पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकि रामायणम् [ किष्किन्धाकाण्डम् ४ श्रेयोऽद्य मन्ये मम शैलमुख्ये तस्मिन्निवासश्विरमृश्यमूके ॥ यथातथा वर्तयतः स्ववृत्या नेमं निहत्य त्रिदिवस्य लाभः ॥ ७ ॥ न त्वां जिघांसामि चरेति यन्मामयं महात्मा मतिमानुवाच ॥ तस्यैव तद्राम वचोनुरूपमिदं पुनः कर्म च मेऽनुरूपम् ॥ ८ ॥ भ्राता कथं नाम महागुणस्य आतुर्वधं राघव रोचयेत ॥ राज्यस्य दुःखस्य च वीर सारं नै चिन्तयन्काम पुरस्कृतः सन् ॥ ९ ॥ वधो हि मे मतो नासीत्वमाहात्म्याव्यतिक्रमात् ॥ ममासीद्बुद्धिदौरात्म्यात्प्राणहारी व्यतिक्रमः ॥१०॥ मशाखावोsहं मुहूर्त परिनिष्टनन् || सान्त्वयित्वा त्वनेनोक्तो न पुनः कर्तुमर्हसि ॥ ११ ॥ भ्रातृत्वमार्यभावश्च धर्मश्चानेन रक्षितः ॥ मया क्रोधच कामश्च कपित्वं च प्रदर्शितम् ॥ १२ ॥ अचिन्तनीयं परिवर्जनीयमनीप्सनीयं स्वनवेक्षणीयम् ॥ प्राप्तोमि पाप्मानमिमं नरेन्द्र आतुर्वधावाष्ट्रवधादिवेन्द्रः ॥ १३ ॥ पाप्मानमिन्द्रस्य मही जलं च वृक्षाच कामं जगृहु: स्त्रियश्च ॥ को नाम पाप्मानमिमं क्षमेत शाखामृगस प्रतिपत्तुमिच्छन् ॥ १४ ॥ न्तमाक्रमणाच्च ॥ ६ ॥ यथातथा कथंचित् | स्ववृत्त्या | णहारी भ्रातृवधकारी । व्यतिक्रमः अमर्यादा आसीत् वानरजात्युचितवृत्त्या । तस्मिन् शैलमुख्ये ऋयमूके। ॥ १० ॥ मतो नासीदित्युक्तं विशयति- द्रुमेति ॥ निवासः श्रेयस्करः । इमं वालिनं निहत्य त्रिदिवस्य परिनिष्टनन् आर्तरखं कुर्वन् । नपुनः कर्तुमर्हसि युद्धमिति स्वर्गस्य लाभोपि न श्रेय इत्यर्थः ॥ ७ ॥ महात्मा शेषः । अत्रेतिकरणं द्रष्टव्यं ।। ११-१२ ।। अचि- महास्वभावः । मतिमान् कर्तव्याकर्तव्यविवेकशीलः । न्तनीयं अपरिच्छेद्यमित्यर्थः । परिवर्जनीयं साधुमि- अयं वाली । त्वां न जिघांसामिन मारयितुमिच्छामि । रत्यक्तव्यं । अनीप्सनीयं अनभिलषणीयं । कदाचि- चर यथेष्टं गच्छेति मामुवाचेतियत् तद्वचः तस्यैव दपि इच्छाया अयोग्यमित्यर्थः । स्वनवेक्षणीयं अनुरूपं सदृशं तद्बुद्धिशीलतुल्यं । इदं भ्रातृवधरूपं सुतरामदर्शनीयं | जुगुप्सितमित्यर्थः । त्वष्टुःपुत्रः कर्मतु । मे दुरालनो दुर्मतेरनुरूपं ॥ ८ ॥ राज्यस्य त्वाष्ट्र: विश्वरूपः । तं हत्वा इन्द्रो महान्तं पाप्मानम- भ्रातृवधसाध्यस्य । दुःखस्य वधानन्तरभाविदुःखस्य गमदिति कथा || १३ || इन्द्रस्य परमैश्वर्यसंपन्नस्य । च । सारं उत्कर्ष । नचिन्तयन् उभयोस्तारतम्यम- पाप्मानं मह्यादयः ऊषरफेननिर्यासऋतुरूपेण जगृहुः । चिन्तयन्नित्यर्थः ॥ ९॥ महात्मेत्युक्तं विशदयति- वध खातपूरणादिवरप्रदत्वात् । मम तु शाखामृगस्य इति । अस्य वालिनः । स्वमाहात्म्यस्य स्वमहत्वस्य अव्य- कस्याप्यनुपकारस्य । पाप्मानं प्रतिपत्तुं किंचिद्वरं तिक्रमात् अनतिक्रमणात् । मे वधः मन्निधनं | मतो प्राप्तुमिच्छन् को नाम क्षमेत । ग्रहीतुमितिशेषः । नासीत् । ममतु बुद्धिदौरात्म्यात् बुद्धेर्दुःस्वभावात् । प्रा- | यद्यपि विश्वरूपाख्यायिकायां त्वाष्ट्रशिरस्त्रयच्छेदकृत- इदानींतुसुतीव्रं अत्यन्तंतप्स्ये | वैरस्यमरणान्तत्वादितिभावः ॥ स० अतिविप्रधर्षात् भार्यायाः ॥ ६ ॥ टी० वालिनंप्रशंसन्ना- त्मानंनिन्दति – नत्वामिति ॥ ८ ॥ ति० महन्तुंतस्य मतिर्नासीदित्यर्थः । तत्रहेतुः स्वमाहात्म्यव्यतिक्रमात् अनुचितकर्मकारी- वालीत्ययशःप्रसङ्गभयात् || १० || स० अचिन्तनीयमनीप्सनीयमनवेक्षणीयमित्यभ्यासोभ्रातृवधस्याकार्यत्वेतात्पर्यद्योतकः । जहिहिजहाहीत्यादिवत् । इदंपाप्मानमितितु इदमधिकमित्यत्रेवव्याख्येयं ॥ १३ ॥ ती० प्रतिहतु परिहर्ते । कोवाइच्छेत् कोवा • सहेतेतिसंबन्धः ॥ स० पुराणान्त रेवह्निप्रथमज्वालादिरूपेणविभागस्तु कल्पान्तरविवक्षयेतिबोध्यं । भूम्यंबुद्रुमयोषियः 66 "" [ पा० ] १ च. छ. झ ञ ट वच:कर्मच. क. पुनःकर्मतु. २ ङ. – ट. रामविरोचयेत. ३ ख. छ. झ. ट. विचिन्त- यन्. ङ. च. व. नाचिन्तयन् ४ झ ट पुरस्कृतोपि. ५ ग. ङ. -ट. स्वमाहात्म्यव्यतिक्रमात्. ६ क. ग. हुद्धिसंमोहात्. ७ ज. सान्त्वयित्वेतियेनोक्तो. ८ च. झ. धर्माश्चानेनरक्षिताः ९ छ ज झ मिदंवयस्य क. ट. मिमंवयस्य. ग. महंवयस्य १० च. ट. सहेत, ११ च प्रतिहर्तु. १२ क. ग. ङ. ट. मिच्छेतू.