पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । त्रयोविंशः सर्गः ॥ २३ ॥ वालिवदनाघ्राणपूर्वकं विविधं विलपन्त्यांतारायां तदङ्गालिङ्गनाक्षमायां नीलेन वालिहृदयाद्रामबाणोन्मूलनं ॥ १ ॥ अङ्गदेन ताराप्रेरणया वालिचरणयोश्चरमप्रणामः ॥ २ ॥ सर्गः २३ ] ततः समुपजिघन्ती कपिराजस्य तन्मुखम् ॥ पति लोकाच्युतं तारा मृतं वचनमब्रवीत् ॥ १ ॥ शेषे त्वं विषमे दुःखमकृत्वा वचनं मम || उपलोपचिते वीर सुदुःखे वसुधातले ॥ २ ॥ मत्तः प्रियतरा नूनं वानरेन्द्र मही तव ॥ शेषे हि तां परिष्वज्य मां च न प्रतिभाषसे ॥ ३ ॥ सुग्रीवस्य वशं प्राप्तो विधिरेष भवत्यहो ॥ सुग्रीव एव विक्रान्तो वीरें साहसिकप्रिय ॥ ४ ॥ ऋक्षवानरमुख्यास्त्वां बॅलिनः पर्युपासते ॥ एषां विलपितं कृच्छ्रमङ्गदस्य च शोचतः ।। मम मां गिरं श्रुत्वा किं त्वं न प्रतिबुध्यसे ॥ ५॥ इदं तंद्वीरशयनं यत्र शेषे हतो युधि | शायिता निहता यत्र त्वयैव रिपव: पुरा ॥ ६ ॥ विशुद्धसत्त्वाभिजन प्रिययुद्ध मम प्रिय || मामनाथां विहायैकां गतस्त्वमसि मानद ॥ ७ ॥ शूराय न प्रदातव्या कन्या खलु विपश्चिता ॥ शूरभार्या हतां पश्य सद्यो मां विधवां कृताम् ॥ ८ ॥ अवभग्नश्च मे मानो भग्ना मे शाश्वती गतिः ॥ अगाधे च निमग्नाऽस्मि विपुले शोकसागरे ॥ ९ ॥ अश्मसारमयं नूनमिदं मे हृदयं दृढम् ॥ भर्तारं निहतं दृष्ट्वा यन्नाद्य शतधा गैतम् ॥ १० ॥ सुहेच्चैव हि भर्ता च कृत्या मम च प्रियः ॥ हवे च पराक्रान्तः शूरः पञ्चत्वमागतः ॥ ११ ॥ पतिहीना तु या नारी कामं भवतु पुत्रिणी ॥ नधान्यैः सुपूर्णापि विधवेत्युच्यते जनैः ॥ १२ ॥ अथ मरणानन्तरं ताराविलापस्त्रयोविंशे- - ततः | तदिदं वीरशयनमित्यन्वयः । युद्धपरायणस्य तवयुद्धे- समुपजिघ्रन्तीत्यादि ॥ लोकायुतं अस्माल्लोकाच्युतं नैव मरणं प्राप्तं खल्विति भावः ॥ ६ ॥ विशुद्धसत्त्वा- स्वर्गतमित्यर्थः ॥ १ ॥ दुःखमित्येतत्क्रियाविशेषणं । भिजनेति कूटयुद्धाभावाद्विशुद्धबल | सत्कुलप्रसूतत्वा- सुदुःखे सुतरां दुःखकरे ॥ २ – ३ ॥ त्वं सुग्रीवस्य द्विशुद्धकुल ॥ ७ ॥ अप्रदातव्यत्वे हेतुमाह - शूरभा- त्वत्तो बहुशः कान्दिशीकस्य | वशं प्राप्तः । सुग्रीव एव र्यामिति ॥ ८ ॥ गतिः पतिशुश्रूषेत्यर्थः । यद्वा विक्रान्त इत्येषः । विधिः दैवव्यापारः । अहो आश्चर्य - गम्यत इति गतिः सुखमित्यर्थः ॥ ९ ॥ अश्मसारम- करो भवति ॥ ४ ॥ कृच्छ्रं दुःखं ॥ ५ ॥ युधि हतो यत्वे हेतुः – दृढमिति ॥ १० ॥ हृदयभेदने हेतुमाह यत्र शेषे पुरा त्वया निहता रिपवो यत्र शायिताः – सुहृदिति ॥ पञ्चत्वं मरणं ॥ ११–१२ ।। स० लोकात् देहात् च्युतं | लोकश्रुतिपाठे श्रुता प्रसिद्धेत्यर्थः ॥ १ ॥ वि० उपलैः पाषाणैः । उपचिते व्याप्ते । सुदुःखे सुतरांदुःखकरे ॥ २ ॥ ति० एषविधिः रामरूपः । सुग्रीवस्यवशंप्राप्तोभवति । अहोइत्याश्चर्ये । नतुत्वद्वशंप्राप्तः । येनाद्यैवभार्य- यायोजितस्स्यादितिभावः । अतः सुग्रीव एव विक्रान्तोत्रराज्ये भवितेतिशेषः । साहसिकं साहसकर्म ॥ शि० हेसाहसिकप्रिय यस्सु ग्रीवः विक्रान्तः त्वयाबहुवारंपराभूतः तस्यसुग्रीवस्यवशंत्वंप्राप्तः । अतः एषः वशप्रापकरामरूपः | विधिः अहो आश्चर्यभवति ॥ ४ ॥ ति० मानः राजपत्नीलाभिमानः | शाश्वती स्थिरा | गतिः सुखप्राप्तिः ॥ ९ ॥ ति० प्रहारे रणे । पराक्रान्तः परेणाकान्तोऽभि- भूतः । पञ्चलमागतः । एतद्दृष्ट्वापियद्धृदयंनभिन्नंअतोदृढमितिपूर्वेणान्वयः ॥ ११ ॥ ति० ननुसपुत्रायाः कस्तेशोकःअतआह- [ पा० ] १ छ. झ. ट. लोकश्रुता. ग. ङ. च. ज. लोकच्युतं. २ ग. नियं. ३ क. ग. ट. भवत्यसौ. ४ ख. धीर. ५ क. घ. छ. झ ञ ट बलिनं. ६ ङ. ट. तेषां. ७ क. प्रलापितं. ८ ङ. च. न. चैतागिर: छ. झ. ट. चेमागिरः ९ क. ग. किंचनप्रति. घ. किंचिन्नप्रति १० क. ग. घ. तच्छूरशयनं. ११ क. ग. ङ. – ट. कृतं. १२ क. ग. ज. झ. ट. सुहन्ञ्चैवच. १३ क. ग. भर्ताहि १४ क. च. ट. प्रकृत्याचमम. १५ च. ज. प्रहारेचपरिक्रान्तः छ. झ. ज. ट. प्रहारेचपरा. १६ च. ट. धनधान्यसमृद्धापि.