पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ शुकस्य वचनं श्रुत्वा रावणो वाक्यमब्रवीत् । रोषसंरक्तनयनो निर्दहन्निव चक्षुषा ॥ ३७ ॥ यदि मां प्रति युध्येरन्देवगन्धर्वेद नमः ॥ नैव सीतां पुंयच्छामि सर्वलोकभयादपि ॥ ३८ ॥ कदा नामाभिधावन्ति राघवं मामकाः शराः । वसन्ते पुष्पितं मत्ता भ्रमरा इव पादपम् ॥ ३९ ॥ कदा तूणीशयैर्दानैर्गणशः कार्मुकच्युतैः ॥ शरैरादीपयाम्येनमुरुकभिरिव कुञ्जरम् ॥ ४० ॥ तच्चास्य बलमादास्ये बलेन महता वृतः । ज्योतिषामिव सर्वेषां प्रभामुद्यन्दिवाकरः ॥ ४१ ।। सागरस्येव मे वेगो मारुतस्येव मे गतिः । न हि दाशरथिर्वेद तेन मां योद्धमिच्छति ॥ ४२ ॥ न मे तूणीशयान्बाणान्सविषानिव पन्नगान् । रामः पश्यति संग्रामे तेन मां योद्धमिच्छति ॥४३॥ न जानाति पुरा वीर्यं मम युद्धे स राघवः ॥ ४४ ॥ मम चापमयीं वीणां शरकोणैः प्रवादिताम् ॥ ज्याशब्दतुमुलां घोरामार्तभीतमहाखनाम् ॥ ४५ ॥ नाराचतलसनदां तै ममाहितवाहिनीम् । अवगाह्य महारङ्ग वादयिष्याम्यहं रणे ॥ ४६ ॥ न वासवेनापि सहस्रचक्षुषा यथाऽस्मि शक्यो वरुणेन वा स्खयम् ॥ यमेन वा धर्षयितुं शराग्निना मैहाहवे वैश्रवणेन वै पुनः ॥ ४७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुर्विंशः सर्गः ॥ २४ ॥ ' मित्युक्तंविशदयति-सीतामिति ॥ ३६-३७ ॥ | भीतमहास्वनां आर्तभीतशब्देन तत्स्वनो लक्ष्यते । सर्वलोकभयात् सर्वछोकेभ्यो भयात् ॥ । ३८ ॥ एवं नाराचतलशब्देनापि तत्स्वनः। आर्तभीतानां स्वमनोरथं दर्शयति-कदेत्यादिना ॥ ३९ ॥ तूणी- स्खन एव महास्वनो यस्यास्तां । नाराचंतलस्वन एव शयैः चिरात्समराभावेन केवलतूणीरस्थैः । गणशः | सन्नादो यस्यास्तां। घोरां अन्यैर्वादयितुमशक्यां । सङ्घशः । उल्काभिः निर्गतज्वालाकारैः । ताभिः | मम चापमयीं वीणामिति व्यस्तरूपकं । रणे रण कुजरमभिद्रावयन्तीति प्रसिद्धिः ॥ ४० ॥ तत् | स्थजने । शृण्वतीति शेषः । वीणाया मन्द्रमध्यता बलं ? स च हन्ता विराधस्य रु इत्यादिना भवदु- |रभेदेन स्वरत्रयसंभवादत्रापि स्वंरत्रयमुक्तं ।। ४५ तबलं। आदास्ये तिरस्करोमीत्यर्थः ।। ४१–४३ ॥ ४६ ॥ न वासवेनेति सहस्रचक्षुष्ठं गर्वहेतुत्वेनोक्तं । न जानातीत्यर्थ । पुरा न जानाति ज्ञास्य- दिग्विजये वरुणपुत्रैरेव युद्धकरणात् स्वयमित्युक्तं । इतःपरं तीत्यर्थः ॥ ४४ ॥ अथ रूपकव्याजेन युद्धस्यात्मनो | वासवादिभिः शराग्निना यथा धर्षयितुं न शक्यो- विनोदनकरत्वमाहममेत्यादिना । ममाहितवाहि- | स्मीति योजना ।। ४७ ॥ इति श्रीगोविन्दराजविर - नीमेव महारङ्ग विपुत्रनृत्तशालां । अवगाह्य प्रविश्य। चिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्ध शरैरेव कोणैः वीणावादनदण्डैः । प्रवादितां शब्दितां। | काण्डव्याख्याने चतुर्विंशः सर्गः ॥ ॥ २४ ज्याशब्द एव तुमुलः तुमुलस्खनो यस्यास्तां । आर्त हन्तेत्यनेन सवापिहन्तेतिसूचितं पदं स्थानं । अन्विध्यागतः ॥ ३२ ॥ स० चक्षुषेयेकवचनेन अल्पबलेशुकेकोपेनसमप्रचक्षुषां विनियोगे ॥ ३७ ॥ स० सर्वलोकः सर्वज्ञः हरोबाहरिश्नहिरण्यग भवेद्भस्मीभूतःसइतितजीवनेच्छारावणस्याधुनास्तीतिद्योत्यते भवा । तस्माद्भयादपि नैवप्रदास्यामीत्यन्वयः । सर्वलोकभयात् पुत्रादिलोकनाशभयादपीतिवा॥ ३८ ॥ रामानु० सागरस्य जगदाप्लवनोद्यतस्य ॥ ४१ ॥ इतिचतुर्विंशःसर्गः ॥ २४ ॥ [ पा० ] १ क. ख. ग. ह. च. झ. ध. प्रदास्यामि २ . झ. ट. नदीमहित. ३ घ. नवैभवेणापिमृघेखयंभुवा ४ कं. च, छ. अ. वाखय.