पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १९ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । तं भार्या वाणमोक्षेण रामदत्तेन संयुगे || हतं प्लवगशार्दूलं तारा शुश्राव वालिनम् ॥ ३ ॥ सा सपुत्राऽप्रियं श्रुत्वा वधं भर्तुः सुदारुणम् || निष्पपात भृशं त्रस्ता विविधाद्भिरिगहरात् ॥ ४ ॥ ये त्वङ्गदपरीवारा वानरा भीमविक्रमाः ॥ ते सकार्मुकमालोक्य रामं त्रस्ताः प्रदुद्रुवुः ॥ ५ ॥ सा ददर्श ततस्त्रस्तान्हरीनापततो भृशम् | यूथादिव परिभ्रष्टान्मृगान्निहतयूथपान् ॥ ६॥ तानुवाच समासाद्य दुःखितान्दुःखिता सती || रामवित्रासितान्सर्वाननुबनिवेषुभिः ॥ ७ ॥ वानरा राजसिंहस्य यस्य यूयं पुरःसराः || तं विहाय सुसंत्रस्ताः कस्माद्रवथ दुर्गताः ॥ ८ ॥ राज्यहेतोः स चेद्भाता भ्रात्रा रौद्रेण पातितः ॥ रामेण प्रहित रौद्रर्मार्गदूरपतिभिः ॥ ९॥ कपिपत्या वचः श्रुत्वा कप : कामरूपिणः ॥ प्राप्तकालसंविलिष्टमूचुर्वचनमङ्गनाम् ॥ १० ॥ जीवपुत्रे निवर्तस्त्र पुत्रं रक्षस्व चाङ्गदम् || अन्तको रामरूपेण हत्वा नयति वालिनम् ॥ ११ ॥ क्षिप्तान्वृक्षान्समाविध्य विपुलाच शिलास्तथा ॥ वाली वज्रमै रामेण विनिपातितः ॥ १२ ॥ अभिद्रुतमिदं सर्व विद्रुतं प्रसृतं बलम् || अॅसिप्लवगशार्दूले हते शक्रसमप्रभे ॥ १३ ॥ रक्ष्यतां नॅगरद्वारमङ्गदश्चाभिषिच्यताम् || पदस्थं वालिनः पुत्रं भजिष्यन्ति प्लवङ्गमाः ॥ १४ ॥ अर्थवाऽरुचितं स्थानमिह ते रुचिरानने ॥ ऑविशन्ति हि दुर्गाणि क्षिप्रंमन्यानि वानराः ॥ १५ ॥ ८१ काले ॥ १–३ ।। अप्रियमिति च्छेदः । विविधात् ९ ॥ अविलिष्टं सयुक्तिकमितियावत् १० ॥ नानाकक्ष्यात् । गिरिगह्वरागिरिगुहातः । गुहारूपा हि जीवपुत्रे इति अपुत्रायाः खलु मृतभर्त्रनुगमन मितिभा- किष्किन्धेत्युक्तं ॥ ४ ॥ ये त्वित्यादिश्लोकद्वयमेकान्व- वः । नयति लोकान्तरमिति शेषः ॥ ११–१२ ।। यं ।। ५ - ६ ।। पूर्व सामान्यतो विदितवृत्तान्तापि विद्रुतं पूर्व किष्किन्धातो निर्गतमिदं बलं प्रसृतं प्रकीर्ण विशेषजिज्ञासया पृच्छति तानिति ॥ ७ ॥ वानराइ- सत् | अभिद्रुतं किष्किन्धाभिमुख्येन द्रुतं ॥ १३- त्यानिश्लोकद्वयमेकान्वयं । दुर्गता: अगतिकाः । १४ ॥ हे रुचिरानने ते इह किष्किन्धायां । स्थानं ते राज्यलोभाय सुग्रीवेण वाली हतश्चेद्भवतांकिंभयमि- अवस्थानं । अरुचितं अनभिमतं । अत्र स्थातुं अस्माकं त्यर्थः । मार्गणैरिति बहुवचनं संभावनयोक्तं ॥ ८ - नरोचते इत्यर्थः । हि यस्मात्कारणात् वानराः शत्रु- रामानु० विविधात् विचित्रान्तः प्रदेशात् ॥ ४ ॥ इषुभिरनुविद्वानिव अनुसृतानिव विद्यमानान् ॥ रामवित्रासितान् रामाद्वि- त्रस्तान् ॥ ७ ॥ वि० भ्राता प्रयोजककर्ता | रामःप्रयोज्यकर्ता | बाणाःकरणं । दूरात् दूरेस्थित्वामार्गणै: पातितश्चेत्किंयुष्माभिः पलायितमितिशेषः । तत्सेवयैवभवज्जीवनसंभवादितिभावः । वालिविषयबहुबाण प्रयोगसंभावनयामार्गणैरिति बहुवचननिर्देशः ॥९॥ ती० अविश्लष्टं एकरूपं । स० ननुकथंक पिपत्न्याइति "पत्युनयज्ञसंयोगे” इतियज्ञसंयोग एव पत्नीत्व विधानात् वालिनश्चतिर्यग्जा- तीयत्वेनयज्ञाधिकाराभावादितिचेन्न । तस्यदेवत्वेनदेवानांचदेवताधिकरणेऽधिकारस्यसमर्थितत्वात्परिदृश्यमानक पित्वंन यज्ञाधिकार- विलोपकमितिभावः । अधिकारनिषेधस्तुप्रसिद्धपामरतिर्य ग्विषयइतिभावः ॥ १० ॥ स० जीवन्पुत्रोयस्यास्सातथा तस्यास्सं- बुद्धिः । जीवेत्युक्तिविषयः पुत्रोयस्यास्सेतिवा ॥ ११ ॥ शि० वज्रेण वज्रिणेव । रामेणेतिशेषः । वज्रशब्दअर्शआयजन्तः । स० क्षिप्तान् स्खेनेतिशेषः | बाणैस्समाविष्यनिपातितः रामेणेतिशेषः । वालीपरमसमर्थः कथमेकेनबाणेन निपतेदितिवालिसाम- र्थ्यजानद्भिः अजानद्भिश्चरामसामर्थ्य बाणैरित्यायुक्तमित्यदोषः । ' मार्गणैर्दूरपातिभिः ' इतिपूर्वंश्लोकेप्येवमेवार्थोबोध्यः ॥ १२ ॥ ति० वानरं वानराणामिदं ॥ १३ ॥ ति० अथवेति । सरामेसुप्रीवेकिष्किन्धामागच्छतिअभिषिक्तेनाप्यङ्गदेनास्मत्पालनमशक्य- [ पा० ] १ ज. रामहस्तेन. २ छ. झ ट भृशंतस्मादुद्विग्नागिरिकन्दरात्. क. ग. भृशायत्तारम्यागिरिगुहान्तरात्. ङ. च. ज. ज. भृशंतस्माद्विविधागिरिकंदरात्. ३ क. ग. ङ. ट. वानराहिमहाबला:. ४ क. घ. च. – ट. द्रुतं. ५ क ख ग. विद्धानि. वेषुभिः. ६ क॰ ग॰ ङ.—ट. सुवित्रस्ताः ७ ङ. –ञ. क्रूरेण. ८ क. ग. प्रहितैर्दूरान्मार्गणैः ख. ङ. – ट. प्रसृतैर्दूरान्मार्गणैः. घ. प्रवृतैरौद्रैर्बाणैर्दूरातिपातिभिः ९ छ. - ट. मविश्लिष्टं १० च. ट. तथाशिलाः ११ क. घ. च. छ. झ. ज. ट. बाणैर्व- ज्रेणेवनिपातितः. ग. बाणैर्वज्रेण. ज. बाणैरिन्द्रेणेवनिपातितः १२ छ. झ ट अभिभूतमिदं १३ छ. झ. ट. वानरंबलं. १४ च. ज. ञ तस्मिन्प्लवग १५ नगरीशरैरङ्गदश्चा. क. ख. ग. च. नगरंशूरैरङ्गदश्चा. १६ ग. ङ. च. ज. ज. अथवाऽरुचिरं १७ क- ग. छ. झ. ट. आविशन्तिच ज ञ आविशन्तिह, १८ क. ख. ग. छ. झ ट क्षिप्रमद्यैव. घ. ज. ज. क्षिप्रमयच. वा. रा. १३०