पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२४ श्रीमद्वारमीकिरामायणम् । [ युद्धकाण्डम् ६ ०६:१२, १३ सितम्बर २०१७ (UTC)~ Ravindranathamenon (सम्भाषणम्) ०६:१२, १३ सितम्बर २०१७ (UTC) ~~ ~ ~~ Ravindranathamenon (सम्भाषणम्) ०६:१२, १३ सितम्बर २०१७ (UTC) ~

  • ~*~*~*~*~*~*~*~
  • ~*~*~*~*~*~*~*

सुमुखो दुर्मुखश्चात्र वेगदर्शी च वानरः ॥ मृत्युर्वानररूपेण नूनं सृष्टः खयंभुवा ॥ २४॥ पुत्रो हुतवहस्याथ नीलः सेनापतिः स्खयम् । अनिलस्य च पुत्रोत्र हनुमानिति विश्रुतः ॥ २५ ॥ नप्ता शक्रस्य दुर्धर्षो बलवानङ्गदो युवा मैन्दश्च द्विविदश्चोभौ बलिनावश्विसंभवौ ॥ २६ ॥ पुत्रा वैवखतस्यात्र पञ्च कालान्तकोपमाः ॥ गजो गवाक्षो गवयः शरभो गन्धमादनः॥ २७ ॥ दश वानर कोट्यश्च शूराणां युद्धकाङ्किणाम् । श्रीमतां देवपुत्राणां शेषं नाख्यातुमुत्सहे ॥ २८ ॥ पुत्रो दशरथस्यैष सिंहसंहननो युवा । दूषणो निहतो येन खरश्च त्रिशिरास्तथा ॥ २९ ॥ नास्ति रामस्य सदृशो विक्रमे भुवि कश्चन ॥ विराधो निहतो येन कबन्धश्चन्तकोपमः ॥ ३० ॥ वक्तुं न शक्तो रामस्य नरः कश्चिद्वणान्क्षितौ । जनस्थानगता येन यावन्तो राक्षसा हताः॥ ३१॥ लक्ष्मणश्चात्र धर्मात्मा मातङ्गानामिवर्षभः ॥ यस्य बाणपथं प्राप्य न जीवेदपि वासवः ॥ ३२ ॥ श्वेतो ज्योतिर्मुखश्चात्र भास्करस्यात्मसंभवौ ॥ वरुणस्य च पुत्रोऽन्यो हेमकूटः प्लवङ्गमः॥ ३३ ॥ विश्वकर्मसुतो वीरो नलः प्लवगसत्तमः॥ विक्रान्तो बैलवानत्र वसुपुत्रः सुदुर्धरः ॥ ३४ ॥ राक्षसानां वरिष्ठश्च तव भ्राता विभीषणः । परिगृह्य पुरीं लङ्कां राघवस्य हिते रतः॥ ३५ ॥ इति सर्वं समाख्यातं तवेदं वानरं बलम् । सुवेलेऽधिष्ठितं शैले शेषकार्ये भवान्गतिः ॥ ३६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रिंशः सर्गः ॥ ३०॥ एवमन्यत्रापि ज्ञेयं ॥ २३ ॥ मृत्युरेव स्वयंभुवा सु-| जनस्थानगताः ते यावन्तः ते सर्वेपि हता इत्यर्थः। मुखादिवानररूपेण सृष्टः। सुमुखद्यो मृत्युतुल्या | % यावत्तावच्च साकल्ये " इत्यमरः ॥ ३१ ॥.चश- इत्यूर्थः । यद्वा सुमुखादयो मृत्युपुत्रा इत्यर्थः ॥२४ ॥ | ब्देन दशरथस्य पुत्र इत्याकृष्यते । मातङ्गानामिवर्षभः अनिलस्य पुत्रः औरसः। एवं तत्र तत्र पितृद्वयनि- | गजश्रेष्ठ इव स्थितः ।। ३२-३३ । सुदुरः सुदु दंशो बीजित्वक्षेत्रित्वभ्यामिति मन्तव्यं ।। २५ ॥ | धीरनामा ॥ । ३४ ॥ लङ्कां रामात् परिगृह्य तस्य हिते नतेति । अत्र नप्तृशब्दोर्थसामर्थात्पौत्रे वर्तते | रतो विभीषणस्तव भ्रातेत्यन्वयः ॥ ३५ ॥ गतिः ॥ २६–२७ ॥ वानरकोट्य इत्यत्र वानरेत्यविभ- प्रमाणं । अत्र वानरजन्मोक्ते प्रायशो बालकाण्डोक्त क्तिकनिर्देशः । “ सुपां सुकुक्-–’ इत्यादिना षष्ठया | विरोधादेतत्स विनापि पूर्वोत्तरकथासंघट्टनाच लुक् । वानराणामित्यर्थः । शेषं जन्मस्थानादि । सगयं कल्पित इत्याहुः ॥ ३६ ॥ इति श्रीगोविन्द- नोत्सहे न शक्नोमि ॥ २८ ॥ सिंहसंहननः रमणी- राजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने यावयवसन्निवेशवान्। ‘‘ वराङ्गरूपोपेतो यः सिंह- युद्धकाण्डव्याख्याने त्रिंशस्सर्गः ॥ ३० ॥ संहननो हि सः । इत्यमरः ॥ २९-३० ॥ ये । ८ ती०ः नन्वत्रसधर्मस्यपुत्रःसुषेणः वैवस्वतपुत्रौशरभगन्धमादनावित्युच्यते । बालकाण्डेतु “ वरुणोजनयामाससुषेणंनामवानरम्। शरभंजनयामासपर्जन्यस्तुमहाबलम् । धनदस्यसुतःश्रीमान्वानरोगन्धमादनः ” इतित्रयाणामन्यतउत्पत्तिरुता । सत्यं । सुषेणादिसंज्ञावतामनेकेषामपिसस्खन्नविरोधः ॥ ३६ ॥ इतित्रिंशःसर्गः ॥ ३० ॥ [ पा० ] १ क ख, घ-छ, झ, च, ट, तावन्तो २ घ, ङ. छ. झ. ट. वेगवानत्र