पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

11 & सर्गः ६७ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । `उत्सहेयं हि विस्तीर्णमालिखन्तमिवाम्बरम् || मेरुं गिरिमसङ्गेन परिगन्तुं सहस्रशः ॥ ११ ॥ बाहुवेगप्रणुन्नेन् सागरेणाहमुत्सहे | समाप्ठावयितुं लोकं सपर्वतनदीइदम् || १२ || ममोरुजङ्घवेगेन भविष्यति समुत्थितः ॥ समुच्छ्रितमहाग्राह: समुद्रो वरुणालयः ॥ १३ ॥ पन्नगाशनमाकाशे पतन्तं पेक्षिसेविते ॥ वैनतेयमहं शक्तः परिगन्तुं सहस्रशः ॥ १४ ॥ उदयात्प्रस्थितं वाऽपि ज्वलन्तं रश्मिमालिनम् || अनस्तमितमादित्य मँभिगन्तुं समुत्सहे ॥ १५ ॥ ततो भूमिमसंस्पृश्य पुनरागन्तुमुत्सहे || प्रवेगेनैव महता भीमेन प्लवगर्षभाः ॥ १६ ॥ उत्सहेयमतिक्रान्तुं सर्वानाकाशगोचरान् || सांगरं शोषयिष्यामि दारयिष्यामि मेदिनीम् ॥ १७ ॥ पर्वतांचूर्णयिष्यामि प्लवमानः प्लवङ्गमाः || हरिष्याम्यूरुवेगेन प्लवमानो महार्णवम् ॥ १८ ॥ लतानां विविधं पुष्पं पादपानां च सर्वशः ॥ अनुयास्यन्ति मामय प्लवमानं विहायसा || भविष्यति हि मे पन्थाः खातेः पन्था इवाम्बरे ॥ १९ ॥ २२५ विस्तीर्णमिति मेरुविशेषणं । वानरसेनाभयनिवृत्त्यर्थं | उदयात् प्रस्थितं उदयगिरेर्निर्गच्छन्तं । आदित्यं स्वस्था- स्वोत्कर्षमपि स्वयं निवेदयति ।। ११-१३ ।। पन्न- नात्प्राप्य तेन सह गन्तुं प्रारभ्य ततः पूर्वमेवास्तगि- गाशनं वोचिताहारलाभाय निरवधिकत्वरासंपन्नं । रिमासाद्यानस्तमितं ज्वलन्तं रश्मिमालिनमादित्यम- यद्वा आहारग्रहणत्वरया सर्वेषां भयावहं पतन्तं नतु भिगन्तुं प्रत्युद्गन्तुं । समुत्सहे । ज्वलन्तमित्यनेन वर्तमानं । आकाशे स्वोचितक्षेत्रे । पक्षिसेवित इति मध्याह्न एवाभिगमनं सूच्यते ॥ १५ ॥ ततः सूर्यप्र स्वपरिकरसंपत्तिरुच्यते । वैनतेयं विनतापुत्रं । त्युद्गमनानन्तरं । भूमिमसंस्पृश्य कुत्राप्यविश्रम्य । अनेन कौमारावस्थायां बलवेगोत्कर्षः सूच्यते । अहं भीमेन महता प्रवेगेन प्रारब्धवेगेनैव पुनरागन्तुं पुन- तस्यापिप्राणदातुः पुत्रः । परिगन्तुं परितोगन्तुं रप्येकवारं सूर्यमभिगन्तुमुत्सहइत्यर्थः । शतयोजनस्थ प्रदक्षिणीकर्तुं । सहस्रशः एकयत्नेन सहस्रशः । परि- लङ्कां गन्तुं किमुतेति भावः ॥ १६ ॥ आकाशगोच- गन्तुं शक्तः आजानसिद्धसामर्थ्यास्मि ॥ १४ | रान् ग्रहनक्षत्रादीन् ॥ १७-१८ ॥ पुष्पमिति ति० मेरुंगिरिमसङ्गेन मध्येविश्रामायक्वचित्क्षणमपि स्थितिराहित्येनैव सहस्रशः परिगन्तुमुत्सहे एकेनैव वेगनसहस्रवारंप्रद- क्षिणंकर्तुं शक्नोमीत्याशयः ॥ ११ ॥ ति० समुत्थितः अतिक्रान्तवेलः ॥ स० वरुणालयः अब्धिः ॥ समुद्रः मुद्रया उत्तर णायकरिष्यमाणसेतुरेखाचिन सहवर्ततइति सतथा । तथाहिसंग्रहरामायणे — “ सेतुंविधातुंहरिवाहिनीनां पुरैवकुर्वनिव लक्ष्मरेखां ” इति । एतेन नान्यतराधिक्यशङ्का वरुणालयइत्यस्य शुद्धयौगिकत्वाश्रयणेनपरिहारश्चाखारम्यान्नयुक्तौ ॥ १३ ॥ सहस्रशः परिगन्तुं । एतेन गम्यमुद्दिश्य तदेकपातवेगेन बहुवारं तत्प्रदेशंगत्वा पुनरायातुमहंक्षमइतिवैनतेयादाधिक्यंद्योतयति । “वैनतेयगतिः परे” ति संपात्युक्तिस्तु पक्षिजात्यपेक्षयेति नतद्विरोधइतिज्ञेयं ॥ ति० पक्षिसेविते आकाशे वैनतेयगतिः पदेत्यत्तस्य पदेस्थित्वाततोऽधःपतन्तंपन्नगाशनंवैनतेयमुपर्यधोभ्रमणेनसहस्रशः परिगन्तुंशक्तः पन्नगाशनंपतन्तमितिपदद्वयेन आमिषार्थ: पवनवेगातिशयःसूच्यते ॥ ति० पक्षिसेवितं पक्षिराजं । वैनतेयं आकाशेपतन्तमहमपि सहस्रशः परिगन्तुंशक्तः । तस्यैकपातं यावदहंसहस्रवारंपतितुंशक्तइतियावत् ॥ १४ ॥ स० प्रवेगेन एकपातेन | भीमेन द्विषतां अभीमेनसतामित्यकारप्रश्लेषाप्रश्ले- षाभ्यामर्थद्वयंज्ञेयं ॥ १६ ॥ शि० उत्सहेयमिति | आकाशगोचरान् अतिक्रान्तुंउत्सहे। सागरान्शोषयिष्यामि शोषयितुमुत्सहे | शोषणपूर्वकोत्साहोधात्वर्थः । एवमुत्तरत्रापि तत्तद्धात्वर्थपूर्वकउत्साहोर्थः । अतएव नशोषादिप्रतिज्ञावाक्यस्वमेतस्य ॥ १७ ॥ ति० लतानांविविधंपुष्पं पादपानांच पुष्पहरिष्यामीत्यन्वयः । तच्चपुष्पं वायुवेगेनाहृतंमामनुयास्यति ॥ १९ ॥ [ पा० ] १ ङ. च. ज. ट. उत्सहेयंतु. २ घ ङ. च. ज. अ. वायुवेग. ३ क. समप्लावयितुं. ४ समूच्छित. झ. भ. ट. समुत्थित ५ छ. झ. पक्षिसेवितं. ६ क. –च. ट. चापि ७ ङ. - ट. महंगन्तुं. ८ ङ. छ. झ. ट. मसंस्पृष्ट्वा ९ ख. उत्सहे. यमभि. क. ङ. उत्सहेयमति १० ङ. - ट. सागराञ्शोषयिष्यामि. क. ग. घ. सागरान्क्षोभयिष्यामि ११ क. ग. घ. पर्वता- न्क्रॅपयिष्यामि. १२ क. ग. हरिष्येचोरुवेगेन. १३ क. ख. ग. छ. झ. न. ट. अनुयास्यति. १४ ख. ग. वायोः • वा. रा. १४८