पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२ श्रीमद्वाश्मीकिरामायणम् । [ युद्धकाण्डम् ६ यं पृष्ठतोऽनुगच्छन्ति शतशोथ सहस्रशः॥ द्रुमानुद्यम्य सहसा लङ्कारोहणतत्पराः ॥ यूथपा हरिराजस्य किङ्कराः समुपस्थिताः ॥ ४ ॥ ऐष कोटिसहस्त्रेण वानराणां महौजसम् ॥ आकाङ्कते त्वां संग्रामे जेतुं परपुरंजय ॥ ५ ॥ नीलानिव महामेघांस्तिष्ठतो यांस्तु पश्यसि ॥ असिताञ्जनसंकाशान्युद्धे सत्यपराक्रमान् ॥ असंख्येयाननिर्देश्यान्परं पारमिवोदधेः ॥ ६ ॥ पर्वतेषु च ये केचिद्विषेमेषु नदीषु च । एते त्वामभिवर्तन्ते राजवृक्षाः सुदारुणाः ॥ ७ ॥ एषां मध्ये स्थितो राजन्भीमाक्षो भीमदर्शनः ॥ पर्जन्य इव जीमूतैः समन्तात्परिवारितः ॥ ८ ॥ अक्षवन्तं गिरिश्रेष्ठमध्यास्ते नर्मदां पिबन् । सर्वेक्षणामधिपतिधूम्रो नामैष यूथपः ॥ ९ ॥ यवीयानस्य तु भ्राता पश्यैनं पर्वतोपमम् । भ्रात्रा समानो रूपेण विशिष्टस्तु पैराक्रमैः ॥ १० ॥ स एष जाम्बवान्नाम महायूथपयूथपः ॥ जैक्रान्तो गुरुवर्ती च संप्रहारेष्घमर्षणः ॥ ११ ॥ एतेन साढं सुमहत्कृतं शक्रस्य धीमता । दैवासुरे जाम्बवता लब्धाश्च बहवो वराः ॥ १२ ॥ आरुख पर्वताग्रेभ्यो महाभुविपुलाः शिलाः॥ ब्रुञ्चन्ति विपुलाकारा न मृत्योरुद्विजन्ति च ॥ १३॥ राक्षसानां च सदृशाः पिशाचानां च लोमशाः । एतस्य सैन्या बहवो विचरन्थैग्नितेजसः ॥१४॥ यं त्वेनमभिसंरब्धं प्लवमानमिव स्थितम् । प्रेक्षन्ते वानराः सर्वे स्थिता यूथपयूथपम् ॥ १५ ॥ एष राजन्सहस्राक्षी पर्युपास्ते हरीश्वरः । बलेन बैलसंपन्नो 'दंभो नामैष यूथपः ॥ १६ ॥ यैः स्थितं योजने शैलं गच्छन्पार्थेन सेवते ॥ ऊर्च तथैव कायेन गतः प्राप्नोति योजनम् ॥१७॥ हरो नाम ॥ २–३ ॥ यमित्यादि सार्धश्लोक | जन्ति न बिभ्यति । राक्षसानां पिशाचानां च सदृशा एकान्वयः । यं हरं । इरस्य हरिराजकिङ्करत्वेन । इत्यन्वयः ॥ १३-१४॥ द्वाभ्यां दम्भं वर्णयति तदीया अपि यूथपा हरिराजकिंकरा एवेति न विरोधः । यं त्विति ।। अभिसंरब्धं कुपितं । प्लवमानमिव सदा ॥ ४~५ । रक्षसेना वर्णयति-नीलानित्यादि । | प्लवमानमिव स्थितं प्रेक्षन्ते । आश्चर्येणेति शेषः। अनिर्देश्यान् प्रत्येकं निर्देष्टुमशक्यान्। परं पारमिवो- | बलेन पर्युपास्ते बलेन प्रीणयतीत्यर्थः ।। १५-१६ ॥ दधेः समुद्रस्यापरं तीरमिव स्थितमित्यर्थः ॥ ६ ॥ | त्रिभिः सन्नादनं वर्णयति--यः स्थितमिति । यो विषमेषु निम्नोन्नतप्रदेशेषु । । ७ ॥ पर्जन्यः वर्षदेवता | गच्छन् योजने योजनदूरे । स्थितं शैलं पार्श्वन ॥ ८–९ । यवीयान् कनिष्ठः। अयमिति शेषः । गच्छति । अस्य गमनकाले एकपदप्रक्षेपदशायां विशिष्टः अधिकः ॥ १० ॥ गुरुवर्ती गुरुशुश्रूषकः | एकयोजनपरिमितः पर्वतः पार्श्वस्थो भवति । योज- ॥ ११ ॥। दैवासुरे देवासुरयुद्धे ।१२ ॥ जाम्बूवतः नायतशरीर इत्यर्थः कायेनोर्वे गतः सन् योजनं सैनिकान्वर्णयति द्वाभ्यां–आरुहेत्यादि । पर्वत- | प्राप्नोति । योजनोन्नतकायइत्यर्थः । अतएव चतु प्राणीत्यर्थात्सिद्धं । मुञ्चन्ति च्यावयन्ति । नोद्वि- | पादेषु यस्मात् परमं परं रूपं शरीरं । न विद्यते । शि० जीमूतैः कृष्णमेचैः । समन्तात्परिवारितः पर्जन्यः इन्द्रइव यःस्थितः ॥ ८ ॥ स० अस्य धूम्रस्य । यवीयान् कनिष्ठः। रूपेण ऋक्ष।कारेण । विशिष्टः उत्तमः । एतेन जांबवतइव धूम्रस्यापिब्रह्मजातत्वंज्ञायते । बालकाण्डेअंशावतरणप्रस्तावेगुणज्ये- श्रुखाबांबवतएवोक्तिः । सौहार्दाद्रातेववा ॥ १० ॥ रामानु० संप्रहारेषु युद्धेषु । संप्रहाराभिसंपातकलिसंस्फोटसंयुगः इत्यमरः । ति० गुरुवर्ती सदुरूपासकः । अनेन सर्वसिद्धिमत्वमुक्तं । स७ गुरुवतो ज्येष्ठानुवर्ती । अमर्षणः परपराभवा सहिष्णुः ॥ ११ ॥ [ पा० ] १ अयंश्छकःप्राचीनकोशेषुनदृश्यते, औत्तराहपाठएवदृश्यते. २ ङ. झ. ट. द्विषयेषु . . ट ३ घङ. झ. . राजाभीमाक्ष. ४ छ. बलीपश्यैनं. ५ ख. ङ. च. छ. झ. अः ट. पराक्रमे ६ क. -ट. प्रशान्तो. ७ ख. ख. च. . जअ. च. छ. विपुलान्नादान्न. घ. विविधाकारान८ , झ. ट. न्यमितौजसः: ९ क. च. यूथपयूथपाः, १० ङ. झ, बलसंयुक्तो ११ ज. ऋषभोनामयूथपः, घ. ङ. झ. अ. रंभोनामैष. १२ घ. संस्थितं ११