पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । कुरुष्व पितरं पुत्र सुदृष्टं धर्मवत्सलम् || दुर्लभं दर्शनं वत्स तव तस्य भविष्यति ॥ १७ ॥ समाश्वासय पुत्रं त्वं संदेशं संदिशस्व च ॥ मूर्ध्नि चैनं समाघ्राय प्रवासं प्रस्थितो ह्यसि ॥ १८ ॥ रामेण हि महत्कर्म कृतं त्वामभिनिघ्नता || आनृष्यं च गतं तस्य सुग्रीवस्य प्रतिश्रवे ॥ १९ ॥ सकामो भव सुग्रीव रुमां त्वं प्रतिपत्स्यसे || भुङ्क्ष्व राज्यमनुद्विग्नः शँस्तो भ्राता रिपुस्तव ॥ २० ॥ किं मामेवं विलपती प्रेम्णा त्वं नाभिभाषसे ॥ इमाः पश्य वरा बह्वीर्भार्यास्ते वानरेश्वर ॥ २१ ॥ तस्या विलपितं श्रुत्वा वार्नर्यः सर्वतश्च ताः ॥ परिगृह्याङ्गदं ' दीनं दुःखार्ताः पॅरिचुक्रुशुः ॥ २२ ॥ किमङ्गदं साङ्गदवीरवाहो विहाय यौस्यद्य चिरप्रवासम् || न युक्तमेवं गुणसन्निकृष्टं विहाय पुत्रं प्रियँपुत्र गन्तुम् ॥ २३ ॥ किमप्रियं ते प्रियचारुद्वेष मया कृतं नाथ सुतेन वा ते ॥ सहाङ्गदां मां स विहाय वीर यत्प्रस्थितो दीर्घमितः प्रवासम् ॥ २४ ॥ यद्यप्रियं किंचिदसंप्रधार्य कृतं मया स्यात्तव दीर्घबाहो ॥ क्षमस्व मे तद्धरिवंशनाथ त्रजामि मूर्ध्ना तव वीर पादौ ॥ २५ ॥ तथा तु तारा करुणं रुदन्ती भर्तुः समीपे सह वानरीभिः ॥ व्यवस्थत प्रॉयमुपोपवेष्टुमनिन्द्यवर्णा भुवि यत्र वाली ॥ २६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे विंशः सर्गः ॥ २० ॥ ८५ वर्तयिष्यति । नश्यत्येवेतिभावः ॥ १६ ॥ कुरुष्वेति | प्रियः पुत्रो यस्य सः प्रियपुत्रइति । इयं स्त्रीजनप्रलाप - अनेन तदानीमङ्गदः समागत इति द्योत्यते परिपाटी ॥२३ - २४ ॥ असंप्रधार्य अविज्ञाय ||२५|| ॥ १७–१८ ॥ महत् अन्यैरशक्यं । कर्म कृतं । प्रायमुपोपवेष्टुं प्रायोपवेशकर्तुमित्यर्थः । “ प्रसमुपोदः आनृण्यंच गतं प्राप्तं । प्रतिनवे प्रतिज्ञाविषये ॥ १९ ॥ पादपूरणे " इति द्विर्वचनं ॥ २६ ॥ अत्र सर्गे सुश्रीवं प्रत्याह—सकाम इति || शस्त: हिंसितः श्लोकव्यत्यासो लेखककृतः । अस्मिन्सर्गे षड्विंशति- ।। २० ।। वालिनं प्रत्याह - किमिति ॥ २१ ॥ विल- श्लोकाः ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रा- पितं विलापं ।। २२ ।। साङ्गदौ वीरौ वीर्यवन्तौ बाहू मायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्या- यस्य स तथोक्तः । गुणसन्निकृष्टं गुणैः प्रत्यासन्नं । ख्याने विंशः सर्गः ॥ २० ॥ गुणैस्तव सदृशमित्यर्थ: । हे प्रियपुत्रेति संबुद्धिः । स० विगतः ईरः कंपोययोस्तौवीरौ । ततस्त्रिपदगर्भबहुव्रीहिः || शि० वीरः मानिवीरविध्वंसकत्वेनवीरत्वविशिष्टोबाहुर्यस्यतत्संबो- धनं ॥ २३ ॥ ती० प्रायमुपोपवेष्टुं प्रायोपवेशंकर्ते अनशनदीक्षांकर्तुमित्यर्थः ॥ २६ ॥ इतिविंशस्सर्गः ॥ २० ॥ [ पा० ] १ दुर्लभदर्शनंवत्सेत्यर्धादनन्तरं रामानुजीयपाठे सासमासाद्यभर्तारंपर्यष्वजतभामिनी । इषुणाभिहतंदृष्ट्वा वालिनं कुञ्जरोपमम् । इतिश्लोकोदृश्यते । रामानुजार्येणव्याख्यातश्च । साअङ्गदंप्रतितथोक्तवतीति २ ङ. छ. – ट. संदिशस्वमे. ३ क. समाजिघ्रन्प्रवासं. ४ क. – च. ज. - ट. आनृण्यंतु. ५ च. मृतोभ्राता. ६ छ. झ. ट. प्रलपतीं. ७ ङ. -ट. प्रियांत्वं. ८ छ. झ. ट. बहयोभार्याः ९झ. वानर्याः १० छ. झ. ट. दीनाः ११ ङ. च. ज. ञ. संप्रचुक्रुशुः. छ. झ. ट. प्रतिचुक्रुशुः. १२ ङ. - ञ. यातोसिचिरंप्रवासं. १३ छ. झ ञ. प्रियचारुवेषं. १४ अयं श्लोकः झ. ट. पाठयोर्नदृश्यते. ज. तवाप्रियंकान्त मयाक्कचित्किप्राज्यंकृतनाथ १५ ख ग घ. च. - ट. प्रायमनिन्द्यवर्णाउपोपवेष्टुंभुवि. V