पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । स तु तद्वचनं श्रुत्वा राघवस्यात्मनो हितम् । सुग्रीवः परमप्रीतः सुमहद्वाक्यमब्रवीत् ।। ३१ ।। तव प्रसादेन नृसिंह रौघव प्रियां च राज्यं च समापुयामहम् । तथा कुरु त्वं नरदेव वैरिणं यथा निहंस्यद्य रिपुं ममाग्रजम् ॥ ३२ ॥ सीताकपीन्द्रक्षणदाचराणां राजीवहेमज्वलनोपमानि । सुग्रीवरामप्रणयप्रसङ्गे वामानि नेत्राणि समं स्फुरन्ति ॥ ३३ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे पञ्चमः सर्गः ।। ५ ।। षष्ठः सर्गः ॥ ६ ॥ [ किष्किन्धाकाण्डम् ४ सुग्रीवेण रामंप्रति हनुमत्सकाशात्स्वस्यतदीयवृत्तान्तपरिज्ञाननिवेदनपूर्वकं सीतान्वेषणप्रतिज्ञानम् ॥ १ ॥ तथा गगने रावणेननीयमानायाःसीतायाः स्वैरवलोकननिवेदनेनसह स्वेषुतयासोत्तरीयस्वाभरणोत्सर्जननिवेदनपूर्वकं तदाभरणप्रदर्श नम् ॥ २ ॥ रामेण लक्ष्मणेनसह तदाभरणानांसीतासंबन्धित्वप्रत्यभिज्ञानेन परिदेवनपूर्वकं सुग्रीवंप्रतिरावणयाथात्म्य प्रश्नः ॥ ३ ॥ पुनरेवाब्रवीत्प्रीतो राघवं रघुनन्दनम् ।। १ ।। अयमाख्याति मे राम सैचिवी मत्रिसत्तमः । हनुमान्यन्निमित्तं त्वं निर्जनं वनमागतः ॥ २ ॥ लक्ष्मणेन सह भ्रात्रा वसतश्च वने तव ।। रक्षसाऽपहृता भार्या मैथिली जनकात्मजा ॥ ३ ॥ त्वया वियुक्ता रुदती लक्ष्मणेन च धीमता । अन्तरप्रेप्सुना तेन हेत्वा गृध्र जटायुषम् ।। [भर्यवियोगजं दुःखं प्रापितस्तेन रक्षसा ] ॥ ४ ॥ भार्यावियोगजं दुःखमचिरात्त्वं विमोक्ष्यसे । अहं तामानयिष्यामि नष्टां वेदैश्रुतीमिव ।। ५ ।। झाटित्यमुक्तं ।। ३०-३१ । कुरु यतखेल्यथेः । |श्रीमद्रामायणभूषणे मुक्ताहाराख्याने किष्किन्धाका वैरिणं रिपुमितिद्विरुक्तया वैरकृतंशात्रवं नतुजाये -|ण्डव्याख्याने पञ्चमः सर्गः ॥ ५ ॥ त्युक्त ॥ ३२ ॥ प्रसङ्गात्कविराह-सीतेति । सीतानेत्रं राजीवोपमं । वालिनेत्रं हेमोपमं । पिङ्गा - |. एवंरामेण वालिवधेप्रतिज्ञाते सुग्रीवेणापि रामका यैसिद्धिः प्रतिज्ञायते षष्ठ-पुनरेवेत्यादि । राघवमि क्षत्वात् । रावणनेत्राणि ज्वलनोपमानि । पुरुषस्य | ति नाम । सुग्रीव इति शेषः ॥ १ ॥ त्वं यन्निमित्तं घामनेत्रस्फुरणमनर्थकरं स्रियास्तु शोभनमिति नेमेि- | वनमागतः तदाख्याति स्म ।॥२॥ लक्ष्मणेनेत्यादिश्लो तिशास्त्रविदः ॥ ३३ ॥ इति श्रीगोविन्दराजविरचिते । कद्वयं । तेन पूर्वमविज्ञातेन ।। ३-४ । विमोक्ष्यसे खाद्वहत्वेनोक्तिः ॥२८॥ स० सीतायावामनेत्रस्फुरणं त्रिकालदर्शिनात्रऋषिणादृछैवोक्तमितिवक्तव्यं ॥३३॥ इतिपश्चमःसर्गः ॥५॥ स० राघवं रघुकुलोत्पन्न । रघूणां नन्दयतीतितथा तं ॥ १ ॥ रामानु० आख्याति आख्यातवान् । “ वर्तमानसामीप्ये वर्तमानवद्वा' इतिभूतेलट् । शि० मेसेवकोऽयंहनुमान् मे आख्याति ॥ २ ॥ ती० अन्तरप्रेप्सुना तवानवस्थानंप्रासुमिच्छता । वैदेही अपहृतेतिहनुमानाख्यातील्यब्रवीदितिपूर्वेणसंवन्धः ॥ ति० तेनरक्षसामैथिलीहृता । त्वंभार्यावियोगजदुःखंप्रापितइतिचाख्या तवान् ॥ स० अन्तरमवकाशं ॥४॥ ती० वेदश्रुतीमिव श्रूयतइतिश्रुतिरितिव्युत्पत्त्या श्रुतित्वंवेदशास्रसाधारणं । तद्वयावृत्त्यर्थ बेदश्रुतीमित्युक्तं । मधुकैटभाभ्यांपातालेगुसंवेदजातंमत्स्याकृतिर्हरिर्यथाऽऽनीतवान् तद्वत्सीतामानयिष्यामि आनेष्यामीत्यर्थ [पा०] १ ख. राघवस्यमनोहितं. २ . ड .-ट. परमंवाक्यं. ३ क.ख. ग. ड.-ट. वीर. ४ ड. च.ज. ज. निहन्म्यद्य . छ. झ. ट, नहिंस्यात्सपुनर्ममाग्रजं. ५ ख. मेवीर. झ. तेराम. ६ छ. झ. ट. सेवको . ७ ड. ज. ज. वैदेही. ८ छ.- ट. अन्तरं. ९ क. ग. गृध्रहला. १० इदमधे ड. छ, श. अ. ट, पाठघुद्रश्यते . ११ छ, झ. दुःखैनविरात्त्वं. १२ क. गा . घेदश्रुतिंयथा. झ. देवश्रुतीमिव