पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६६ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । २२३ तथा चौषधयोऽस्माभिः संचिता देवशासनात् || निष्पन्नममृतं याभिस्तदासीनो महलम् ॥ ३४ ॥ से इदानीमहं वृद्धः परिहीनपराक्रमः || सांप्रत कालमस्माकं भवान्सवर्गुणान्वितः ॥ ३५ ॥ तद्विजृम्भव विक्रान्तः प्लवतामुत्तमोह्यसि ॥ त्वद्वीर्ये द्रष्टुकामेयं संर्ववानरवाहिनी || ३६ ॥ उत्तिष्ठ हरिशार्दूल लङ्घयव महार्णवम् || परा हि सर्वभूतानां हनुमन्या गतिस्तव ॥ ३७॥ विषण्णा हरयः सर्वे हनूमन्किमुपेक्षसे || विक्रमस्व महावेगो विष्णुस्त्रीन्विक्रमानिव ॥ ३८ ॥ ततस्तु वै जांबवता प्रचोदितः प्रतीतवेगः पवनात्मजः कपिः ॥ प्रहर्षयंस्तां हरिवीरवाहिनीं चकार रूप मेंहदात्मनस्तदा ॥ ३९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे षट्षष्टितमः सर्गः ॥ ६६ ॥ अन्यत्सर्वमतिरोहितार्थं || ३३ – ३९ ॥ इति श्रीगो- | ख्याने किष्किन्धाकाण्डव्याख्याने षट्षष्टितमः विन्दराजविरचिते श्रीमद्रामायणभूषणे मुक्ताहारा - सर्गः ॥ ६६ ॥ पतन्त्यसत्पथे ” इति ब्रह्मणउक्तेर्वायोर्लोकानुकरणमिदमिति मन्तव्यं ॥ २९ ॥ ति० याभिः सागरेप्रक्षिप्यामृतंनिर्मथ्यं निर्मथ- नेनलभ्यं ॥ ३४ ॥ ति० सांप्रतंकालमितिसप्तम्यर्थेद्वितीया । अस्माकमितिनिर्धारणेषष्ठी । अस्मिन्कालेऽस्माकंमध्ये भवानेवस- र्धगुणान्वितइत्यर्थः ॥ ३५ ॥ स० लक्ष्यस्वमहार्णवं | स्वार्थेणिच् । णिचा महार्णवंव्यसनसमुद्रं कपीछँचयस्वेति जांबवदाशयइ- तिसूचयति । या तवगतिः समुद्रतरणं सा नकेवलंक पिमोदनमात्रफला । अपितु सर्वभूतानां परा पूरयित्री | अभिमतस्येति शेषः । हेहनुमन् या तवगतिः रामाख्यादेवता साः सर्वभूतानांपरा हि यतोतस्तत्सेवार्थमुत्तिष्ठतियोजनावा ॥ ३७ ॥ ति० विषण्णा: अर्थस्यस्खासाध्यत्वाद्दीनाः । किमुपेक्षसे तानितिशेषः ॥ ३८ ॥ ति० कपीनामृषभेण | कपिशब्दोत्रच्छत्रिन्यायेन ऋक्षसाधारणः । रूपं समुद्रतरणोचित महाविग्रहं । प्रकृतेस्तद्वय त्वाद्रूप महत्त्व स्वल्पत्वकरणं नानुपपन्नं । एवं जांबवताहनुमदभि- जनपराक्रमादिज्ञापनं तस्यसहजबलाविर्भावाय । तथाज्ञापनंहि तस्यतदाविर्भावकारणमितिदैवकृतःसमयः । यद्यपीतरदिक्त्रयप्रेषि- तवानराणामपि सप्तसमुद्रपरवर्क्युदयास्ताचलादिपर्यन्तगमनमुपदिष्टं । तथापि तन्मार्गेसमुद्रमध्ये विंशतित्रिंशदादियोजनेषु पर्वता- नांसत्त्वात्तदवलंबेनलवने नतथाकष्टं । इहतु निरवलबंशतयोजनप्लवनमन्यासाध्यमितिभावः । अत्रत्या मध्यपर्वतास्तु राक्षसैर्भक्त्वा मज्जितादुर्गसिद्धये । प्लवाश्चमज्जिताः । अतएवात्र सुग्रीवेण ते नोक्ताः । अतएव चत्वारिंशेसर्गे पूर्वदिक्प्रेषितवानरान्प्रति समुद्रा- न्तरगतदेशमुपक्रम्य " गिरिभिर्येचगम्यन्ते प्लवनेनच " इत्युक्तं ॥ स० नकेवलंजांबवटुक्तिमात्रेण । किंतु कपीनामृषभेण सुप्री- वेणचोदितः । यद्वा ऋषभेण श्रेष्ठेन वृद्धत्वेनमाननीयेनचोदितः । कपीनां कपिः सुग्रीवः इनः स्वामी यस्यास्सातां कपिवीरवा- हिनीं प्रहर्षयन्नित्यन्वयः । पूर्वपद्यात् विष्णुः इवेतिचानुवर्तते । तेनच पवनः आत्मजः पुत्रोयस्यसः विष्णुः त्रिविक्रमः | रूपमिव रूपंचकारेति दृष्टान्तदान्तिकभावःकथितः पुनरुक्तिपरिहारोपि जातइत्यव सेयं ॥ ' अवर्धतोच्चै हनुमान्महाद्रौ " इत्याद्युक्तेः रूपंमहच्चकार स्वीकृतवानित्यर्थः ॥ ३९ ॥ इतिषट्षष्टितमःसर्गः ॥ ६६ ॥ ९ ङ०–ट. द्रष्टुकामाहि. १० क. ग. ङ. स्त्रिविक्रमे. ज. यथाविष्णुस्त्रि विक्रमः. १४ ङ. -ट, पवनात्मजस्तदा. [ पा० ] १ क. ग. –च. ज. – ट. तदा. २ छ. झ. निर्मथ्यममृतं. ३ ङ. छ. झ. न. ट. तदानींनो. ४ क. ग. महाबलं. ५ ज. इदानीमस्म्यहंवृद्धः ६ क. परिक्षीणपराक्रमः• ७ क गतिरस्माकं. ८ ङ. च. ज. ञ. गुणाधिकः. – ट. सर्वांवानर ११ छ. झ ट महावेग. १२ क. ख. ग. च. ज. यथाविष्णु- १३ क. छ. झ ट ततःकपीनामृषभेणचोदितः ग ततस्तुवैजांबवताभिचोदितः.