पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ग:

श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम्


किमुक्त्वा बहुधा चापि सर्वथा विजयी भवान् । निमित्तानि च पश्यामि मनो मे संहृष्यति ॥२६॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्वितीयः सर्गः ॥ २ ॥


तृतीयः सर्गः ॥ ३ ॥

श्रीरामेणहनुमन्तंप्रति स्वस्यसेतुबन्धाद्यन्यतमोपायेनवानराणांसागरतारणसामथ्योंक्तिपूर्वकं लङ्कायादुर्गादिभिःपरिरक्षण प्रकारप्रश्नः ॥१॥ हनुमता तंप्रति विस्तरेणतत्प्रकारनिवेदनेनसहस्वकृतसंक्रामादिविध्वंसननिवेदनपूर्वकं स्वस्याङ्गदादिकतिपय धीरसाहित्येन बाहुष्वनेनैव लङ्कागमनपूर्वकं सर्वराक्षसविध्वंसनशक्तिनिवेदनेन तदर्थमाज्ञाप्रार्थनम् ॥ २ ॥ सुग्रीवस्य वचः श्रुत्वा हेतुमत्परमार्थवित् । प्रतिजग्राह काकुत्स्थो हनुमन्तमथाब्रवीत् ।। तपसा सेतुबन्धेन सागरोच्छोषणेन वा ।। सर्वथा सुसमर्थोखिम सागरस्यास्य लड़न्ने । । २ ।। कति दुर्गाणि दुर्गाया लैङ्काया बूहि तानि मे । ज्ञातुमिच्छामि तत्सर्वं दर्शनादिव वानर ॥ ३ ॥ बलस्य परिमाणं च द्वारदुर्गक्रियामपि । गुप्तिकर्म च लङ्काया रक्षसां सदनानि च ॥ ४ ॥ यथासुखं यथावच लङ्कायामसि दृष्टवान् । सर्वमाचक्ष्व तत्त्वेन सर्वथा कुशलो ह्यसि ॥ ५ ॥ श्रुत्वा रामस्य वचनं हनूमान्मारुतात्मजः ।। [ प्रणम्य शिरसा रामं प्राञ्जलिः सुसमाहितः ॥ ] वाक्यं वाक्यविदांश्रेष्ठो रामं पुनरथाब्रवीत् ।। ६ ।। श्रयतां सर्वमाख्यास्ये दुर्गेकमें विधानतः । गुप्ता पुरी यथा लङ्का रक्षिता च यथा बलैः ॥ ७ ।।


वत् ।। २५ । निमित्तानुसारेणापि भवतो जयसिद्धि- | कति दुर्गाणि कति दुर्गप्राकारः । सन्तीत्यर्थः । रित्याह-किमुक्त्वेति । सर्वथा सेतुं बद्भा अबट्टा | जलगिरिस्थलात्मकानि दुर्गाणि । तत् दुर्गविशेषवत्वं । वा । निमित्तानि नेत्रस्फुरणादीनि । मनो मे संप्रहृ- |मे ब्रूहि । पूर्वमेवोक्तमित्यत्राह-ज्ञातुमिति । तत्पूर्वं श्रुतं ष्यतीति मन:संप्रहर्षश्च कार्यसिद्धिनिमित्तमिति भावः | सर्वे । दर्शनादिव प्रत्यक्षत इव । विशदं ज्ञातुमिः ॥ २६ ॥ इति श्रीगोविन्द्रराजविरचिते श्रीमद्रामाय- | च्छामि । बलस्य सेनायाः । परिमाणं इयत्तां । प्रणभूषण रन्नकिरीटाख्याने युद्धकाण्डव्याख्याने | द्वारदुर्गक्रियां द्वारेषु दुर्गक्रियां कीलखननजलौ द्वितीयः सर्ग ।। २ ।। घप्लवनकरणादिभिः दुर्गमत्वकरणं । गुप्तिकर्म प्राकारपरिघादिनिर्माणं । सदनानि गृहाणि ।


एवं मानुषभावनानुसारेण समुद्रस्य दुस्तरत्वेन | ज्ञातुमिच्छामीति पूर्वेणान्वयः ।। ३-४ । यथासुखं शोकापन्नोपि सुहृदुपदेशेन प्रतिष्ठापितधैयौं रामः |निश्शङ्गं । यथावत् तत्त्वेन । लङ्कायां पूर्वोक्तं सर्व नीतिशास्रानुसारेण संहार्यशत्रुदुर्गस्वरूपशोधनाय | दृष्टवानसि । तत्त्वेन दृष्टप्रकारेणैव । आचक्ष्व व्यक्त पृच्छति-सुग्रीवस्येत्यादिना । सारग्राहेित्वमाह - | वद । सर्वथा द्रष्टुं वतुं च ।। ५ । अथाब्रवीत्। परमार्थविदिति । हेतुमत् युक्तियुक्तं । कात्रुर्येनाब्रवीत् । । “मङ्गलानन्तरारम्भप्रश्नकात्रुर्ये वचः श्रुत्वा | प्रांतेजग्राह ।। १ ॥ तपसा तपःप्रभावन । तरसेति |ष्वथोअथ ?' इत्यमरः ।। ६ । दुर्गकर्मविधानतः पाठे तरसा वेगेन । लड्ने तरणे ॥ २ । एवमुपाय- |दुर्गकर्म प्राकारपरिखाखननादि । तद्विधानतः तन्नि चिन्तनेन समुद्रस्य दुस्तरत्वमविगणय्य दुर्गस्वरूपं |मर्माणेन गुप्तति संबन्धः । राक्षसाः स्निग्धाः स्वामिनि। पृच्छति-कतीति । दुर्गायाः दुष्प्रापाया: । लङ्काया : |भक्ताः तेजसासंपादितामितिशेषः । विभार्ग तत्र तत्र


स० परमार्थः अवतारमुख्यार्थः रावणमारणादिः तद्वत् । तद्धटकमितियावत् ॥ १ ॥ ति० तपसा तपःकार्यसंकल्पसिद्वद्या । अतएवसकलखपुरवर्तिप्राणिनांब्रह्मलोकनयनंवक्ष्यमाणंसंगच्छते । सेतुबन्धेन गङ्गायांगाङ्गेयेनशरैरिव । सागरोच्छोषणेन दिव्या [ पा० ]१ ख. संप्रसीदति. २ ख. इतिस्यवचः. च. छ. तस्यतद्वचनं. ३ ड. झ. ट. लङ्कायास्तब्रवीष्वमे. क. ख. ग च. छ. ज. . लङ्कायास्तद्रवीहिमे. ४ च. छ. ज. श्रोतुमिच्छामि. ५ ग. ड. च, ज. लङ्कायां. ६ इदमर्ध क. ख. पाठयोर्टश्यते