पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ अथ पवनसमानविक्रमा: लवगवराः प्रतिलब्धपौरुषाः || अभिजिंदभिमुखा दिशं ययुर्जनकसुतापरिमार्गणोन्मुखाः ॥ १५ ॥ इत्या श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे त्रिषष्टितमः सर्गः ॥ ६३ ॥ २१६ चतुःषष्टितमः सर्गः ॥ ६४ ॥ दुस्तरसमुद्रदर्शनेन विषीदत्सुकपिषु अङ्गदेन कपिवीरसमुदायंप्रति योजनशतोल्लङ्घने सामर्थ्य प्रश्ने केनाप्युत्तराप्रदाने पुनस्तद्वलपराक्रमप्रशंसनपूर्वक तान्प्रति प्लवने स्वस्वशक्तिनिवेदनचोदना ॥ १॥ तु १२. " आख्याता गृध्रराजेन समुत्पत्य लवङ्गमाः ॥ संगम्य प्रीतिसंयुक्ता विनेदुः सिंहविक्रमाः ॥ १ ॥ संपातेर्वचनं श्रुत्वा हरयो रावणक्षयम् || हँष्टाः सागरमाजग्मुः सीतादर्शनकाङ्क्षिणः ॥ २ ॥ अभिक्रम्य तु तं देशं ददृशुर्भीमविक्रमाः ॥ कृत्स्नं लोकस्य महतः प्रतिबिम्बमिव स्थितम् ॥ ३ ॥ दक्षिणस्य समुद्रस्य समासाद्योत्तरां दिशम् || सन्निवेशं ततंबर्हरिवीरा महाबलाः ॥ ४ ॥ संवैर्महद्भिर्विङ्कृतैः क्रीडद्भिर्विविधैर्जले ॥ व्यत्यस्तैः सुमहाकायैरूर्मिभित्र समाकुलम् ॥ ५ ॥ प्रसुप्तमिव चान्यत्र क्रीडन्तमिव चान्यतः || कर्चिपर्वतमात्रैश्च जलराशिभिरावृतम् ॥ ६॥ संकुलं दानवेन्द्रैश्च पातालतलवासिभिः ॥ रोमहर्षकरं दृष्ट्वा विषेदुः कपिकुञ्जराः ॥ ७ ॥ आकाशमिव दुष्पारं सागरं प्रेक्ष्य वानराः | विषेदुः सहसा सर्वे कथं कार्यमिति ब्रुन् ॥ ८ ॥ विषैण्णां वाहिनीं दृष्ट्वा सागरस्य निरीक्षणात् || आश्वासयामास हरीन्भयार्तान्हरिसत्तमः ॥ ९ ॥ तान्विषादेन महता विषण्णान्वानरर्षभान् ॥ उवाच मैतिमान्काले वालिसुनुर्महाबलः ॥ १० ॥ च्छदै: अरुणबहिष्पत्रैः ॥ ९-१४ ॥ अभिजिभि | कृत्वा | संगम्य पुनरन्योन्यं समेत्य विनेदुः ॥ १ ॥ मुखाः अभिजिन्मुहूर्तप्रतीक्षकाः ॥ १५ ॥ इति हरय: संपातेर्वचनं श्रुत्वा सीतादर्शनकाङ्क्षिणः सन्तः श्रीगोविन्दराज विरचिते श्रीमद्रामायणभूषणे मुक्ता- रावणक्षयं रावणनिलयभूतं लङ्काद्वीपमुद्दिश्य सागरं हाराख्याने किष्किन्धाकाण्डव्याख्याने त्रिषष्टितमः तन्मार्गभूतं सागरं । आजग्मुरिति संबन्धः ॥ २ ॥ सर्गः ॥ ६३ ॥ | प्रतिबिम्बमिव प्रतिनिधिमिव । इदं तटविशेषणं । सर्वलोकस्थसमस्तवस्तुसंपूर्णमित्यर्थः । “प्रतिमानं प्रति- बिम्बं प्रतिमा प्रतियातना प्रतिच्छाया | प्रतिकृतिरर्चा पुंसि प्रतिनिधिरुपमोपमानं स्यात् " इत्यमरः ॥ ३ ॥ सन्निवेशं स्थानं ॥ ४ - ९ ॥ विषादेन विषादकारणेन ति० प्रतिलब्धं प्राप्तं पौरुषं पौरुषप्रवृत्तिकालोयैस्ते । अभिजिदभिमुखां अभिजिन्नक्षत्रसंमुखां । दिशं दक्षिणां । यद्वा अभिजित, बाहुलकात्कर्मणिक्विप् । अभिजेतव्योरावणः संमुखोयस्यांतांदिशं ॥ १५ ॥ इतित्रिषष्टितमः सर्गः ॥ ६३ ॥ ति० आख्याताः आख्यातसीतावृत्तान्ताः ॥ १ ॥ ति० रावणक्षयं रावणनाशरावणगृहं चोद्दिश्यो वचनं श्रुत्वा ॥ २ ॥ ति० यत्रमहतोलोकस्य सचन्द्रार्कग्रहस्य कृत्स्नंप्रतिबिंबंस्थितंतंसमुद्रंददृशुः । प्रतिबिंबमवस्थितंइतिप्राचीनः पाठः । प्रतिबिंबमिवस्थितमि- त्याधुनिकपाठोनयुक्तः । कृत्स्नलोकप्रतिबिंबभावाप्रसिद्धेः ॥ ३ ॥ ति० प्रसुप्तमिवचान्यत्र निस्तरङ्गप्रदेशे । अन्यतः अन्यत्र । पर्वतमात्रैः तत्सदृशैः | जलराशिभिः ऊर्मिभिः ॥ ६ ॥ एवं प्रक्षिप्ताः पञ्च सर्गा गताः । एवं कृतोदकं संपातिं स्वस्थानमानीय प्रकृतकार्याय वानरा गता इत्याह – आख्याता इति ॥ समुत्पत्य हर्षेण तत्र लङ्घनं [ पा० ] १ ग. छ. —ट. दभिमुखां. २ ङ. - ञ. संगताः ३ ख. प्रीतिसंघुष्टाः ४ ङ. ज. निनेदुः ५ क. ख. ग. भीमविक्रमाः ६ घ. रावणालयं. ७ ख प्रहृष्टाः सागरंजग्मुः ८ क. ख. ग. अतिक्रम्यतु. ङ. - झ. ट. अभिगम्यतु ञ अभिसंगम्य. ९ क. ग. घ. चक्रुः सहितावानरोत्तमाः १० ङ. ञ. सर्वैः . ११ ख. घ. विविधैः १२ ख. घ. विकृतैर्जले. १३ क. घ. - ज. व्यात्तास्यैः १४ क. पर्वतसंकाशै:. १५ ङ. छ. – ट. सहिताः सर्वे. क. सर्वेदुद्रुवुश्चततस्ततः १६ क. विद्रुतां. १७ क. सागरस्यचवीक्षणातू. १८ क. वचनंकाले,