श्रीमद्वाल्मीकिरामायणम् । सप्तषष्टितमः सर्गः ॥ ६७ ॥ जल धिलङ्घनाय पृथुतरशरीरंपरिगृहीतवताहनुमता वानरनिकरभयापसारणाय निजप्रभावप्रशंसनपूर्वकं महेन्द्रगिरिशि- खरारोहणेन सागरतरणोद्यमनं ॥ १ ॥ २२४ [ किष्किन्धाकाण्डम् ४ तं दृष्ट्वा जृम्भमाणं ते क्रमितुं शतयोजनम् ॥ वीर्येणापूर्यमाणं च सहसा वानरोत्तमम् ॥ १ ॥ सहसा शोकंमुत्सृज्य ग्रहर्षेण समन्विताः || विनेर्दुस्तुष्टुवुयापि हनुमन्तं महाबलम् ॥ २ ॥ प्रहृष्टा विस्मिताश्चैव वीश्चन्ते स समन्ततः || त्रिविक्रमकृतोत्साहं नारायणमिव प्रजाः ॥ ३ ॥ संस्तूयमानो हनुमान्व्यवर्धत महाबलः || समाविष्य च लाङ्गूलं हर्षोच्च बलमेयिवान् ।। ४ ।। तस्य संस्तूयमानस्य वृ॑द्धैर्वानरपुङ्गवैः ॥ तेजसापूर्यमाणस्य रूपमासीदनुत्तमम् ॥ ५ ॥ यथा विजृम्भते सिंहो विवृद्धो गिरिगहरे || मारुतस्यौरसः पुत्रस्तंथा संप्रति जृम्भते ॥ ६ ॥ अशोभत मुखं तस्य जृम्भमाणस्य धीमतः | अम्बरीषमिवादीप्तं विधूम इव पावकः ॥ ७ ॥ हरीणामुत्थितो मध्यात्संग्रहृष्टतनूरुहः ॥ अभिवाद्य हरीन्वृद्धान्हनुमानिदमब्रवीत् ॥ ८ ॥ अरुजत्पर्वताग्राणि हुताशनसखोऽनिलः || बलवानप्रमेयश्च वायुराकाशगोचरः ॥ ९ ॥ तस्याहं शीघ्रवेगस्थ शीघ्रगस्य महात्मनः || मारुतस्यौरसः पुत्रः प्लवने नास्ति समः ॥ १० ॥ जृम्भमाणं वर्धमानं ॥१–६|| आदीप्तसम्बरीषमिव | इत्यस्मादौणादिक इलप्रत्ययः ||९|| शीघ्रवेगस्य शीघ्राः स्थितं जृम्भमाणस्य तस्य मुखं विधूमः पावक इव अशो- वैनतेयादयः तेषां वेग इव वेगो यस्य सः तस्य । भत । अम्बरीषं भ्राष्ट्रं। “क्कीबेम्बरीषं भ्राष्ट्रो ना" इत्य- तत्साम्यमसहमानस्ततोप्याधिक्यमाह - शीघ्रगस्येति । मरः ॥७–८॥ अनिलः गमनशीलः । “अन प्राणने" | यद्वा शीघ्रवेगस्य अतएव शीघ्रगस्य ॥ १० ॥ ति० अथगृहीत महाविग्रहस्यहनुमतोवानरबलाश्वासनाय निजबलप्रख्यापनपूर्व समुद्रलङ्घनाय महेन्द्रपर्वतारोहणमाह - त मिति । स० जृंभमाणं एधमानकायं शतयोजनंक्रमितुं एकपातेनगन्तुं | वेगेनापूर्यमाणमित्यनेन वेगकर्तृकपूरणकर्मीभूतमित्य थंडकः । तेन वेगस्यखाभाविकतयोद्बोधः सूचितोभवति । सहसेत्यनेनालोचनां सूचयति । तेन कपः सहसा : हसेनहासेनसहि- ताइतिवा ॥ १ ॥ सं० त्रिविक्रमं कृतोत्साहं कृते त्रिविष्टपांदिव्या पनव्यापारे उत्साहोयस्यसतथातं ॥ ३ ॥ स० लाङ्गूलं वालं | समाविध्य विलोल्य | कपिजातिस्वभावोऽयं ॥ ४ ॥ ति० अंबरीषं भ्रष्ट्रं । तदुपमं । अतएव दीप्तं प्रज्वलत् । अङ्गार- वर्णप्रतप्तभ्राष्ट्रोपममितियावत् ॥ स० अंबरीषोपमं अंबरीषेणसूर्येणोपमा यस्यसतथा । अंबरीष: " इत्यौणादिकसूत्रेणनिपा- तितःशब्दः । “ अंबरीषंरणेभ्राष्ट्रे क्लोबंपुंसिनृपान्तरे | नरकस्य प्रभेदेच किशोरेभास्करेपिच । आम्रात केऽनुपातेच” इतिमेदिनी । “ अंबरीषोनृपान्तरे। मार्ताण्डेखण्डपरशौ " इतिविश्वः ॥ भ्राष्ट्रमितिव्याख्या भाष्ठ्रकालिम्नस्तदनुरूपत्वायोगाद्विशेषाभिधानाना- लोचनमूलेत्युपेक्ष्या ॥ शि० तस्य हनूमतः विधूमः पावकइव दीप्तंमुखं अंबरीषोपमं सूर्यसदृशंयथाभवतितथा अशोभत । अंबरी- षशब्दार्थस्तु अंबरिणां आकाशवतांनक्षत्रगणानां ईषः तेजसापराभूतत्वंयस्मादिति अंबरिणः सर्वलोकानाकाशचारीणोवा ईषति स्वतेजसाप्राप्नोतीतिवा ॥ ७ ॥ ति० आरुजन् अत्यन्तंभिन्दमानः हुताशनस्यसखा उच्यमानगुणोयोवायुगमनशीलोऽनिलोस्ति ॥ सं० आकाशगोचरः आकाशरूपिण्यां गवि चरतीतिसतथा । अनिष्टत्यचू । आकाशोगोचरोविषयोगम्यत्वेनयस्यसतथा ॥ शि० ननिलीयतइत्यनिलः नित्यइत्यर्थः ॥ ९॥ ति० लवनेनगुणेनतत्समोस्मि ॥ स० शीघ्रवेगस्य शीघ्रंद्रुतंवेगःप्रवाहोयस्यसतथा । तस्य सरिदादेः सकाशात् शीघ्रगः शीघ्रंग तिसतथा । " वेगो जवेप्रवाहेच " इतिविश्वः । यद्वा अहंशीघ्रवेगस्येत्येकंपदं । अहमित्यभिमन्यमानवाचिनाऽभिमानीगृह्यते । तथाच अहमा रुद्रेण शीघ्रवेगंमनः | तस्य सकाशाच्छीघ्रगस्तस्य ॥ १० ॥ [ पा० ] १ ङ. - ट. वेगेनापूर्यमाणं. २ च. – ८. विनेदुर्विस्मिताश्चापि ३ क. ख. घ. – ज. ञ. ट. तेवीक्षन्ते. ४ च. ज. त्रिविक्रमे छ. झ ञ ट त्रिविक्रमं ५ ङ. ञ. न्प्रावर्धत ६ ग. महाकपिः, ७ ङ. – ट. हर्षाद्वलमुपेयिवान् ८ ख. ग. सर्वैर्वानर. ९ घ. ङ. छ. झ. अ. ट. विवृते. च. ज. वितते १० ग. तथाऽजृंभतवीर्यवान् क. तथाप्रतिविजृंभते. ११ क ख. घ. छ. झ. अंबरीषोपमंदीप्तं . १२ क. कपीन्. ख• ततोवृद्धान्. १३ झ. आरुजन्पर्वताप्राणि १४ ङ, छ. झ ञ ट तत्समः.
पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२२६
दिखावट