पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २१७

न विषादे मनः कार्य विषादो दोषैवत्तमः ॥ विषादो हन्ति पुरुषं बालं क्रुद्ध इवोरगः ॥ ११ ॥ विषादो यं प्रसहते विक्रमे पर्युपस्थिते || तेजसा तस्य हीनस्य पुरुषार्थो न सिध्यति ॥ १२ ॥ तस्यां रात्र्यां व्यतीतायामङ्गदो वानरैः सह || हरिवृद्धैः समागम्य पुनर्मत्रममत्रयत् ॥ १३ ॥ सां वानराणां ध्वजिनी परिवार्याङ्गदं बभौ ॥ वासवं परिवार्येव मरुतां वाहिनी स्थिता ॥ १४ ॥ कोऽन्यस्तां वामरीं सेनां शक्तः स्तम्भयितुं भवेत् || अन्यत्र वालितनयादन्यत्र च हनूमतः ॥ १५ ॥ ततस्तान्हरिवृद्धांश्च तच्च सैन्यमरिंदमः ॥ अनुमान्याङ्गदः श्रीमान्वाक्यमर्थवदब्रवीत् ॥ १६ ॥ क इदानीं महातेजा लङ्घयिष्यति सागरम् || कः करिष्यति सुग्रीवं सत्यसंधमरिंदमम् ॥ १७ ॥ को वीरो योजनशतं लङ्ख्येच्च प्लवङ्गमाः ॥ इमांच यूथपान्सर्वान्मोक्षयेत्को महाभयात् ॥ १८ ॥ कस्य प्रभावादारांच पुत्रांश्चैव गृहाणि च ॥ इतो निवृत्ताः पश्येम सिद्धार्थाः सुखिनो वयम् ॥१९॥ कस्य प्रसादाद्रामं च लक्ष्मणं च महाबलम् || अभिगच्छेम संहृष्टाः सुग्रीवं च महाबलम् ॥ २० ॥ यदि कश्चित्समर्थो वः सागरप्लवने हरिः ॥ स ददात्विह नः शीघ्रं पुण्यामभयदक्षिणाम् ॥ २१ ॥ अङ्गदस्य वचः श्रुत्वा न कश्चित्किचिदत्रवीत् || स्तिमितेवाभवत्सर्वा तंत्र सा हरिवाहिनी ॥ २२ ॥ पुनरेवाद: ग्राह तान्हरीन्हरिसत्तमः ॥ सर्वे बलवतां श्रेष्ठा भवन्तो दृढविक्रमाः ॥ २३ ॥ व्यपदेश्यकुले जाताः पूजिताचाप्यभीक्ष्णशः ॥ न हि वो गमने सङ्गः कदाचित्कस्यचित्कचित् ॥ ब्रुवध्वं यस्य या शक्तिः प्लेवने वर्षभाः ॥ २४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे चतुःषष्टितमः सर्गः ॥ ६४ ॥ ॥ १० - ११ ॥ विषादो यं प्रसहते अभिभवति । न | इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे सिद्ध्यतीत्यनन्तरं इतिकरणंबोध्यं ॥ १२ – २३ ॥ मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने चतुःष- सङ्गः प्रतिहतिः । ब्रुवध्वमित्यार्षो निर्देशः ॥ २४ ॥ | ष्टितमः सर्गः ॥ ६४ ॥ ति० विषादंप्रसहते प्रसयविषादेप्रवर्तते । तेजसाहीनस्य विषादवशादितिभावः ॥ १२ ॥ ति० व्यपदेशकुले विगतोपदेशः कलङ्कोयस्मात्तादृशेकुलेपूजिताः राज्ञामहाबलत्वेनसत्कृताः ॥ २४ ॥ इतिचतुष्षष्टितमःसर्गः ॥ ६४ ॥ [पा० ] १ क. - घ. विषादेनन: २ ङ. छ. झ ञ ट दोषवत्तरः ३ क. पुरुषान्भीमरूपइवोरगः ४ क. ख. घ. च झ. ट. योविषादप्रसहते. ङ. ज. षादनसहते. ञ. यंविषादोनसहते. ५ ङ. – ट. समुपस्थिते. हरिभिःसह ख. वानरर्षभः ७ क. यथा. ८ ङ. शक्तोभर्त्सयितुं. ९ क.ज. ज. ट. लङ्घयेत. १० च. –ट मोचयेत् ११ क. ख. ग. ङ. च. झ ञ ट प्रसादाद्दारांव. १२ क. घ ङ. पश्यामः १३ क. अभिगच्छाम. १४ ङ.ट. वनौकसं. १५ क. घ. समर्थोय: १६ च – ट. सातत्र १७ झ. व्यपदेशकुले १८ क शक्ति: १९ ख. घ. कदाचिदपिकस्यचित् ङ. च. ज.–ट. कदाचिरकस्यचिद्भवेत्. ग. सर्वेषांचकदाक्कचित् २० क. गमनेचप्लवङ्गमाः ख ग घ. गमनेलवगर्षभाः. वा. रा. १४७