पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ वालिनः पौरुषं यत्तद्यश्च वीर्य धृतिश्च या । तन्ममैकमनाः श्रुत्वा विधत्ख यदनन्तरम् ॥ ३ ॥ समुद्रात्पश्चिमात्पूर्व दक्षिणादपि चोत्तरम् ॥ क्रामत्यनुदिते सूर्ये वाली व्यपगतक्रमः ॥ ४ ॥ अग्राण्यारुह्य शैलानां शिखराणि महान्त्यपि ॥ ऊध्र्वमुत्क्षिप्य तरसा प्रतिगृह्णाति वीर्यवान् ।। ५ ।। बहवः सारवन्तश्च वनेषु विविधा द्रुमाः । वालिना तरसा भन्ना बेलं प्रथयताऽऽत्मनः ।। ६ ।। [३णु चापि रघुश्रेष्ठ विस्तरेण कथामिमाम्] ।। ७ ।। महिषो दुन्दुभिनाम कैलासशिखरप्रभः ।। [ यथा संनिहितः पापो वालिना क्रूरकर्मणा] ॥ ८ ॥ आसीन्महासुरः कश्चिदुन्दुभिर्नाम नामतः । बलं नागसहस्रस्य धारयामास वीर्यवान् ॥ ९ ॥ वीयेत्सेकेन दुष्टात्मा वरदानाच मोहितः । जगाम सुमहाकायः समुद्रं सरितां पतिम् ॥ १० ॥ ऊर्मिमन्तमतिक्रम्य सागरं रलसंचयम् । मह्य युद्धं प्रयच्छेति तमुवाच महाणेवम् ॥ ११ ॥ ततः समुद्रो धर्मात्मा समुत्थाय महाबलः ॥ अब्रवीद्वचनं राजन्नसुरं कालचोदितम् ॥ १२ ॥ समर्थो नासि ते दातुं युद्धं युद्धविशारद । श्रूयतां चैभिधास्यामि यस्ते युद्धं प्रदास्यति ॥ १३ ॥ शैलराजो महारण्ये तपस्विशरणं परम् । शङ्करश्वशुरो नाम्रा हिमवानिति विश्रुतः ॥ १४ ॥ गुंहाप्रस्रवणोपेतो बहुकन्दरनिर्दरः ॥ स समर्थस्तव प्रीतिमतुलां कर्तुमाहवे ।। १५ ।। तं भीत इति विज्ञाय समुद्रमसुरोत्तमः । हिमवद्वनमार्गच्छच्छरश्चापादिव च्युतः ।। १६ ।। ततस्तस्य "गिरेः श्रेता गैजेन्द्रविपुलाः शिलाः ॥ चिक्षेप बहुधा भूमौ दुन्दुभिर्विननाद च॥१७॥ ततः श्वेताम्बुदाकारः सौम्यः प्रीतिकराकृतिः । हिमवानब्रवीद्वाक्यं ख एव शिखरे स्थितः।। १८ ।। पौरुषं बलं । अनन्तरं यत्कर्तव्यं तद्विधत्स्व ॥ ३ ॥ | णीति । कंतुकानीवेति भावः ।। ५ । बहव इति । समुद्रादिति । “ ब्राहे मुहूर्त उत्थाय ?' इति ब्राह्म- | मक्षिकोत्सारणरीत्येति भावः । सारवन्त: स्थिरांश मुहूर्तस्य सन्ध्याकर्मकालत्वेन तस्मिनुत्थाय अनुदिते | वन्त: । “ सारोबलेस्थिरांशेच ? इत्यमरः ।। ६ ।। सूर्येसन्ध्याकर्मकरणार्थ पश्चिमात्समुद्रात्पूर्वसमुद्रं | कैलासशिखरप्रभः । तदाकार इत्यर्थः ।। ७९ ।। - दक्षिणात्समुद्रादुत्तरं समुद्रंचव्यपगतकुमःसन्क्रामति । इदं व्यक्तमुत्तरकाण्डे । तार:–“चतुभ्योंपिसमुद्रेभ्य वीर्योत्सेकेन वीर्यगर्वेण । दुष्टात्मा दुर्बुद्धिः । अति सन्ध्यामन्वास्यरावण । इमं मुहूर्तमायातिवाली पूर्वकालोनविवक्षित मुहूर्तकं ? ' इति । ननु कथं चतुष्र्वप्येकसन्ध्याक मेत्यर्थः ।। १०-११ । समुत्थाय पुरुषवेषेणो रणं । उच्यते । एकस्मिस्तटाकेपार्श्वभेदइव रुन्नानाच- | त्थाय ।। १२-१३ । परं तपस्विशरणं तपस्विनांपर मनाघ्र्यप्रदानजपानां कर्तु शक्यत्वात् ।। ४ । अप्रा- । मावासस्थानं । नित्यनपुंसकं ॥ ॥ प्ररुवणं १४ इतिवत्संभवति । विस्तृतंचैतत्प्राक् ॥ २ ॥ स० अनुभूतभ्रातृप्रभावस्यकपेर्ममचाल्पतोविज्ञसिंश्रुण्वितिभ्रातृपराक्रमंकथयति वालिनइति । पौरुषं शारीरबलं । ममसकाशात् । ति० वीर्यं परसंहारशक्तिः । धृतिः रणेधैर्य ॥ ३ ॥ रामानु० अनुदि तेसूर्येइत्युत्तरावधिरभिहितः । पूर्वावधिस्तु–“ब्राह्ममुहूर्तउत्थाय'इत्यनुष्टानाङ्गत्वेनविहितःकालः ॥ ४ ॥ ति० महिषः तदूप धरः ॥८॥ शि० नागसहस्रस्य गजसहस्रस्य ॥९॥ वि० समुद्रमतिक्रम्य अविगणय्य । तं तदधिष्ठातृदेवतां ।। स० रन्नानांसं चयोयस्मिन्सः । अथवा रन्नानिसंचीयन्तेऽनेनेतिरन्नसंचयस्तं ॥११॥ स० प्रीतिकराकृतिः नम्रतादिभिःप्रीतिकृदाकारः ॥ १८ ॥ [पा० ] १ क. ड, च. ज. ज. ट. तदनन्तरं. २ ख. घ. त्पूर्वात्. ३ ख. घ. चोत्तरात्. ४ छ. झ. ट. मुत्पात्य ५ क. बलंदर्शयतात्मनः. ज. बलजिज्ञासयात्मनः. ६ इदमधे ज. पाठेदृश्यते ७ ज. वीर्यवान्सुमहाबलः. ८ कुण्ड लितमिदमर्धद्वयं ज. पाठेदृश्यते. ९ क. ख. ग. झ. ट. सवीर्योत्सेकदुष्टात्मा. घ. सवीर्योत्सिक्तदुष्टात्मा१० क. ख. ग ड.-ट, मम. ११ झ. ठ. खभिधास्यामि. १२ छ. झ. ट. महाप्रस्रवणो. १३ ग. घ. ड. छ. ज. झ. ट. निर्शरः. १४ ख दातुमाहवे. छ. झ. ट. कर्तुमर्हति. १५ छ. झ. मागम्यशरः, १६ च. छ. ज. गिरेचैव. १७ झ. ट, गजेन्द्रप्रतिमाः च. ज. नरेन्द्रविपुलाः, १८ ग. ननादह.