पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६३ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । त्रिषष्टितमः सर्गः ॥ ६३ ॥ वानरैः सह संभाषणसमयएष यथामुनिवचनं प्ररूढाभिनवपक्षेणसंपातिना वानरान्प्रति हर्षात्स्वपक्षप्ररोहमदर्शनपूर्वकं .तस्यदृष्टान्तीकरणात्तत् कार्य सिद्धि निवेदनेन गतिपरीक्षणाय नभसि समुड्डीनम् ॥ १ ॥ वानरैर्हर्षाद्दक्षिणसमुद्राभिमुख्येन प्रस्थानम् ॥ २ ॥ २१५ एतैरन्यैश्च बहुभिर्वा क्यैर्वाक्यविदां वरः || मां प्रशस्याभ्यनुज्ञाप्य प्रविष्टः समाश्रमम् ॥ १ ॥ कन्दरात्तु विसर्पित्वा पर्वतस्य शनैः शनैः ॥ अहं विन्ध्यं समारुह्य भवतः प्रतिपालये ॥ २ ॥ अद्य त्वेतस्य कालस्य साग्रं वर्षशतं गतम् || देशकालप्रतीक्षोसि हृदि कृत्वा मुनेर्वचः ॥ ३ ॥ महाप्रस्थानमासाद्य स्वर्गते तु निशाकरे || मां निर्दहति संतापो तिहुभिर्वृतम् ॥ ४ ॥ उँत्थितां मरणे बुद्धि मुनिवाक्यैर्निवर्तये || बुद्धिर्या तेन मे दत्ता प्राणानां रक्षणाय तु ।। सा मेऽपनयते दुःखं दीप्तेवाग्निशिखा तमः ॥ ५ ॥ बुध्यता च मया वीर्यं रावणस्य दुरात्मनः ॥ पुत्रः संतर्जितो वाग्भिर्न त्राता मैथिली कथम् ॥ ६ ॥ तस्या विलपितं श्रुत्वा तौ च सीताविनाकृतौ ॥ न मे दशरथस्त्रे हात्पुत्रेणोत्पादितं प्रियम् ॥ ७ ॥ तस्य त्वेवं ब्रुवाणस्य संपातेर्वानरैः सह || उत्पेततुस्तदा पक्षौ समक्षं वनचारिणाम् ॥ ८ ॥ स दृष्ट्वा खां तनुं पंक्षैरुद्गतैररुणच्छदैः ॥ प्रहर्षमतुलं लेभे वानरांश्चेदमब्रवीत् ॥ ९ ॥ ऋषेर्निशाकरस्यैव प्रभावादमितात्मनः || आदित्यरश्मिनिर्दग्धों पक्षों में पुनरुस्थितौ ॥ १० ॥ यौवने वर्तमानस्य ममासीद्यः पराक्रमः ॥ तमेवीद्यानुगच्छामि बलं पौरुषमेव च ॥ ११ ॥ सर्वथा क्रियतां यत्नः सीतामधिगमिष्यथ || पक्षलाभो ममायं वः सिद्धिप्रत्ययकारकः ॥ १२ ॥ इत्युक्त्वा सँ हरीन्सर्वान्संपाति: पँतगोत्तमः || उत्पपात गिरेः शृङ्गाजिज्ञासुः खगमो गतिम् ॥ १३॥ तस्य तद्वचनं श्रुत्वा 'प्रीतिसंहृष्टमानसाः || बभूवुर्हरिशार्दूला विक्रमाभ्युदयोन्मुखाः ॥ १४ ॥ एतैरित्यादि || १ - २॥ पूर्व निशाकरमुनिप्रयाणा- | अत: सायं वर्षशतं गतमित्येतदष्टवर्षसहस्रोपलक्षणं अष्टौ वर्षसहस्राणि व्यतीतानीत्युक्तवान् ॥ ३ ॥ वितर्कैः विविधविचारैः ॥ ४-८ ॥ अरुण- ति० मांप्रशस्य भाविदेवकार्यसाधकलेनस्तुत्वा । अभ्यनुज्ञाप्य आमन्त्र्य | शि० अनुज्ञाप्य वृत्तान्तंबोधयितुं नियुज्य ॥ १ ॥ स० देशकालौप्रतीक्षतइति देशकालप्रतीक्षः । कर्मण्यण् । देशकालयोःप्रतीक्षायस्यसइतिवा ॥ ३ ॥ स० महाप्रस्थानं अनिवर्त्य- मार्ग ॥ ति० संताप: पक्षादिहीनजीवनजः ॥ शिo संतापः मुनिवियोगजनितखेदः ॥ ४ ॥ स० निवर्तये क्रियासंबन्धेलट्सा- र्वकालिकइतिसंभवत्यतीतार्थता । न्यवर्तयमितितदर्थः ॥ ५ ॥ ति० रावणस्यवीर्यबुध्यता मत्पुत्रवीर्यादल्पमितिजानता ॥ ६ ॥ स० यद्वा अरुणाश्वतेछदाश्च । तैः । पक्षैः विहायोगमनसहायैः । “ पक्षःसहायेपि " इत्यमरः ॥ ९ ॥ स० निशाकरस्य तन्नामकस्य | राजर्षे: राजासन्नपिऋषिधर्मोपेतइतिसतथा । तस्य । यद्वा निशाकरस्यमुनेः राजर्षेः रामस्यच एतत्पक्षेअमितौजसइ- तिसमुचितार्थे पूर्बार्थेगौणंराजर्षेरित्यपीतिमन्तव्यं । राजभिः पूजितऋषिः राजर्षिस्तस्य । प्रसादात् उपदेशकथाकर्णनजनितात् ॥ १० ॥ ति० गतिंजिज्ञासुः उत्थितपक्षैः प्राग्वत्खगर्तिविज्ञातुमिच्छुः । विक्रमसाध्येऽभ्युदये सीताधिगमनरूपे | उन्मुखाः ॥१४॥ [ पा० ] १ क. एतैश्चान्यैश्च २ ख – ट. र्वाक्यविशारदः. ३ छ. झ. ट. स्वमालयं. ४ क प्रतिलक्षये. ५ ग. छ. विविधैः ६ ङ. १० क. ररुणप्रभैः. ११ ख. घ. – ट. निशाकरस्यराजर्षेः. ग. निशाकरस्यचमुनेः क. निशाकरस्यमहर्षे: १२ ग. ङ. —ट. प्रसादादमितौजसः क. प्रभावादमितौजसः १३ ङ. - ट. पक्षौपुनरुपस्थितौ वाद्यतुगच्छामि. क. वाद्याधिगच्छामि. १५ क. – घ. च. झं. ञ ट तान्हरीन्. संपतिः खगतिस्तदा १८ ग. प्रियसंहृष्ट. ञ. उदितां. ७ ङ. ट. प्राणसंरक्षणेमम. क. ग. घ. प्राणसंरक्षणायतु. ८ झ. संहतैः ९ क. ग. पत्रैः. १४ ग. घ. च. – ट. वाद्यावगच्छामि. ख. १६ क ख घ. पततांवरः १७क.