पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वारमीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ इत्युक्त्वाऽथ विवृत्ताक्षः शरसंपीडितो भृशम् ॥ विवृतैर्द शनैर्भी मैर्च भूवोत्क्रान्तजीवितः ॥ २३ ॥ ततो विचुक्रुशुस्तत्र वानरा हरियूथपाः || परिदेवयमानास्ते सर्वे प्लेवगपुङ्गवाः ॥ २४ ॥ किष्किन्धा ह्यद्य शेन्यासीत्स्वर्गते वानराधिपे || उद्यानानि च शून्यानि पर्वताः काननानि च ॥ हते लवगशार्दूले निष्प्रभा वानराः कृताः ॥ २५ ॥ यस्य वेगेन महता काननानि वनानि च ॥ पुष्पौघेणानुबध्यन्ते करिष्यति तदद्य कः ॥ २६ ॥ येन दत्तं महयुद्धं गन्धर्वस्य महात्मनः ॥ गोलभस्य महाबाहोर्दश वर्षाणि पञ्च च ॥ २७॥ नैव रात्रौ न दिवसे तयुद्धमुपशाम्यति ॥ तैतस्तु षोडशे वर्षे गोलभो विनिपातितः ॥ २८ ॥ हँत्वा तं दुर्विनीतं तु वाली दंष्ट्राकरालवान् || सर्वाभयकरोसाकं कथमेष निपातितः ॥ २९ ॥ हते तु वीरे प्लवगाधिषे तदा प्लवङ्गमास्तत्र न शर्म लेभिरे ॥ वनेचराः सिंहयुते महावने यथा हि गावो निहते गवांपतौ ॥ ३० ॥ ततस्तु तारा व्यसनार्णवाप्लुता मृतस्य भर्तुर्वदनं समीक्ष्य सा ॥ जगाम भूमिं परिरभ्य वालिनं महाद्रुमं छिन्नमिवाश्रिता लता ॥ ३१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे द्वाविंशः सर्गः ॥ २२ ॥ अन्तरहरभवः । मध्यमभावमवलम्बस्वेत्यर्थः ॥ २२ ॥ | वालिमरणानन्तरकाले । यद्वा । वनानि क्षुद्रारण्या- विवृत्ताक्षः भ्रमितनेत्रः । विवृतैः प्रकाशितैः । अत- नि । यस्मिन् वालिनि गच्छति सति तदूरुवेगेनावि- एव भीमैः । दशनैः दन्तैरुपलक्षितः । उत्क्रान्तजी- शेषेण सर्वाणि वनानि पुष्पैः सहानुगच्छन्तीत्यर्थः वितः उद्गतप्राणः ॥ २३ ॥ परिदेवयमानाः रुदन्त ॥ २६ ॥ गोलभस्य गोलभाख्यस्य । उपशाम्यति इत्यर्थः । प्लवगपुङ्गवाः बलेन श्रेष्ठाः । पुनश्च हरियू- | उपाशाम्यत् । भूते लट् | दंष्ट्राकरालवान करालदंष्ट्रा- थपाः यूथस्य निर्वोढारः । वानराः वानरजातयः वान् । परनिपातः ।। २७ – २९ । शर्म सुखं । सिंहयुत ॥ २४ ॥ परिदेवनमेवाह – किष्किन्धेत्यादिना ॥ इति । सिंहस्थानीयो रामः ॥ ३० ॥ व्यसनार्णवे शून्या शून्यप्राया ॥ २५ ॥ वेगेन पराक्रमेण । आलुता मनेति यावत् ॥ ३१ ॥ इति श्रीगोविन्दरा-. काननानि अरण्यानि | वनानि जलानि । सरांसी- जविरचिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने त्यर्थः । पुष्पौघेण अनुबध्यन्ते संबध्यन्ते । सदा पुष्पि- | किष्किन्धाकाण्डव्याख्याने द्वाविंशः सर्गः ॥ २२ ॥ तानि भवन्तीत्यर्थः । तत् पुष्पानुबन्धनम् । अद्यतु नाशायत्वतिदूरंतुनिष्फलं । सेवामध्यमभावेनराजवहिगुरुस्त्रियाम्' इतिन्यायेनमध्यममार्गमवलंब स्खेत्याशयः ॥ २२ ॥ स० षोड- शमे असंख्यादेरिति नजानिर्दिष्टत्वेनानित्यत्वाद्वा संख्यापूरकमप्रत्ययाङ्गीकाराद्वाऽयंशब्दः साधुः ॥ २८ ॥ रामानु० दंष्ट्राकराल- वान् | भावप्रधानो निर्देश: | दंष्ट्राभ्यांकरालवान् ॥ ति० दंष्ट्राकरालवान् आर्षःस्वार्थेमतुप् | दंष्ट्राकरालइत्यर्थः । अस्माकंसर्वा• भयंकरः सर्वेभ्योऽभयंकरः ॥ २९ ॥ स० आवने सम्यग्रक्षके | नन्द्यादित्वाल्लयुः । वालिनि हतेसति अचराः जडप्रायास्सन्तः | शर्म नलेभिरे | द्वितीयवनेचरशब्दोवानरपरः । गवांपतौ गोपाले । अलुक्समासत्वाद्वापति रित्याख्यातइत्यादिरीत्यावासाधुरयं शब्दः ॥ ३० ॥ इतिद्वाविंशः सर्गः ॥ २२ ॥ [ पा० ] १. ड.ट. प्लवगसत्तमाः २ क. ख. ग. शून्येयंवर्गते. ङ. – ट. शन्याचस्वर्गते. ३ ङ. ट. वानरेश्वरे • ४ ख. वानरानिष्प्रभाः कृताः ५ छ. - ट. ततःषोडशमे. ६ क. ट. तंहत्वा. ७ छ. झ. ट. वनेचरास्तत्र. ८ क. ख. भर्तु- र्व्यसनंसमाश्रिता. ग. च. ज. भर्तुर्वदनंसमाश्रिता. घ. भर्तुर्व्यसनंसमीक्ष्यसा.