पर्यन्तं निवृत्तपुरुषार्थे । पण्डितमा- | कूटमुद्रान् अयःकीलकीलितगः । यष्टीः केवलद. निनि । “क्यानिनोश्च ” इति हस्खत्वं ।। २० ॥ | ण्डान् । तोमरान् स्थूलाप्रगदाः । प्रासान् क्षेपणीः। समुद्रान्तं समुद्रतीरं । प्रणीतेन आनीतेन ॥ २१॥ चक्राणि महाचक्राणि । पट्टिशादीनुद्यम्योद्यम्य वानरेषु स रामः समुद्रस्योत्तरं तीरं महता बलेन पीड्य पीड- | निपातिताः । त इति शेषः ॥ २५-२६ । प्रमश्नाति यित्वा । दिवाकरे अस्तं प्रयाति सति निविष्टः ॥२२॥ प्रहरतीति प्रमाथिः तेन । कृतहस्तेन शिक्षितहस्तेन कात्येऽथशब्द । अध्वनि परिश्रान्तं अतएव | कर्ता । महासिना करणेन । असक्तं अविलम्बितंयथा स्थितं । अर्धरात्रे सुखसंसुप्तं बलं प्रथममासाद्य चारैश्चा- भवति तथा । छिन्नमित्यन्वयः ॥ २७ ॥ विभीषणः रितमभूत् ॥ २३ । यत्र बले । रामः सलक्ष्मणोव- समुत्पत्य गतोपि निगृहीत इत्यर्थः । प्रव्राजितः पला अहंरावणइतिखनामवा कीर्तयन् ॥ १६ ॥ शि० ननुतवोक्तस्यसत्यत्वे अहंतश्लोकमेवगमिष्यामीत्यतआह--व्यसनेनेति मूढे हेप्राप्तनिरोधे । आत्मनोव्यसनेन पतिवियोगदुःखेनोपलक्षितात्वं एनां तल्लोकगमनविषयां। मतिं विसृज। मृतेन लोकान्तरं गतेनपत्या त्वंकिंकरिष्यसि । तत्प्राप्तिर्नभविष्यतीत्यर्थः । अतोममभार्याः स्त्रियः। भविष्यसि प्राप्स्यसि । तासांसेव्यासतीतत्रैव निवत्स्यसीत्यर्थः । तदेवभङ्गयन्तरेणाह--भवति । हेभद्रे । अल्पपुण्यं अल्पानांश्चद्राणामपिपुण्यंपवित्रज्ञयया यन्नामस्मरणादि नाघ्द्राअपिपूताभवन्तीत्यर्थः । तत्संबोधनं । ननिवृत्तोयंयस्याः। सर्वार्थसंपन्नेत्यर्थः । तत्संबोधनं । मूढे प्राप्तनिरोधे। पण्डिता न्मन्यतेसत्करोतितच्छीला । तत्संबोधनं । ममभार्याणां ईश्वरी पूज्या वंभवख ॥ १८-२० ॥ स० चक्राणि अत्राणि । चक्रसेनारथाङ्गयोः। राष्ट्रात्रयोरपि “ इति विश्वः । स० नपुंसकशेषे निपातितानीतिवस्तुतोवक्तव्यं । सर्वस्यैतस्यावास्तविक तांकविरवगमयांबभूवैवंनिर्देशेनेतिमन्तव्यम् । निपातनस्यप्रधानकर्मादुद्यमनस्यावान्तरकर्मादेतत्कर्मकर्माभूतपरिधादिपदोत्त रंप्रथमयाभवितव्यमितित्यदादिष्वनियमादित्येतइतिशेषः । उक्तंचमनोरमायां ‘‘ उक्तंचहरिणा । प्रधानेतरयोर्यत्रद्रव्यस्यक्रिययोः पृथकू । शक्तिर्गुणाश्रयातनप्रधानमनुरुध्यते । प्रधानविषयाशक्तिःप्रत्ययेनाभिधीयते । यदागुणेतदातद्वदनुक्तापिप्रतीयते इतीति ॥ १६ ॥ स० कृतहस्तेन शिक्षितकरेण । असक्तं यथामहासिनाशिरश्छिन्नं । यथानिद्रभङ्कोभवेद्भवेच्चशिरश्छेदः तथा [ पा° ] १ ड. झ. ट. यमाश्रित्यविमन्यसे. क. घ. यमुपाश्रित्यवर्तसे. २ ख. ङ. झ. ट. दर्पश्चनिहतो. क. ग. घ. च. छ. ज. अन् दर्पस्तेनिहतो. ३ क. ग. ङ. झ. ट. विसृजैतां. ख. घ. च. छ. अ. विसृजैनां. ४ इ. संनिविष्टः५ ङ. झ. ट. श्वक्रानृषीन्दण्डान्महायुधान् ६ घ, ङ. झ. -ट. दिशं ७ ङ. झ. सैन्यैर्लक्ष्मणः, ख, च, छ, ज, सैन्यैर्लक्ष्मणश्चप्लवङ्गमैः