सर्गः ११ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । ४३ ऋश्यमूकं गिरिवरं भार्याहरणदुःखितः । प्रविष्टोस्मि दुराधर्ष वालिनः कारणान्तरे ॥ २८ ॥ एतत्ते सर्वमाख्यातं वैरानुकथनं महत् । अनागसा मया प्राप्तं व्यसनं पश्य राघव ॥ २९ ॥ वैलिनस्तु भयार्तस्य सैर्वलोकाभयंकर । कर्तुमर्हसि मे वीर प्रसादं तस्य निग्रहात् ॥ ३० ॥ एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मसंहितम् । वचनं वतुमारेभे सुग्रीवं प्रहसन्निव ।। ३१ ।। अमोघाः सूर्यसंकाशा मैते निशिताः शराः । तस्मिन्वालिनि दुवृत्ते निपैतिष्यन्ति वेगिताः ॥३२ ।। यावत्तं नाभिपश्याभि तव भार्यापहारिणम् ॥ तावत्स जीवेत्पापात्मा वाली चारित्रदूषकः ॥३३ ।। आत्मानुमानात्पश्यामि मं त्वां शोकसागरे। त्वामहंतारयिष्यामि कामं प्राप्स्यसि पुष्कलम् ॥३४॥ तस्य तद्वचनं श्रुत्वा रौघवस्यात्मनो हितम् । सुग्रीवः परमप्रीतः सुमहद्वाक्यमब्रवीत् ।। ३५ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे दशमः सर्गः ।। १० ।। एकादशः सर्गः ॥ ११ ॥ सुग्रीवेण रामबलपरीक्षणाय वालिबलप्रकारकथनोपक्रम ॥ १ ॥ महिषाकृतिना दुन्दुभिनान्नामहासुरेण वीर्योत्सेका द्युद्धायवालिनः समाह्वानम् ॥ २ ॥ वालिना बाहुयुद्धेन तन्मारणपूर्वकं तद्भात्रस्य मतङ्गाश्रमपरिसरेवेगात्क्षेपणम् ॥ ३ ॥ दूरात्पतनवेगेन महिषमुखोदूतैरक्तबिन्दुभिराकीर्णे निजाश्रमे रुटेन मतङ्गमहर्षिणा वालिनस्तदीयानांच स्वाश्रमप्रवेश क्रमण प्राणवियोजनशैलीभवनप्रयोजकशापदानम् ॥ ४ ॥ सचिवमुखादृषिशापप्रकारं ज्ञातवतावालिना तदाप्रभृति ऋश्य मूकप्रवेशवर्जनम् ॥ ५ ॥ एवं वालिबलवर्णनेनसह तेनदुष्प्रवेशत्वादृश्यमूकस्य स्वेनशरणीकरणोक्तिपूर्वकं वालिवधे संदिहा नंसुग्रीवंप्रति लक्ष्मणेन रामेवालिवधशक्तिप्रत्यायकनिवेदनचोदना ॥ ६ ॥ सुग्रीवेण प्रत्यायकनिवेदितेनरामेण दुन्दुभिश रीरास्थ्नो निजपादाङ्गुष्ठेन दृशयोजनानन्तरदेशेक्षेपणम् ॥ ७ ॥ तावताप्यपरितुष्टनसुग्रीवेण सालसप्तकप्रदर्शनेन तेषुवालि बलप्रकारनिवेदनपूर्वकमेकबाणेनतेष्वेकतमविदारणस्य स्वप्रत्यायकत्वोक्ति रामस्य वचनं श्रुत्वा हर्षपौरुषवर्धनम् ॥ सुग्रीवः पूजयांचक्रे राघवं प्रशशंस च ।। १ ।। असंशयं प्रज्वलितैस्तीक्ष्णैर्मर्मातिगैः शरैः । त्वं दहेः कुपितो लोकान्युगान्त इव भास्करः ॥ २ ॥ विद्धः ताडितः ।। २७ ॥ कारणान्तरे मतङ्गशापनि-| राजविरचिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने मित्तसति । वालिनो दुराधर्ष दुराक्रमं ॥ २८ ॥ | किष्किन्धाकाण्डव्याख्याने दशमः सर्ग ।। १० ।। वैरानुकथनं वैरकारणाख्यानं ।। २९ । वालिनइति पञ्चमी ॥३०-३३॥ आत्मानुमानात् “आत्मवत्स-| अथ सुग्रीवो वालिवधक्ष्मं रामबलं परीक्षितुका वेभूतानि' इतिन्यायादित्यर्थः । तारयिष्यामि शोक-| मस्तद्वलं दर्शयत्येकादशे-रामस्येत्यादि । पूजयां सागरादितिशेषः ।। ३४-३५ । इति श्रीगोविन्द्- | चक्रे अञ्जलिबन्धादिना । प्रशशंस तुष्टाव ॥ १-२ ।। निर्वासितेपिसुप्रीवेऽनेकविधविघातयत्रंकृतवानितिव्यक्तं । तेनतस्यमहानपराधोव्यञ्जितः ॥ २७ ॥ शि० प्रहसन्निव प्रहसन्नेव ॥ ३१ ॥ ति० चारित्रदूषकः निषिद्धानिषिद्धज्ञानवत्वेसतिजीवतोभ्रातुर्भार्यापहारात् । स० चारित्रं सदाचारः ॥ ३३ ॥ ती० पुष्कलं सर्व। पुष्कलं श्रेष्ठमित्यर्थः ॥ ति० आत्मानुमानात् अयंशोकाब्धिमग्रः रिपुहृतदारखातू मद्वत्इत्यनुमानं बाढं प्राप्स्यसि भायां पुष्कलं राज्यंच ॥ ३४ ॥ स० आत्मनोहितमिति रामदर्शनक्षणएव हितं खस्मैखसंबन्धिजनायचजातप्राय मितिषष्ठयास्पष्टयति । अन्यथा चतुर्थीयेतेतिज्ञेयं । यद्वा आत्मनाखेन ऊहितं एवंरामोवदिष्यतीतिर्कितंवचःश्रुत्वा ।। ३५ ।। इतिदशमः सर्गः ॥ १० स० युगान्ते प्रलये । दहेः । दहेदितिपाठे युष्मद्योगेपिप्रथमपुरुषः । “खैदेवशक्तयांगुणकर्मयोनौरेतस्त्वजायांकविरादधेऽज [ पा० ] १ ख. घ. वालिना २ झ. ट. वालिनश्च क. ख. छ. सर्वभूतभयापह. छ. झ. ट. सर्वलोकभयापह ४ क. छ. श. ट. मुक्तस्स ५ ख. धर्मवत्सल ६ ड. छ. ज. झ. ट. निशितामेशराइमे. क. ख. च. ज. ममे ७ क. ड. छ.-ट. पतिष्यन्तिरुषान्विताः. घ. पतिष्यन्तिरुतान्विताः. ८ क. ड.-ट. नहेिपश्येयं. ग. घ. नहेिपश्यामि ९. ग. तावज्जीवेत्सपापीयान्वाली. १० ड.-ट. मग्रस्त्वं. ११ छ. झ. ट. बाढं. ख. ड. च. ज. अन. सुखं. १२ ड. छ, झ ट. हर्षपैौरुषवर्धनं. क. ख. राघवस्यमनोहितं
पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/४७
दिखावट