पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ दण्डये यः पातयेद्दण्डं दण्ड्यो यश्चापि दण्ड्यते ॥ कार्यकारणसिद्धार्थावुभौ तौ नावसीदतः ॥६५॥ तद्भवान्दण्डसंयोगादसाद्विगतर्कल्मषः ॥ गतः स्वां प्रकृतिं धर्म्यं धर्मदृष्टेन वर्त्मना ॥ ६६ ॥ त्यज शोकं च मोहं च भैयं च हृदये स्थितम् ॥ त्वया विधानं हर्यत्र्य न शक्यमतिवर्तितुम् ।। ६७ ।। यथा त्वय्यङ्गदो नित्यं वर्तते वानरेश्वर || तथा वर्तेत सुग्रीवे मयि चापि न संशयः ।। ६८ ।। स तस्य वाक्यं मधुरं महात्मनः समाहितं धर्मपथानुर्वेर्तिनः ॥ निशम्य रामस्य रणावमर्दिनो वचः सुयुक्तं निजगाद वानरः ६९ ॥ शराभितप्तेन विचेतसा मया प्रदूषितस्त्वं यदजानता प्रभो ॥ इदं महेन्द्रोपमभीमविक्रम प्रसादितस्त्वं क्षम मे नेरेश्वर ॥ ७० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे अष्टादशः सर्गः ॥ १८ ॥ ८० एकोनविंशः सर्गः ॥ १९ ॥ वालिमरणश्रवणेनशोकात्तारयाकिष्किन्धातस्तत्समीपंप्रतिनिर्गमनम् ॥ १ ॥ रामभयात्पलायमानैर्वानरैर्मध्येमार्गमाग- च्छन्तीं तारांप्रतिरामेणवालिमारण निवेदन पूर्वकंभयोत्पादनेननगररक्षणाङ्गदाभिषेचनचोदने नसहनगरंप्रति निवर्तनचोदनम् ॥ २ ॥ तन्निराकरणपूर्वकंशोकादापतन्त्यातारयारणाङ्कणशायिनोवालिनोरामादीनांचावलोकनम् ॥ ३ ॥ स वीनरमहाराजः शयान: शेरविक्षतः || प्रत्युक्तो हेतुमद्वाक्यैर्नोत्तरं प्रत्यपद्यत ॥ १॥ अश्मभिः प्रविभिन्नाङ्गः पद पैराहतो भृशम् ॥ रामबाणेन च क्रान्तो जीवितान्ते मुमोह सः ॥ २ ॥ सप्तम्यर्थे तसिः । कृतनिश्चयाः अतो वयं न चिन्त्या | ति ॥ समाहितं समाधानरूपं ॥ ६९ ॥ प्रदूषित इत्यादि पूर्वेणान्वयः ॥ ६४ ॥ उक्तं विवृणोति – दण्डव इति यत् इदं मे अपचरितं | -क्षम क्षमस्व ॥ ७० ॥ इति ॥ कार्यकारणसिद्धार्थौ दण्ड्यत्वदण्डयितृत्वाभ्यां इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे निष्पन्नप्रयोजनावित्यर्थः ॥ ६५ ॥ धर्मदृष्टेन धर्मशा- स्त्रदृष्टेन । वर्लना दण्डसंयोगात् विगतकल्मषः सन् | | मुक्ताहाराख्याने किष्कन्धाकाण्डव्याख्याने अष्टादशः धर्म्यं धर्मादनपेतां । स्वां प्रकृतिं यथावस्थितशुद्धख- सर्गः ॥ १८ ॥ रूपं गतः ।। ६६ ॥ हेत्वन्तरेणाश्वासयति-त्यजेति ॥ विधानं विधिः प्रारब्धंकर्मेतियावत् ॥ ६७—६८ ।। तारागमनमेकोनविंशे-सवानरमहाराज इत्यादि । उक्तमर्थं सर्गान्ते श्लोकाभ्यांपुनः संगृह्णाति - सतस्ये - विक्षतः विशेषेण क्षतः । जीवितान्ते जीवितान्त- इत्यर्थः । यद्वा भवद्विशेषेण भवदकृत्य विशेषेणहेतुना । धर्मतः प्रायश्चित्तरूप । वयंकृतनिश्चयाः । अतोवयंभवताऽचिन्त्याः अकृत्यं कृतवन्तइतिन विचार्याः | नाप्यात्मा ममपरलोकप्रतिबन्ध कम स्तीतिभवानपिनविचार्यइत्यर्थः । राजभिर्वृतदण्डास्तुकृ- त्वापापानिमानवाः । निर्मलाः स्वर्गमायान्ति संतःसुकृतिनोयथा | शासनाद्वाविमोक्षाद्वास्तेनःस्तेयाद्विमुच्यते । राजात्वशासन्पाप- स्यतदवाप्नोतिकिल्बिषं " इतिमनुवचनानुसारेणोभयोरपिदोषाभावइतिभावः ॥ ६४ ॥ ति० दण्डदिष्टेन दण्डबोधकशास्त्रोक्तेन ॥६६॥ ति० भयं भ्रातृभार्याहरणजनितनरकभयं महूषणनिमित्त परलोकभयंच | दण्डेन कर्मणोनाशान्महूषणस्यमयाक्षान्तत्वाञ्च । शोकमोहौ तारातारेयविषयौ । विधानं प्राग्भवीयंकर्म । अत्रान्तेदण्डस्यैव संहारात्तिरश्चामपिज्ञानवतांशास्त्रार्थेऽधिकारोदृढः कृतइतिबोध्यं ॥ ६७ ॥ स० इदं परुषभाषणं | क्षम क्षमस्व | क्षमेत्युत्तयारामस्यकोपलेशोपिनास्तीतिसूचयति ॥ ७० ॥ इत्यष्टादशः सर्गः ॥ १८ ॥ "" [ पा० ] १ घ. किल्बिषः २ ङ. - ट. दण्डदिष्टेन. ३ क. ख. मन्युंच. ४ छ. झ. वर्तितं. ५ ङ. च. सयुक्तं. ६ छ. झ. ट. प्रभाषितस्त्वं. ७ ङ.. – ट. विभो. ८ ग. वीर्यविक्रम. ९ ग. च. छ. ज. ज. महीश्वर. ङ. ट. महेश्वर. १० क. ग. च. ज. वानरोमहातेजाः ११ ङ. – ट. शरपीडितः ख. क्षतविक्षतः १२ ङ. छ. ज. ञ ट प्रतिपद्यते. १३ क. ङ. — ट. परिभिन्नाङ्गः, १४ क. ग. पादपेनाहतो. १५ क. ङ. - ट. चाक्रान्तो.