सर्गः ५] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । हँद्य सौहृदमालम्ब्य पर्यष्वजत पीडितम् ॥ १४ ॥ ततो हनूमान्संत्यज्य भिक्षुरूपमरिंदमः । काष्ठयोः स्खेन रूपेण जनयामास पावकम् ॥ १५ ॥ दीप्यमानं ततो वहिं पुष्पैरभ्यच्यै सत्कृतम् । तयोर्मध्येऽथ सुप्रीतो निंदधे सुसमाहितः ॥ १६ ॥ ततोऽयिं दीप्यमानं तौ चक्रतुश्च प्रदक्षिणम् । सुग्रीवो राघवचैव वयस्यत्वमुपागतौ ।। १७ ।। ततः सुग्रीतमनसौ तावुभौ हरिराघवौ ॥ अन्योन्यमभिवीक्षन्तौ न तृप्तिर्मुपजग्मतुः ।। १८ ।। त्वं वयस्योसि मे हृद्यो ह्येकं दुःखं सुखं च नौ । सुग्रीवो राघवं वाक्यमित्युवाच प्रहृष्टवत् ॥१९॥ ततः स पर्णबहुलां छित्त्वा शाखां सुपुष्पिताम् ॥ सालस्यास्तीये सुग्रीवो निषसाद सराघवः ॥२०॥ लक्ष्मणायाथ संहृष्टो हनुमान्एवगर्षभः । शाखां चन्दनवृक्षस्य ददौ परमपुष्पिताम् ।। २१ । ततः प्रहृष्टः सुग्रीवः श्लक्ष्णं मधुरया गिरा । प्रत्युवाच तदा रामं हर्षव्याकुललोचनः ।। २२ ।। अहं विनिकृतो रैम चरामीह भयार्दितः । हृतभार्यो वने त्रस्तो दुर्गमेतदुपाश्रितः ॥ २३ ॥ सोहं त्रस्तो वने भीतो वसाम्युद्धान्तचेतनः । वालिना निकृतो भ्रात्रा कृतवैरश्च राघव ॥ २४ ॥ वालिनो मे महाभाग भयार्तस्याभयं कुरु । कर्तुमर्हसि काकुत्स्थ भयं मे न भवेद्यथा ॥ २५ ॥ एवमुक्तस्तु तेजखी धर्मज्ञो धर्मवत्सलः । प्रत्यभाषत काकुत्स्थः सुग्रीवं प्रहसन्निव ॥ २६ ॥ उपकारफलं मित्रं विदितं मे महाकपे । वालिनं तं वधिष्यामि तव भायांपहारिणम् ।। २७ ।। अमोघाः सूर्यसंकाशा मैते निशिताः शराः । तस्मिन्वालिनि दुवृत्ते निपतिष्यन्ति वेगिताः ॥२८॥ कङ्कपत्रप्रैतिच्छन्ना महेन्द्राशनिसन्निभाः ॥ तीक्ष्णाग्रा ऋजुपर्वाणः सैरोषा भुजगा इव ॥ २९ ॥ तमद्य वालिनं पश्य क्रूरैराशीविषोपमैः । शरैर्विनिहतं भूमौ विकीर्णमिव पर्वतम् ॥ ३० ॥ शेषः ।। १३ । हृद्यमित्यधै । पीडितं दृढं ॥ १४ ॥ | त्वहुःखेन मम दुःखंभवतु त्वत्सुखेनममसुखंभवत्वि मर्यादा बध्यतामिति वदतः सुग्रीवस्याशयं विदित्वा- | त्यर्थः । अनेन परसाम्यापत्यभ्यर्थनंसूचितं ।। १९ ।। चरति--तत इति । भिक्षुरूपंसंत्यज्येत्यनेन सुग्रीव-| सराघव इत्यनेन एकासनत्वमुक्तं ।। २०- २१ ।। विश्वासार्थ “तौत्वयाप्राकृतेनैवगत्वाज्ञेयौ प्रवङ्गम” |प्रत्युवाच तदा राममिति पाठः ॥२२-२३॥ त्रस्त इतिदुक्तप्रकारेणपुनभिक्षुरूपेणैवतदन्तिकं गतइत्यव-|भीत: उत्तरोत्तरं भीतः । यद्वा वालित्रस्तोहमस्मिन्वने गम्यते । खेन रूपेण वानररूपेण । काष्ठयोः अरणि- | अभीतो वसामीत्यर्थः ।। २४ । अभयं भयाभावं भूतशमीकाष्ठयोः । सप्तम्यन्तंपदं ।। १५ । सत्कृतमि- | कुरु । आयैतिशयेनदाढ्ययपुनरुच्यते-कर्तुमित्यर्धे त्यभ्यच्र्येत्यस्यानुवादः । तयोः रामसुग्रीवयोः ॥१६॥ | न । मे भयं यथानभवेत्तथाकर्तुमर्हसीत्यन्वयः ॥२५॥ प्रदक्षिणंचक्रतुः अन्योन्यं पाणिंगृहीत्वेति शेषः । |प्रहसन्निव कियन्मात्रमेतदितिहसित्वा । इवशब्दो उपागतौ अन्निसाक्षिकमिति शेषः ।। १७ । अभिवी- | मन्दस्मितत्वे ।। २६-२८ । कङ्कपत्रप्रतिच्छन्ना क्षन्तौ अभिवीक्षमाणौ ।। १८ । एकं समानं । । कङ्कपत्रैर्बद्धाइयंर्थः ।। २९ । अद्य पश्यत्यनेन क्रिया ॥ १२ ॥ ती० काष्ठयोरितिसप्तम्यन्तं । अत्र हनुमतापावकोत्पादनंरामाभ्यनुज्ञयैव । अन्निसाक्षिकंलेहंकुर्वितिकबन्धेनोक्तत्वात् १५ ॥ ति० प्रहृष्टवत् प्रहृष्टस्सन् ॥ १९ ॥ ति० एतावत्पर्यन्तंसम्यग्विश्वासाभावात्सुग्रीवः पृथगासनस्थएवासीदितिज्ञायते । तदाह-ततस्सुपर्णेति ॥२०॥ ति० लक्ष्मणायविषादपरिहारार्थचन्दनशाखास्तरणदानं ॥२१॥ रामानु० त्रस्तः चकितः । अत्रस्तइतिवा ॥ २३ ॥ ति० अभयंकुरु अभयप्रतिज्ञांकुरु ॥ २५ ॥ सू० वालिसंहर्तुर्वाणस्यैकत्वेप्यनेकबाणसाध्यमहाकार्यकर्ते [पा० ] १ छ. झ. अ. ट. हृष्टः, २ ख. पूजितं. ३ छ. झ. ट. निदधौ. . निदधेस्स४ ट. मभिजग्मतु ५ क• डः ख. ग. –ट. हृद्योमे. ६ ग .-ज. ज. सुग्रीवंराघवो. ख. सुग्रीवोराघवचैवमूचतुस्तौप्रहृष्टवत्. ७ क. ग. ड.-ट सुपर्णबहुलां. ८ क.ख. ग. ड.- ट. भङ . ९ ड.-ट, हनूमान्मारुतात्मजः. १० ख. ततो. ११ ड. ज. अ. भ्रात्रा. १२ क ग.च.-ट, मगे. १३ क. ध. छ. परिच्छन्नाः. १४ ख. सरोषाइवपन्नगाः, १५ ड.-ट. तीक्ष्णैः. १६ च.झ. ट. प्रकीर्णमिवं.
पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/३३
दिखावट