पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

i सर्गः २२ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । अनुरूपाणि कर्माणि विक्रम्य बलवात्रणे ॥ करिष्यत्येष तारेयस्तरस्वी तरुणोङ्गदः ॥ ११ ॥ सुषेणदुहिता चेयमर्थसूक्ष्म विनिंचये | औत्पातिके च विविधे सर्वतः परिनिष्ठिता ॥ १२ ॥ यदेषा साध्विति ब्रूयात्कार्य तन्मुक्तसंशयम् ॥ नहि तारामतं किंचिदन्यथा परिवर्तते ॥ १३ ॥ राघवस्य च ते कार्ये कर्तव्यमविशङ्कया ॥ स्वादधर्मो ह्यकरणे त्वां च हिंस्याद्विमानितः ॥ १४ ॥ इमां च मालामाधत्स्व दिव्यां सुग्रीव काञ्चनीम् ॥ उदारा श्रीः स्थिता ह्यस्यां संप्रजह्यान्मृते मयि ॥१५॥ इत्येवमुक्तः सुग्रीवो वालिना भ्रातृसौहदात् ॥ हर्षं त्यक्त्वा पुनर्दीनो ग्रहग्रस्त इवोडराट् ॥ १६ ॥ तेंद्रालिवचनाच्छान्तः कुर्वन्युक्तमतन्द्रितः ॥ जग्राह सोभ्यनुज्ञातो मालां तां चैव काञ्चनीम् ॥ १७ ॥ तां मालां काञ्चनीं दत्त्वा वाली दृष्ट्वाऽऽत्मजं स्थितम् ।। संसिद्धः प्रेत्यभावाय स्नेहादङ्गदमब्रवीत् ॥ १८ ॥ देशकालौ भजखाद्य क्षममाणः प्रियाप्रिये || सुखदुःखसहः काले सुग्रीववशगो भव ॥ १९ ॥ यथा हि त्वं महाबाहो लालितः सततं मया ॥ न तथा वर्तमानं त्वां सुग्रीवो बहु मंस्यते ॥२०॥ मास्यामित्रैर्गतं गच्छेर्मा शत्रुभिररिंदम || भर्तुरर्थपरो दान्तः सुग्रीववशगो भव ॥ २१ ॥ न चातिप्रणयः कार्यः कर्तव्योऽप्रणयश्च ते ॥ उभयं हि महान्दोषस्तस्मादन्तरहरभव ॥ २२ ॥ ८९ ... शत्रुभ्यः परित्राता । भयेष्वभयदः शत्रुपुत्रत्वेन | संसिद्ध: कृतनिश्चयः ॥ १८ ॥ अद्य मत्प्रयाणानन्तरं । स्थानान्निष्कासनादिभयहेतुषु विषये अभयदः ॥ ९ देशकालौ भजस्व । गत्यर्था ज्ञानार्थाः । देशकालो – ११ ॥ अर्थसूक्ष्मविनिश्चये सूक्ष्मार्थविनिश्चये | जानीहि । अस्मिन्देशे अस्मिन्काले च एवं वर्तितव्यं औत्पातिके उत्पातविषयज्ञाने च । परिनिष्ठिता संजा- एवं न वर्तितव्यमिति विवेचयेत्यर्थः । प्रियाप्रियेक्षम- तनिष्ठा | समर्थेतियावत् ॥ १२ ॥ न परिवर्तते न माणः । प्रभोः प्रियवचनवदप्रियवचनमपि सोढव्य- भवतीत्यर्थः ॥ १३ ॥ विमानितः राघव इति शेष: मित्यर्थः । काले सुखदुःखसहः दुःखकाले सुखं सुख- ॥ १४ ॥ संप्रजह्यान्मृतेमयि मृते सति श्रीरिमां काले दुःखं च सहमान इत्यर्थः । सुग्रीववशो भव काञ्चनीं मालां संप्रजह्यात् । ततः पूर्वमेव मयि सुग्रीवपरतत्रोभव ॥ १९ – २० ॥ अस्य सुग्रीवस्या - जीवति गृहाणेति भावः ।। १५ ॥ दीनः अभूदिति मित्रैर्गतं प्राप्तं पुरुषं मा गच्छेः । अस्य शत्रुमित्रं न शेषः । ग्रहग्रस्तः राहुप्रस्तः ॥ १६ ॥ तत् तदनन्तरं । भजेरित्यर्थः । शत्रुभिः सह च मा गच्छेः ॥ २१ ॥ शान्तः त्यक्तवैरः ॥ १७॥ प्रेत्यभावाय मरणाय । | अतिप्रणय: अतिस्नेहः अप्रणय: स्नेहभावश्च । तिव्यङ्ग्यं ॥ ९ ॥ स० अनुरूपाणि मदनुरूपाणि त्वदनुरूपाणिवा ॥ ११ ॥ ती० ननुसमुद्रसंजातायास्तारायास्सुषेण दुहितृत्वंकथ- मिति चेत् तत्रक्षीराब्धिमथन समयोत्पन्नांतारांदृष्ट्वासुषेणोवामंकरमग्रहीत् । वालीतुतारायादक्षिणंकरमगृह्णात् । तदाऽन्योन्यविवा- देसति देवैस्सुषेण दुहितृत्वंतारायावा लिनोजायावंच निश्चितं । तदुक्तंस्कान्दे – “ देवैस्सुषेणकलहेपुत्रीतिप्रतिपादिता । सुषेणोदुहि - तुस्तस्याःस्वयंवरमकल्पयत् । इत्थमूढाकपीन्द्रेणतारा सर्वाङ्गसुन्दरी | सुग्रीवमेकदारात्रौरूपसादृश्यमोहिता | प्रार्थयामासकामार्तार- न्तु॑रतिमतीप्रभुम् । नममायोनिजातायागमनं लोकगर्हितम् ।" इति ॥ ति० तारारक्षणंततउपकारमादर्श्यसूचयति-सुषेणेति । तद्दुहिता तारा । अर्थानांमध्येसूक्ष्मः परमदुर्ज्ञेयोयोर्थस्तस्यनिश्चये औत्पातिकेविविधेनानाप्रकारोत्पातसूचितापत्कालिकानुष्ठेय निश्च- येसर्वतऐहिकामुष्मिकनिश्चयेच | परिनिष्ठिता अतिसमर्था ॥ १२॥ ति० नहीति | मदनुभवसिद्धमेतदितिभावः । अनेनत्रैवर्णिकेत- रस्वेनतरुणत्वेनावश्यं कर्तव्यपुरुषान्तरस्वीकारायास्तारायादेवरत्वात्सुग्रीवस्य स्वीकारोप्यनुमतइतिगम्यते ॥ १३ ॥ रामानु० संप्रजह्याः संप्रजहि । शत्रूनितिशेषः ॥ १५ ॥ ति० विपक्षेबाधकमाह - यथाहीति । बालतया केवलंलालितः यथासेवो- चितकाले पिसेवारहितोऽवर्तिष्ट तथा सेवाराहित्येनवर्तमानखां सुग्रीवोनबहुमन्येत । अतस्सेवांकुर्वित्युपदेशः ॥ २० ॥ स० अस्य माशत्रुभिः मित्रैस्सह गच्छेः ॥ २१ ॥ ति० नातिप्रणयः पुत्रत्वात् अप्रणयश्चनकार्यः । अस्मद्वधादिनान्तरदृक् 'अत्यासत्तिर्वि- [ पा० ] १ ग. कार्याणि. २ ख. ङ. – ट. तारेयस्तेजस्वी. ३ क. ग. विनिर्णये. ४ ङ. – उ. हिंस्यादमानितः ५ क. ग. वालिनोवचनाच्छान्तः ६ घ. चाभ्यनुज्ञातः ७ ङ. – ट दृष्ट्वाचैवात्मजंस्थितं. ८ क. ग. – ट. बहुमन्यते ९ ख. छ.. झ ञ ट नास्यामित्रैः १० ग. घ. छ. झ ञ ट महादोषंतस्मात् क. ङ. च. ज. महादोषः. वा. रा. १३१