पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4 सर्ग: २२ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ताविमौ शोकसंतापौ शनैः प्रेरय भामिनि ॥ त्वया परिगृहीतोऽयमङ्गदः शास्तु मेदिनीम् ॥ ९ ॥ संततिश्च यथा दृष्टा कृत्यं यच्चापि सांप्रतम् || राज्ञस्तत्क्रियतां तावदेष कालस्य निचयः ।। १० ।। संस्कार्यो हॅरिराजच अङ्गश्चाभिषिच्यताम् || सिंहासनगतं पुत्रं पश्यन्ती शान्तिमेष्यसि ॥ ११ ॥ सा तस्य वचनं श्रुत्वा भर्तृव्यसनपीडिता ॥ अब्रवीदुत्तरं तारा हनुमन्तमवस्थितम् ॥ १२ ॥ अङ्गदप्रतिरूपाणां पुत्राणामेकतः शतम् || तस्याप्यस्य वीरस्य गात्रसंश्लेषणं वरम् ॥ १३ ॥ न चाहं हॅरिराजस्य प्रभवार्म्यङ्गदस्य वा || पितृव्यस्तस्य सुग्रीवः सर्वकार्येष्वनन्तरः ॥ १४ ॥ न ह्येषा बुद्धिरास्थेया हनुमन्नदं प्रति ॥ पिता हि बन्धुः पुत्रस्य न माता हरिसत्तम ।। १५ ।। न हि मम हरिराजसंश्रयात्क्षमतरमस्ति परत्र चेहँ वा ॥ अभिमुखहतवीरसेवितं शयनमिदं मम सेवितुं क्षमम् ॥ १६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकविंशः सर्गः ॥ २१ ॥ द्वाविंशः सर्गः ॥ २२ ॥ वालिनाकनिष्ठमपिसुग्रीवंप्रतिस्वापकारक्षमापणपूर्वकं ताराबुद्धिप्रशंसनेन तद्वचनसंमाननचोदनेन सहाङ्गदपालनराम- कार्यकरणयोश्चोदना ॥ १ ॥ तथा सुग्रीवाय स्वकण्ठस्थ काञ्चनमालादानपूर्वकमङ्गदंप्रति हितमुपदिशतिस तिवालिनि सहसा तत्प्राणैस्तच्छरीराक्रमणं ॥ २ ॥ वानरगणेषु वालिनोऽद्भुतापदानप्रशंसनपूर्वकमुच्चैः परिदेवयमानेषु तारया सहसा वालिपरिरंभणपूर्वकं भूमौनिपतनं ॥ ३ ॥ वीक्षमाणस्तु मन्दासुः सर्वतो मन्दमुच्छ्रसन् || आदीवेव तु सुग्रीवं ददर्श त्वात्मजाग्रतः ॥ १॥ ताविभौ शोकसंतापौ शोकतत्कृततापौ । शनैः क्रमेण | | संस्कार्य इत्यस्योत्तरमाह - न चेति ॥ हरिराजस्य न प्रेरय निवर्तय | भर्तृमरणशोकस्य सद्यो दुस्त्यजत्वा- प्रभवामि तस्य संस्कारकरणे न समर्थास्मि । अङ्गदस्य दिति भावः ॥ ९ ॥ संततिश्च यथा दृष्टा यत्प्रयोज- नक: संतानोलब्धः । सांप्रतं इदानीं । यच्च कृत्यं कर्तुं योग्यं तत्सर्वं राज्ञः क्रियतां । एष निश्चयोस्य कालस्य योग्य इति शेषः । नतु शोक इति भावः । पुत्रोत्पादनफलमौर्ध्वदैहिकं क्रियतामित्यर्थः ॥ १० ॥ उक्तमर्थं वाचा दर्शयति — संस्कार्य इति । शान्ति दुःख- शमं ॥११ – १२॥ अङ्गदप्रतिरूपाणां अङ्गदतुल्यानां । पुत्राणां सत्पुत्राणां शतं एकतः एकत्र एकतुलायामस्तु । हृतस्याप्यस्य गात्रसंश्लेषणं गाढालिङ्गनं । एकतो- एवममोघरामशराभिघातेन मोहसमाविष्टं वालिनं स्तु । तयोर्मध्ये भर्तृसंश्लेषणमेव वरमित्यर्थः ॥ १३ ॥ मृतं निश्चित्य संस्कारादिकरणाय त्वरमाणे हनुमति हयृक्षपतिराज्यंचेतिपाठः । अन्यथावक्ष्यमाणाङ्गदाभिषेकवचन विरोधः स्यात् ॥ ८ ॥ रामानु० त्वयेति । अङ्गदाभिषेचनं तारा- दुःखशान्तयेदर्शितं ॥ ति० ताविमौ सुप्रीवाङ्गदौ शनैः प्रेरय उत्तरकार्य करणायेतिशेषः ॥ ९ ॥ शि० ननुत्वत्कर्तृकाभिषेकाप्रवृ- त्तौत्वद्विषयकाङ्गदप्रीतिर्विनङ्घयतीत्यतआह— नहीति | हेहनुमन् पिता तदुपलक्षितपितृव्यादिश्चपुत्रस्यबन्धुः । मातातु न एषाबुद्धिः अङ्गदंप्रतिआस्थेया प्रापणीया | किंचमातैवबन्धुः पित्रादिस्तुनेतिबुद्धिर्नास्थेया | पितृव्येपिबन्धुत्वबोधनीयमित्यर्थः । एतेनेहग्बुद्ध्य- नुत्पत्तौसुग्रीवविद्वेषेऽङ्गद विध्वंसोभविष्यतीतिव्यजितं ॥ १५ ॥ इत्येकविंशः सर्गः ॥ २१ ॥ वा न प्रभवामि तस्य राज्याभिषेककरणे न प्रभवा- मीत्यर्थः ॥ १४ ॥ नास्थेया नादर्तव्या । नकर्तव्येत्य- र्थ: । पिता पितृव्यः ॥ १५ ॥ परत्र परलोके । इह अस्मिँल्लोके । शञ्चभिमुखतया हतः अभिमुखहतः स चासौ वीरश्च तेन सेवितं ॥ १६॥ इति श्रीगोविन्दु- राजविरचिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने एकविंशः सर्गः ॥ २१ ॥ [ पा० ] १ ख. च. छ. ज. ञ ट शोकसंतप्सौ. २ क. ख. ग. ङ. ज. – ट. सर्वमेषकालस्य. च. सर्वमेषकार्यस्य. ३ घ. च. – झ. ट. हरिराजस्तु. ४ ख. हतस्यास्यप्रवीरस्य ५ ग. राजसिंहस्य. ६ क. च. म्यङ्गदस्यच. ७ ज ञ. चेहच. ८ क. आरादेवतु. ९ ख. ङ. च. छ. झ ञ ट ददर्शानुजमग्रतः ज. ददर्शानुजमग्रजः