पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकि रामायणम् । [ किष्किन्धाकाण्डम् ४ २१॥ स्वगात्रप्रभवे वीर शेषे रुधिरमण्डले || कृमिरागपरिस्तोमे त्वमात्मशयने यथा ॥ १३ ॥ रेणुशोणितसंवीतं गात्रं तव समन्ततः ॥ परिरब्धं न शक्नोमि भुजाभ्यां प्लवगर्षभ ॥ १४ ॥ कृतकृत्योद्य सुग्रीवो वैरेऽस्मिन्नतिदारुणे || यस्य रामविमुक्तेन हृतमेकेषुणा भयम् ॥ १५ ॥ शरेण हृदि लग्नेन गात्रसंस्पर्शने तव || वार्यामि त्वां निरीक्षन्ती त्वयि पञ्चत्वमागते । १६ ।। उद्धबई शर नीलस्तस्य गात्रगतं तदा || गिरिगह्वरसंलीनं दीसँमाशीविषं यथा ॥ १७ ॥ तस्य निष्कृष्यमाणस्य बाणस्य च बभौ द्युतिः ॥ अस्तमस्तकसंरुद्धो रश्मिर्दिनकरादिव ॥ १८ ॥ पेतुः क्षतजधारास्तु व्रणेभ्यस्तस्य सर्वशः || ताम्रगैरिकसंपृक्ता धारा इव धराधरात् ॥ १९ ॥ अवकीर्ण विमार्जन्ती भर्तारं रणरेणुना || आस्रैर्नयनजैः शूरं सिषेचास्त्र समाहतम् ॥ २० ॥ रुधिरोक्षितसर्वाङ्गं दृष्ट्वा विनिहतं पतिम् ॥ उवाच तारा पिङ्गाक्षं पुत्रमङ्गदमङ्गना अवस्थां पश्चिमां पश्य पितुः पुत्र सुदारुणाम् || संप्रसक्तस्य वैरस्य गतोन्तः पापकर्मणा ॥ २२ ॥ बालसूर्योदयतनुं प्रयान्तं यमसादनम् || अभिवादय राजानं पितरं पुत्र मानदम् ॥ २३ ॥ एवमुक्तः समुत्थाय जग्राह चरणौ पितुः ॥ भुजाभ्यां पीनवृत्ताभ्यामङ्गदोऽहमिति ब्रुवन् ॥ २४ ॥ अभिवादयमानं त्वामङ्गदं त्वं यथा पुरा ॥ दीर्घायुर्भव पुत्रेति किमर्थ नाभिभाषसे ॥ २५ ॥ अहं पुत्रसहाया त्वामुपासे गैंतचेतसम् || सिंहेन निहतं सद्यो गौ: सवत्सेव गोवृषम् ॥ २६ ॥ संग्रामयज्ञेन राममहरणांभसि ॥ असिन्नवभृथे स्नातः कथं पत्या मया विना ॥ २७ ॥ या दत्ता देवराजेन तव तुष्टेन संयुगे | शांतकुम्भमयीं मालां तां ते पश्यामि नेह किम् ॥ २८ ॥ राजश्रीन जहाति त्वां गतासुमपि मानद || सूर्यस्यावर्तमानस्य शैलराजमिव प्रभा ॥ २९ ॥ न मे वचः पथ्यमिदं त्वया कृतं न चास्मि शैक्ता विनिवारणे तव || ९२ कृमेः इन्द्रगोपस्य राग इव रागो यस्मिन् स कृमि - | एतावत्पर्यन्तं शोणितनिर्गमशून्यतयास्थितानि इदानीं रागः परिस्तोमः आस्तरणं यस्मिन् स तथा ॥ १३ शरत्रणाच्छोणितनिर्गमकाले सर्वेभ्योपि शोणितानि - १५ ॥ वार्यामि वारितास्मीत्यर्थः ॥ १६ ॥ उद्व- सुस्रुवुरित्यर्थः । इदानीं रुधिरनिर्गमादेतावत्पर्यन्तं . बई उद्धृतवान् | नीलः सुग्रीवसेनापतिः ॥ १७ ॥ सर्वात्मना प्राणो नं गत इतिगम्यते ॥ १९ – २१॥ निष्कृष्यमाणस्य तस्य द्युतिः अस्तमस्तकसंरुद्ध: पापकर्मणा पापरूपकर्मणा | संप्रसक्तस्येति संबन्धः अस्ताद्रिशिखरनिरुद्धः । दिनकरादुगच्छन् रश्मि - ॥ २२–२४ ॥ त्वामभिवादयमानमित्यन्वयः ॥ २५ रिव बभौ । पूर्वश्लोकोक्तसर्पसाम्यापेक्षया चशब्दः – २६ ॥ रामप्रहरणांभस्येवावभृथ इतिव्यस्तरूपकं ॥ १८ ॥ व्रणेभ्यः इति बहुवचनं पाशाधिकरणन्या- || २७-२८ || शैलराजं मेरुं | आवर्तमानस्य अस्तं येनावयवबहुत्वात् । यद्वा शिलापादपप्रहारकृतव्रणानि गच्छत इत्यर्थः ॥ २९ ॥ पथ्यं हितं वचः | न पतिहीनेत्यादि ॥ १२ ॥ ति० कृमिरागः लाक्षारागः । 'कृमिरागंवदन्त्यार्यालाक्षिकंप्रियदर्शनं' इत्युत्पलमालाकोशादि- त्यन्ये ॥ १३ ॥ ति० मालामिहनपश्यामि किंतु सुग्रीवाय मालादानस्यादर्शनं शोकवशाहृष्टस्यापिविस्मरणंचेत्येवमुक्तिः ॥ २८ ॥ • वि० पथ्यमिदंवचइतिस्मृतिसंनिहितस्य प्रागुपदिष्टस्य परामर्शः ॥ ३० ॥ इतित्रयोविंशः सर्गः ॥ २३ ॥ ॥ [ पा० ] १ क. ग. त्वंपुराशयने. ख. छ. झ. ट. स्वकीयेशयने. घ. च. त्वमेवशयने. ङ. अ. स्खएवशयने. २ क. ख. ग. निरीक्षन्ती. ३ घ. माशीविषोपमं. ४ ग. सर्वतः ५ बालसूर्योज्वलतनुं ६ घ. छ. झ. ट. गतचेतनं. ७ छ. झ. ट. पातितं. ८.घ. रामबाणमहांभसि. ख. छ. झ ञ ट रामप्रहरणांभसा. क. ग. ङ. च. ज. नानाप्रहरणांभसा. ९ क. ख. १० क. ख. ग. ङ. च. छ. झ. ट. शातकौम्भप्रियां. ११ क. तांतु. १२ ग. छ. झ. ट. शक्ताहि .छ. धारणे. ख. शक्तापिनिवारणे.