३४ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ मयाऽपि व्यसनं प्राप्त भयहरणजं महत् ॥ नै चाहमेवं शोचामि नै च धैर्यं परित्यजे ॥ ६ ॥ नॉहं तामनुशोचामि प्राकृतो वानरोपि सन् । महात्मा च विनीतश्च किं पुनर्धतिमान्भैवान् ॥७॥ बाष्पमापतितं धैर्यान्निग्रहीतुं त्वमर्हसि । मर्यादां सत्त्वयुक्तानां धृतिं नोत्स्रष्टुमर्हसि ॥ ८ ॥ व्यसने वाऽर्थकृच्छे वा भये वा जीवितान्तके ॥ विमृशन्वै खया बुद्धया धृतिमान्नावसीदति ॥९॥ बालिशस्तु नरो नित्यं वैक्रब्यं योऽनुवर्तते । स मज्जत्यवशः शोके भाराक्रान्तेव नौर्जले ॥ १० ॥ एषोञ्जलिर्मया बद्धः प्रणयात्वां प्रसादये । पौरुषं श्रय शोकस्य नान्तरं दातुमर्हसि ।। ११ ।। ये शोकमनुवर्तन्ते न तेषां विद्यते सुखम् ॥ तेजश्च क्षीयते तेषां न त्वं शोचितुमर्हसि ॥ १२ ॥ शोकेनाभिप्रपन्नस्य जीविते चापि संशयः । स शोकं त्यज राजेन्द्र धैर्यमाश्रय केवलम् ॥ १३ ॥ हितं वयस्यभावेन बूमि नोपदिशामि ते ॥ वयस्यतां पूजयन्मे न त्वं शोचितुमर्हसि ॥ १४॥ मधुरं सान्त्वितस्तेन सुग्रीवेण स राघवः । मुखमश्रुपरिकिन्नं वस्रान्तेन मार्जयत् ।। १५ ।। प्रकृतिस्थस्तु काकुत्स्थः सुग्रीववचनात्प्रभुः ॥ संपरिष्वज्य सुग्रीवमिदं वचनमब्रवीत् ।। १६ ।। कर्तव्यं यद्वयस्येन स्रिग्धेन च हितेन च ॥ अनुरूपं च युक्तं च कृतं सुग्रीव तंत्वया ।। १७ ।। एष च प्रकृतिस्थोऽहमनुनीतस्त्वया सखे । दुर्लभो हीदृशो बन्धुरस्मिन्काले विशेषतः ॥ १८ ॥ किंतु यत्रस्त्वया कार्यो मैथिल्याः परिमार्गणे ।। राक्षसस्य च रौद्रस्य रावणस्य दुरात्मनः ॥ १९ ॥ मया च यदनुष्ठेयं विस्रब्धेन तदुच्यताम् । वर्षाखिव च सुक्षेत्रे सर्व संपद्यते मयि ।। २० । । मया च यदिदं वाक्यमभिमानात्समीरितम् ॥ तत्वया हरिशार्दूल तत्त्वमित्युपधार्यताम् ॥ २१ ॥ अनृतं नोक्तपूर्व मे नच वक्ष्ये कदाचन । एतत्ते प्रतिजानामि सत्येनैव च ते शपे ॥ २२ ॥ ततः प्रहृष्टः सुग्रीवो वानरैः सचिवैः सह ।। राघवस्य वचः श्रुत्वा प्रतिज्ञातं विशेषतः ॥ २३ ॥ एवमेकान्तसैपृक्तौ ततस्तौ नरवानरौ उभावन्योन्यसंदृशं सुखं दुःखं प्रभाषताम् ।। २४ परित्यजे परित्यजामि ।। ६ । प्राकृतः हीनः । |।। १४ । प्रमार्जयत् । स्वार्थे णिच् । * अनित्यमा विनीतः वृद्वै:सुशिक्षितः ।। ७ । सत्त्वयुक्तानां व्यव -|गमशासन ? इत्यडभाव ।। १५-१६ । अनुरूपं सायवतां । * द्रव्यासुव्यवसायेषु सत्त्वमस्रीतुज- | मित्रत्वानुरूपं । युक्तं शोकनिवारणयोग्यं । कृतं न्तुषु ?' इत्यमरः । मर्यादां व्यवस्थारूपांधृतिं ।। ८ ॥ | उत्क्तमित्यर्थ ।। १७-१९ । विस्रब्धेन न्निग्धेन अर्थकृच्छे धननाशे ।। ९-१० । अन्तरं अवकाशं |॥ । अभिमानात् शौर्याभिमानात् । त्वय्यभि २० ॥ ११-१३ । ब्रमेि ब्रवीमि । वयस्यतां मित्रत्वं | मानाद्वा । तत्त्वं यथार्थे ।। २१-२३ । एकान्तसं ति० व्यसने इष्टवियोगजे । भये चोरव्याघ्रादिजे । जीवितान्तगे जीवितनाशप्रापके । विमृशन् प्रारब्धवेगमितिशेषः । ती० व्यसने विपदि । अर्थकृच्छे कार्यसंकटे ॥ ९ ॥ शि० पौरुषं खैकनिष्ठपरमपुरुषत्वंश्रय स्मरेत्यर्थः ॥११॥ ती० प्रकृतिस्थः खभावस्थः दुःखरहितइत्यर्थः ॥ १६ ॥ शि० स्निग्धेन तेहविशिष्टन । युक्तं युक्तिविशिष्टं ॥ ॥ ति० अस्मिन्काले व्यस १७ नकाले ॥ १८ ॥ ति० रावणस्य संहारेचेतिशेषः ॥ स० रावणस्यच परिमार्गणे ॥ ॥ ति० यदनुष्ठेयं तवेतिशेषः । १९ वर्षाखिवसुक्षेत्रे उसैबीजमितिशेषः । संपद्यते सफलंभविष्यतीत्यर्थः । शैघ्रयप्रत्यायनायवर्तमानप्रयोगः । स० विस्रब्धेन विश्व स्तेनमया यत्कर्तव्यंतदुच्यतां । अनन्तरंच वर्षासुतत्रापिचसुक्षेत्रे उसंयथासंपद्यते तथातवसर्वसंपद्यते ॥ २० ॥ ती० इदंवाक्यं [पा०] १ छ. झ. ट. भार्याविरहजं. २ छ. झ. ट. नाहमेवंहेि. ३ ग. छ. झ. ट. धैर्थेनच. ४ ग. अहंतावन्नशोचामि ड. अ. नाहंखमिवशोचामि. ५ छ. झ. ट. न्महान्. ६ ख. ग. घ. छ.-ट. जीवितान्तगे. ७ च. छ. झ. ज. ट. विमृशंश्च ८ क. ग. मोनुगच्छति. ९ क. ग. गन्तुमर्हसि. १० छ. झ. क्षयते. ११ ख. वापि १२ क. नोपदिशाम्यहं. १३ क प्रमार्जितं. ख. ममार्जतत्. १४ क. ग. मेखया. १५ क. ग. ड. च. छ. झ. उ. ट. तव. १६ छ. झ. ट. शपाम्यहं. क.- च ज. ज. शपामिते. १७ ज. हरिवानरौ, १८ क. ग. सदृशौ. १९ ख. ड. चसुखंदुःखमभाषतांसुसुखप्रत्यभाषतां . झ. अ. ट. . ज. ।
पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/३८
दिखावट