| सर्गः ४ ] श्रीमद्भोविन्दराजीयव्याख्यासमलैकृतंम् । २७ ईदृशा बुद्धिसंपन्ना जितक्रोधा जितेन्द्रियाः ॥ द्रष्टव्या वानरेन्द्रेण दिष्टया दर्शनमागताः ॥ २८ ॥ स हि राज्यात्परिभ्रष्टः कृतवैरश्च वालिना । हृतदारो वने त्यक्तो भ्रात्रा विनिकृतो भृशम् ॥२९॥ कैरिष्यति स साहाय्यं युवयोर्भास्करात्मजः ॥ सुग्रीवः सह चास्माभिः सीतायाः परिमार्गणे ॥३०॥ इत्येवमुक्त्वा हनुमाञ्श्लक्ष्णं मधुरया गिरा । बभाषे सोभिगच्छेम सुग्रीवमिति राघवम् ॥ ३१ ॥ एवं बुवाणं धर्मात्मा हनुमन्तं स लक्ष्मणः । प्रतिपूज्य यथान्यायमिदं प्रोवाच राघवम् ।। ३२ ॥ कपिः कथयते हृष्टो यथाऽयं मारुतात्मजः ॥ कृत्यवान्सोपि संप्राप्तः कृतकृत्योसि राघव ॥ ३३ ॥ प्रसन्नमुखवर्णश्च व्यक्तं हँष्टश्च भाषते ॥ नानृतं वक्ष्यते वीरो हंनुमान्मारुतात्मजः ।। ३४ ॥ ततः स तु महाप्राज्ञो हनुमान्मारुतात्मजः ॥ जगामादाय तौ वीरौ हरिराजाय राघवौ ।। ३५ ।। भिक्षुरूपं परित्यज्य वानरं रूपमास्थितः । । पृष्ठमारोप्य तौ वीरौ जगाम कपिकुञ्जरः ॥ ३६ ॥ स तु विपुलयशाः कपिप्रवीरः पवनसुतः कृतकृत्यवत्प्रहृष्टः । गिरिवरमुरुविक्रमः प्रयातः सुशुभमतिः सह रामलक्ष्मणाभ्याम् ।। ३७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे चतुर्थः सर्गः ॥ ४ ॥ ते ।। २७ । द्रष्टव्याः अन्वेषितव्या: ।। २८ ॥ | न्नेति । वक्ष्यते वक्ष्यति । अनृतं न वदेदित्यर्थः ।॥३४॥ विनिकृत: वञ्चित: ।। २९ । क रिष्यतीति परिमा- | हरिराजाय वानरराजाय ॥३५ । उक्तं विवृणोति र्गणे साहाय्यं करिष्यति । ततःपरंभवतोरग्रे का |भिक्ष्विति ।। ३६ ॥ विपुलयशाः सर्वदेववरप्रसादेन शत्रुवार्तेतिभावः ।। ३० । बभाषे पुनरपीति | विशालकीर्तिः । कपिप्रवीरः सुग्रीवमपि नियन्तुं शेषः ।। । यथान्यायं दूतानुरूपं ॥ ३२ ॥ | समर्थः । अनेनभगवलाभ आचार्याधीनइत्युक्तं ।॥३७॥ ३१ अयं हृष्टः सन् यथा यथार्थ कथयते । यथार्थकथने |इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे हृष्टत्वं हेतुः । सीतापरिमार्गणं करिष्यतीति यथार्थ- | मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने चतुर्थः मेव । सोपि सुग्रीवः कृत्यवान् प्राप्तः जातः । तस्मात् | सगेः ।। ४ ।। कृतकृत्योसि ॥३३॥ हृष्टपदसूचितं विवृणोति-प्रस स० दर्शनमागताइतिबहुवचनंगौरवात् ॥ २८ ॥ स० वालिनेयेतद्देहलीदीपन्यायेनोभयत्रान्वेति ॥ २९ ॥ ति० यदेवं अतः परिमार्गणेसाहाय्यंकरिष्यतीत्यन्वयः ॥ ३० ॥ रामानु० अत्रेतिकरणैद्रष्टव्यं । राघव संप्राप्तोऽयंकपिर्मारुतात्मजः हृष्ट मद्वाक्यश्रवणात्संजातहर्षः । सोपि सुग्रीवोपि । कृत्यवानितियथावत्कथयते अतःकृतकृत्योसीतियोजना ॥ ति० सोपिखयाकृत्यवा नितियथाकथयतेतथाजाने एनंदेशंसंप्राप्तस्खंकृतकृत्योसीत्यर्थः । संप्राप्तः इहागतस्खंकृतकृत्यः सिद्धप्रयोजनोसि । एतेन नष्टा श्वदग्धरथन्यायेनद्वयोस्सख्यमेवद्वयोःकार्यसाधकंभवितेतिध्वनितं ॥ ३३ ॥ रामानु० हनुमदुक्तवाक्यस्याथाथ्र्यसमर्थयते प्रसन्नेति ॥ ३४ ॥ शि० हरिराजाय सुग्रीवायजगाम । “गत्यर्थकर्मणि-” इतिकर्मणिचतुर्थी ॥ ३५ ॥ ति० वानरं वानरस्येदं । आर्षोंऽण् ॥ ३६ ॥ स० किंचिद्यवधानात्कृतकृत्यवदित्युक्ति ॥ ३७ ॥ इतिचतुर्थस्सर्गः ॥ ४ ॥ [ पा०] १ क. छ. झ. ट. राज्याचविभ्रष्टः. २ क. ग. ड.-झ. ट. त्रस्तो. ३ ख. करिष्यतिहि. घ. करिष्यतिच ४ ड.-ट. साधुगच्छामः ग. सौम्यगच्छामः. ५ च. छ. ज. ल. ट. बुवन्तंधर्मझं८ छ. झ . ६ घ. . ७ क. ग. ह्यष्टच. ट. सुमहाप्राज्ञो. ९ ग. कृतकृत्यवान्प्रहृष्टः. १० ख. ड-ट, सशुभमतिः. क. ग. सशुभमुख
पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/३१
दिखावट