सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

? सर्ग: २० ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । ८३ शक्रतुल्यपराक्रान्तं वृष्ट्वोपरतं घनम् ॥ नर्दन्तं नर्दतां भीमं शूरं शूरेण पातितम् ॥ २३ ॥ शार्दूलेनामिषस्यार्थे मृगराजं यथा हतम् ॥ २४ ॥ अर्चितं सर्वलोकस्य सपताकं सवेदिकम् || नागहेतोः सुपर्णेन चैत्यमुन्मथितं यथा ॥ २५ ॥ अवष्टभ्य च तिष्ठन्तं ददर्श धनुरूर्जितं ॥ राम रामानुजं चैव भर्तुश्चैवानुजं शुभा ॥ २६ ॥ तानतीत्य समासाद्य भर्तारं निहतं रणे ॥ समीक्ष्य व्यथिता भूमौ संभ्रान्ता निपपात ह ॥ २७ ॥ वैव पुनरुत्थाय आर्यपुत्रेति क्रोशती || रुरोद सा पतिं दृष्ट्वा संदितं मृत्युदामभिः ॥ २८ ॥ तामवेक्ष्य तु सुग्रीवः क्रोशन्तीं कुररीमिव | विषादमगमत्कष्टं दृष्ट्वा चाङ्गदमागतम् ॥ २९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकोनविंशः सर्गः ॥ १९ ॥ विंशः सर्गः ॥ २० ॥ तारया वाल्यालिङ्गनपूर्वकं सकरुणं बहुधाविलापेन प्रायोपवेशाध्यवसायः ॥ १ ॥ रामचा पविसृष्टेन शरेणान्त करेण तम् ॥ दृष्ट्वा विनिहतं भूमौ तारा तांराधिपानना || सी समासाद्य भर्तारं पर्यध्वजत भामिनी ॥ १ ॥ दुषुणाऽभिहतं दृष्ट्वा वालिनं कुञ्जरोपमम् || वीनरेन्द्र महेन्द्राभं शोकसंतप्तमानसा ॥ तारा तरुमिवोन्मूलं पर्यदेवयदातुरा ॥ २ ॥ रणे दारुणविक्रान्त प्रवीर लवतां वर ॥ " किं दीनामपुरोभागामद्य त्वं नाभिभाषसे ॥ ३ ॥ । ॥ २१–२६ ।। तमिममर्थं व्यञ्जयन्नाह — तानिति ॥ | श्रीमद्रामायणभूषणे मुक्ताहाराख्याने किष्किन्धाका- अतीत्येति नातिक्रम उच्यते । सर्वेषां समीपस्थत्वात् । ण्डव्याख्याने एकोनविंशतिः सर्गः ॥ १९ ॥ किंतु तत्र दोषबुद्धिमकृत्वेत्यर्थः । भर्तारं समासाद्येति उपसर्गेण स्वाज्ञानेनायं हत इति बुद्धवतीति ज्ञाप्यते ॥ २७ ॥ संदितं बद्धं । मृत्युदामभिः मृत्युपाशैः । अथ ताराप्रलापो विंशे - रामेत्यादिः सार्धश्लोकः । आसन्नप्राणमित्यर्थः ||२८|| कष्टं विषाद् | अत्यन्तवि- सा तारा तं दृष्ट्वा पर्यध्वजत ॥ १ ॥ इषुणेत्यादिः सार्धः षामित्यर्थः ॥ २९ ॥ इति श्रीगोविन्दराजविरचिते ॥ २ ॥ अपुरोभागां दोषदर्शनरहितां अनपराधामि- क्तः । तं । युद्धेमहावात॒सदृशवेगमित्यर्थः ॥ रामानु० बज्राणामिति । किंकरवज्रादिभेदविवक्षयाबहुवचननिर्देशः ॥ ति० रणे- ष्वितिशेषः । रणभेदमपेक्ष्यवज्राणामितिबहुवचनप्रयोगः ॥ २२ ॥ ति० मृगराजं प्रभूतमांसादिमत्त्वेनमृगश्रेष्ठं | शार्दूलोव्याघ्रः ॥ २३ ॥ ति० चैत्यं चतुष्पथवर्तिवल्मीकं । नांगहेतोः अन्तर्विद्यमाननागभक्षणार्थसुपर्णेनगरुडेनयथोन्मथितंतथासुग्रीवस्यराज्य- भोगहेतोः रामेोन्मथितमित्यर्थः ॥ २५ ॥ रामानु० संदितं बद्धं । " बद्धेसंदानितंमूतमुद्दितंसन्दितंसितं” इत्यमरः ॥ २८ ॥ इत्येकोनविंशः सर्गः ॥ १९ ॥ रामानु० रामचापेति । एतदनन्तरं सा समासाद्येतिश्लोकःकतिपयकोशेषुप्रमादाल्लिखितोवर्तते । अयमुपरि " दुर्लभंद- शनं तस्यतववत्सभविष्यति " इत्यनन्तरंद्रष्टव्यः । तारा उच्चैस्स्वरा । अतोनपुनरुक्तिः । स० ताराधिपानना प्राक् । यद्वा मुखस्य कलङ्कितत्वेनतथोक्तिः ॥ १ ॥ शि० दारुणंविक्रान्तंविक्रमोयस्यतत्संबोधनं । पुरोभागां अग्रेस्थितां || ति० इदानींपुरोभागां एत- [ पा० ] १ छ. झ ञ ट मृगराजमिवाहतं. २ च. ज. – ट. भर्तुश्चैवतथानुजं. ३ ग. सासमीक्ष्याथतंभूमौ. ४ क. ख. ह्यार्यपुत्रेति. ५ ङ.—–ट. वादिनी. घ. शोचती. ६ङ. च. ज. ज. पतितंदृष्ट्वा ७ छ. झ. ट. संवीतं. क. ग. ङ. च. ज. ज. स्यन्दितं. ८ ङ. करेणच. ९ क. ख. ग. तारतरखना १० सासमासाद्यभर्तारं. इषुणाभिहतं. इत्यर्धद्वयंरामानुजीयपाठेअत्र- नदृश्यते. उत्तरत्रदुर्लभदर्शनंवत्सेत्यर्धात्परंदृश्यते. ख. घ. समासाद्यच. ११ छ. झ ट वानरंपर्वतेन्द्राभं १२ ग. महाभागं. १३ क. ग. शोकसंविनमानसा ख. शोकसंतापकर्शिता १४ घ. छ. झट. पर्यदेवयतातुरा. १५ छ. झ ञ ट किमिदानीं रोभागां. क. ग. किंदीनामनुरक्तांमामद्य.