२२६ श्रीमद्वाल्मीकि रामायणम् । [ किष्किन्धाकाण्डम् ४ चरन्तं घोरमाकाशमुत्पतिष्यन्तंमेव वा || द्रक्ष्यन्ति निपतन्तं च सर्वभूतानि वानराः ॥ २० ॥ महामेघप्रतीकाशं मां च द्रक्ष्यथ वानराः ॥ दिवमावृत्य गच्छन्तं ग्रेसमानमिवाम्बरम् ॥ २१ ॥ विधमिष्यामि जीमूतान्कम्पयिष्यामि पर्वतान् ॥ सागरं क्षोभेयिष्यामि प्लवमानः समाहितः ॥ २२ ॥ वैनतेयस्य सा शक्तिर्मम या मारुतस्य वा ॥ २३ ॥ [ महासनहनोपेतौ महान्तौ पुरुषर्षभौ || ऋश्यमूकं पुनः शैलं लवेयं रामलक्ष्मणौ || नूनं नेष्यामि वैदेहीं रामस्य महिषीं प्रियाम् ॥ २४ ॥ ] ऋ॒ते सुपर्णराजानं मारुतं वा मेहाजवम् || नैं तद्भूतं प्रपश्यामि यन्मां प्लुतमनुव्रजेत् ॥ २५ ॥ निमेषान्तरमात्रेण निरालम्बनमम्बरम् || सहसा निपतिष्यामि घनाद्विदिवोत्थिता ॥ २६ ॥ भविष्यति हि मे रूपं प्लवमानस्य सोगरे | विष्णोर्विक्रममाणस्य पुरीं त्रीन्विक्रमानिव ॥ २७ ॥ बुद्ध्या चाहं प्रपश्यामि मनश्रेष्टा च मे तथा ॥ अहं द्रक्ष्यामि वैदेहीं प्रमोदध्वं प्लवङ्गमाः ॥ २८ ॥ मारुतस्य समो वेगे गरुडस्य समो जवे || अयुतं योजनानां तु गमिष्यामीति मे मतिः ॥ ३९ ॥ वासवस्य सवज्रस्य ब्रह्मणो वा स्वयंभुवः ॥ विक्रम्य सहसा हस्तादमृतं तदिहानये ॥ लङ्कां वाँऽपि समुत्क्षिप्य गच्छेयमिति मे मतिः ॥ ३० ॥ जात्येकवचनं ॥ १९ ॥ स्वातेः पन्थाः परिपूर्णतारा- | च्छायापथः ॥ २० – २२ ।। मर्म शक्ति: सा ति० खातेः पन्थाइति । स्वातिपथश्छायापथइत्युच्यते । सतु प्रकीर्णबहुनक्षत्रः । ममपन्थाअपि प्रकीर्णबहुपुष्पकः । चरन्तंमार्गमध्ये इत्या काशंप्रत्युत्पतिष्यन्तमेव ॥ २० ॥ ति० निपतन्तं परेपारेइतिशेषः । द्रक्ष्यन्ति । अनेनोत्पतनपतनयोरेकका- लत्वोत्त्याऽतिवेगःसूचितः ॥ २१ ॥ ति० वैनतेयस्यवेति । त्रयाणामेवैषांसर्वभूतातिशायिनीशक्तिर्नान्यस्येतिभावः ॥ स० वैनतेयस्येति । साम्येन वायोरुक्तिरुचिता | वैनतेयस्यनैच्येपि पामरापेक्षया दृष्टान्तीकरणमितिज्ञेयं ॥ अत्रोत्तरत्रच मम मारुतस्य वायोरपिसकाशात् वैनतेयस्य | वावेति अप्यर्थे | गरुडस्यापि अशक्तिः शक्त्यभावएवेतिवा ॥ २३ ॥ सुपर्णराजानं समासान्त- 'विधिरनित्यः । सुपर्णराजस्य अनाः चेष्टावा यस्मात्सतथा तंमारुतमृतइत्युभयन्त्र वायुरेकएव निदर्शनमित्यवसेयं ॥ ऋतेशब्दयोगे द्वितीयोपपत्तिस्तु–ज्ञानसूर्य मृतइत्यनुव्याख्यासुधातइव शब्देन्दुशेखरादितइवास्मत्कृततत्वसंख्यानटिप्पणीतोऽवसेया ॥ २५ ॥ ति० विद्युदुपमया शैध्र्येणबहुदेशव्याप्तिर्ध्वन्यते । स० निरालंबनं निराधारंयथाभवतितथा निपतिष्यामि यद्वा निरालंबनमं- बरमिति गगनखरूपनिरूपणं || घनाद्वियु दिवेत्यनेन गगनस्थनीरदवन्नीलतां खस्यप्रकाशमानतांच सूचयामासत्यवधेयं ॥ २६ ॥ ति० " सतांहिसन्देहपदेषुवस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः " इतिन्यायेनाह – बुद्ध्येति । निश्चयात्मकान्तःकरणेनेत्यर्थः । तथामे मनश्चेष्टा मनोव्यापारोऽनुमानरूपः । किंपश्यसि किंविषयाचते मनश्चेष्टेत्यत्राह - द्रक्ष्यामीति ॥ स० अहंवैदेहींद्रक्ष्यामि | तथामे मम मनश्रेष्ठा मनस्संबन्धिव्यापारोस्ति । अतः प्लवङ्गमाः प्रमोदध्वमित्यन्वयः । ननु मनः संशयंसंपादयति ननिश्चयं । अतःकथं प्रमोदध्वमित्युक्तिरित्यत आह - बुद्ध्येति । अहं बुद्ध्या निश्चयहेतुभूतान्तःकरणविशेषेण | प्रपश्यामि विजानामि | यथोक्तं तृतीयस्कन्धगतस्य "मनोबुद्धिरहङ्कारश्चित्तमित्यन्तरात्मनः । चतुर्थादृश्यते भेदो वृत्त्यालक्षणरूपया" इति श्लोकस्यतात्पर्ये बुद्धिरध्यवसानाय संशयंकुरुतेमनः | अभिमा नेत्वहङ्कारश्चित्तं स्मरण कारणं इतिस्कान्द इति । अहमहमिति द्विरभिधानं पृथक्पृथगन्वयाद्युक्तं । समाकर्षेणान्वयेसुकरे द्विवचनेना हमेवद्रक्ष्यामि नान्यस्तथाविधोस्तीतिसूच्यते ॥ २८ ॥ ति० वेगजवौ पर्यायौ । अयुतमित्यनेनाप्रमेयबलत्वंप्रकाश्यते नतु परिच्छेदः । वस्तुतस्तदभावात् । रावणोपिवक्ष्यति — “ नमारुतेरस्तिगति- प्रमाणं " इति ॥ ती० वेगेमारुतस्यसमः । अहमितिशेषः । अमितबलपराक्रमशाली हनूमान्वस्तुतः खोक्त विशेषणवि- शिष्टोपि दुःखसागरमग्नवानरवाहिनीसंतोषार्थमेतादृशान्यौद्धत्यवचनान्युक्तवान् । 'प्रहृष्टाहरयस्तत्र समुदैक्षन्तविस्मिताः तेवचनात् " ज्ञातीनांविपुलः शोकस्त्वयातात प्रणाशितः " इति जांब वनाचेत्यवगन्त ॥ २९ ॥ ति० वासवहस्तेख गिंभोग्यममृतं ब्रह्मणोहस्तेच योगिभोग्यममृतं । तदानयनवचो त्युक्त्यलङ्कारपरं समुत्क्षिप्य स्वस्थानादुत्पाटनपूर्व [ पा० ] १ क. ग. च. – ट. मेवच. २ ख. घ. ट. महामेरु. ३ ख. घ. -ट, मांद्रक्ष्यध्वंप्लवंगमाः ४ क. प्रसन्तमिवा ५ च. – ट. शोषयिष्यामि ६ ग. – छ. झ ञ वैनतेयस्यवा, ७ इदमर्धत्रयं ख. पाठेदृश्यते. ८ क. ग. जानेसुपर्णमात्मान ९. क. ग.―ट. महाबलं. ख. महौजसं १० ग घ. नतुभूतं. क. ख. नहिभूतं. ११ क ख योमां. १२ क. – ट. सागरं १३ ग. ङ. – झ. ट. विष्णोः प्रक्रममाणस्य १४ क. ग. छ. झ ञ ट तदा १५ ङ. च. ज. ज. त्वहं, १६ क. ग. घ. चापि c" >> "" >>
पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२२८
दिखावट