श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ तं प्राप्तविजयं वाली सुग्रीवं प्रवगेश्वरः || आभाष्य व्यक्तया वाचा सस्नेहमिदमब्रवीत् ॥ २ ॥ सुग्रीव दोषेण न मां गन्तुमर्हसि किल्विषात् ॥ कृष्यमाणं भविष्येण बुद्धिमोहेन मां बलात् ॥ ३ ॥ युगपद्विहितं तात न मन्ये सुखमावयोः || सौहार्द भ्रातृयुक्तं हि तदिदं तात नान्यथा ॥ ४ ॥ प्रतिपद्य त्वमद्यैव राज्यमेषां वनौकसाम् || मामप्यद्यैव गच्छन्तं विद्धि वैवस्वतक्षयम् ॥ ५ ॥ जीवितं च हि राज्यं च श्रियं च विपुलामिमाम् ॥ प्रजहाम्येष वै तूर्ण महचागर्हितं यशः ॥ ६ ॥ अस्यां त्वहमवस्थायां वीर वक्ष्यामि यद्वचः ॥ यद्यप्यसुकरं राजन्कर्तुमेव तँदर्हसि ॥ ७ ॥ सुखाई सुखसंवृद्धं बालमेनमवालिशम् ॥ बाष्पपूर्णमुखं पश्य भूमौ पतितमङ्गदम् || मम प्राणै: प्रियतरं पुत्रं पुत्रमिवरसम् ॥ ८ ॥ मया हीनमहीनार्थं सर्वतः परिपालय || त्वमेवास्य हि दाता च परित्राता चं सर्वतः ॥ भयेष्वभयदश्चैव यथाऽहं प्लवगेश्वर ॥ ९ ॥ एष तारात्मजः श्रीमांस्त्वया तुल्यपराक्रमः || रँक्षसां तु वधे तेषामग्रतस्ते भविष्यति ॥ १० ॥ ८८ दैवात्किंचित्समाश्वस्तो वाली कर्तव्यभागं नियच्छति | अन्यप्रकारं न भवतिहि ॥ ४ ॥ प्रतिपद्य पालयेति- द्वाविंशे – वीक्षमाण इत्यादि || मन्दासुः अल्पप्राण: शेष: । यद्वा प्रतिपद्यप्राप्नुहि । श्यन्नन्तोयं । ॥ १ ॥ आभाष्य संबोध्य || २ || किल्बिषात् वैवस्वतक्षयं यमगृहं ॥ ५ ॥ अगर्हितं यशः राज्यविवासनदारहरणरूपकिल्बिषाद्धेतोः । मां दोषेण केनाप्यवध्यो वालीति प्रसिद्धं यशः गन्तुं दोषसहितं ज्ञातुं नार्हसि । किंतु भविष्येण भाविफलेन हेतुनाजातेन बुद्धिमोहेन बलात्कृष्यमाणं मां गन्तुमर्हसि ॥ ३ ॥ आवयोः भ्रात्रोः । भ्रातृयुक्तं भ्रातृत्वप्रयुक्तं । सौहार्द सुखं राज्यसुखं च । एतदुभयं दैवेन युगपन्नविहितं । मन्ये ध्रुवं । अव्ययमेतत् । तदिदं दैवकृतं युगपदविधानं । अन्यथा अस्यामवस्थायां चरमावस्थायां । यद्वचो वक्ष्यामि एतद्यद्यप्यसुकरं तथाप्यवश्यं कतुमर्हसि । मदुक्तरीत्या राजाभवेत्यर्थः ॥ ७ ॥ वयसा बालमप्यबालिशं बालबुद्धिरहितं । प्राणैः प्राणेभ्यः । मम पुत्रं त्वं औरसं पुत्रमिव पश्येति संबन्धः ॥ ८ ॥ अस्य अङ्ग- न हि | दस्य । दाता वस्त्राभरणादीनामिति शेषः । सर्वतः ति० हेसुग्रीव मांकिल्बिषात् प्राग्भवीयदुष्कृतवशात् । भविष्येण भविष्यताऽवश्यंभाविनाबुद्धिमोहेन त्वयिशत्रुबुद्धिरूपेण बलात्कृष्यमाणमांज्ञात्वा त्वंदोषेण स्वापकारदोषवत्त्वेन | मांगन्तुं अवगन्तुं । नार्हसि ॥ ३ ॥ स० मन्येइत्येतदव्ययमितिकश्चित् तन्मूलंचिन्त्यं । ति० कार्यानुमितंकर्मप्राबल्यं दर्शयति–युगपदिति । भ्रातृयुक्तं भ्रात्रोर्युक्तंउचितं । सौहार्द सुखंचराज्यसुखंच आवयोः कर्मणायुगपन्न विहितमितिमन्ये । यतस्तदिदमुचितम पिसौहार्दसुखंचान्यथाजातंविघटितमित्यर्थः ॥ ४ ॥ ति० अथराम- शरक्षीणपापत्वात्प्राप्तदिव्यप्रकृतिः स्वयमेव सुग्रीवाय खानन्तरंप्राप्तं राज्यं ददाति - प्रतिपद्येति । प्रतिपद्यस्खेत्यर्थः । ननुराजनिमृतेत त्पुत्र एवराज्याधिकारी नतुतत्कनीयान्भ्रातेतिचेन्न । पुत्रस्यबालत्वेन राज्यरक्षणासामर्थ्याद्वलवदाश्रितत्वाच्चपुत्रनाशोमाभूदितित- थोक्तः। भगवतारामेणापिराज्यरक्षणासामर्थ्येनाङ्गदस्यसुग्रीवोऽभिषिक्तो यौवराज्येचाङ्गदः । सुग्रीवानन्तरंत्वङ्गदस्यैवराज्याधिकारो नतुसुग्रीवपुत्राणांअज्येष्ठपुत्रत्वादित्याहुः ॥ स० अद्यैवगच्छन्तमित्यनेन नमज्जीवनभयंत वेतिद्योतयति ॥ शि० ननुराजपुत्रसत्त्वेभ्रा- तूराज्यानौचित्यात्कथमेवमुक्तमितिचेन्न | बिलप्रविष्टवालिमरणनिश्चयेतदानवालिपुत्रस्याभावात्सुग्रीवस्यप्राप्त राज्यत्वेननवीनराज्य- त्वाभावेनांदोषात् ॥५॥ति० अगर्हितंयशः वालीकेनाप्यवध्यइत्येवंरूपं । प्रजहामि एकेनैवशरेणरामहतत्वादितिप्राञ्चः | अन्येतुचस्त्वर्थे यशइत्युत्तरंबोध्यः । अगर्हितंयशस्तुप्राप्नोमीतिशेषः । वालीभगवतारामेणच्छन्नेनहतइत्येवंरूपंचयशइत्याहुः ॥ ६ ॥ ति० अस्या- मवस्थायां चरमदशायां । यद्यप्यसुकरं मयाऽत्यन्तमपकृतत्वात् । तथापिकर्तुमर्हस्येवेतियोजना | सात्विकत्वात्सात्विकसमाश्रयणा- वल्याशयः । स्वयंराज्यस्यदत्तत्वाद्राजन्नितिसंबोधनं ॥ ७ ॥ वि० सर्वतः सर्वत्रदेशेकालेच | पालय खानन्तरमस्यैवराज्यंदेही- [ पा० ] १ घ. –ञ. प्लवगेश्वरं. २ क. ग. ङ. च. ञ. आभाष्याव्यक्तया. ३ च. – ट. जातमन्यथा. ४ छ. झ ञ ट विपुलांतथा ५ ग. सौम्य ङ. च. ज. तूर्णमहंवाऽगर्हितं. क. छ. झ ञ ट . तूर्णमहंचागर्हितं. ६ ङ. ट. त्वमर्हसि . . ७ ख. बालमत्यन्तबालिशं. ८ छ. झ ट त्वमप्यस्यपितादाता. ख. त्वमप्यमितदाताच. ङ च ज ञ त्वमस्यहितदाताच. क. ग. घ. त्वमध्यस्यहिदाताच. ९ घ. हिसर्वशः क. तुसर्वशः ख. ग. ङ, ट. चसर्वशः १० ङ. –ट. रक्षसांच,
पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/९२
दिखावट