पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१४ श्रीमद्वाल्मीकि रामायणम् । [ किष्किन्धाकाण्डम् ४ परमान्नं तु वैदेह्या ज्ञात्वा दास्यति वासवः || यदन्नममृतप्रख्यं सुराणामपि दुर्लभम् ॥ ८ ॥ तदनं मैथिली प्राप्य विज्ञायेन्द्रादिदं त्वति || अमुद्धृत्य रामाय भूतले निर्वपिष्यति ॥ ९ ॥ यदि जीवति मे भर्ता लक्ष्मणेन सह प्रभुः ॥ देवत्वं गच्छतोर्वापि तयोरन्नमिदं त्विति ॥ १० ॥ एष्यन्त्यन्वेषकास्तस्या रामदूताः प्लवङ्गमाः || आख्येया रोममहिषी त्वया तेभ्यो विहङ्गम ॥ ११ ॥ सर्वथा हि न गन्तव्यमीदृशः क गमिष्यसि || देशकालौ प्रतीक्षत्र पक्षौ त्वं प्रतिपत्स्यसे ॥ १२ ॥ नोत्सहेयमहं कर्तुमद्यैव त्वां सपक्षकम् ॥ इहस्थस्त्वं तु लोकानां हितं कार्ये करिष्यसि ॥ १३ ॥ त्वयापि खलु तत्कार्यं तयोश्च नृपपुत्रयोः ॥ ब्राह्मणानां सुराणां च मुनीनां वासवस्य च ॥ १४ ॥ इच्छाम्यहमपि द्रष्टुं भ्रातरौ रामलक्ष्मणौ | नेच्छे चिरं धारयितुं प्राणांस्त्यक्ष्ये कलेवरम् ॥ महर्षिस्त्वब्रवीदेवं दृष्टतत्त्वार्थदर्शनः ॥ १५ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे द्विषष्टितमः सर्गः ॥ ६२ ॥ ज्ञात्वा अनशनमितिशेषः ॥ ८-१३ || नृपपुत्रयोः | राजविरचिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने तत्प्रयोजनं त्वयापि कार्य कर्तव्यं । ब्राह्मणादीनां च किष्किन्धाकाण्डव्याख्याने द्विषष्टितमः सर्गः ॥ ६२ ॥ कार्यमिति संबन्धः ॥ १४-१५ ॥ इति श्रीगोविन्द - -- ति० परमान्नं पायसं ॥ वासवोदास्यति | स्वपुरुषद्वारेतिशेषः ॥ इन्द्रात् इन्द्रपुरुषात् नतुरावणपुरुषादिति विज्ञाय अभूतलस्प- शिवादिरूपैर्देवचिहैः । रामआगत्यैनंहत्वात्वांन यिष्यति । संवत्सरतृप्तिकर मिदमन्नंभुक्त्वा देवकार्यसिद्धये मनुष्यभाववृतवत्या प्राणाधर्तव्याः । देवैरपि मनुष्यभावे आहारं विनाजीवितुंनशक्यतेइत्यादिवचनैश्चनिश्चितेत्यर्थः । निर्वपिष्यति दास्यति । ननु त्रेतायाम स्निप्राणवासस्योक्तत्वाज्जीवितुंशक्यत एवेतिचेन्न । तथासत्यपि क्षीणतायां देहवैरूप्ये रावणस्यानुरागभङ्गेन तत्पुण्याक्षये तस्यवधोनस्यादिति रूपलावण्याद्यहानाय तद्दानेनादोषात् । रावणस्यतु तथैवरूपादिदर्शनेन मद्दत्ताहारा ग्रहणेपि वन्यफलाद्याहारं करोतीतिबुद्ध्या तस्यां नामनुष्यत्व निश्चयः । एतेनाहारविनापि पूर्वरूपादिसत्वज्ञानेन तस्य तस्याममनुष्यत्वबुद्धौ तत्संबन्धाद्रामेपि तत्त्वबुद्धौ रामतोरावणवधोनस्यादित्यपास्तं || स० नित्यतृप्तापि वासवसेवांनलङ्घयाञ्चकारेत्याह – परमान्नामति । ज्ञात्वा सेवाभवत्वितिज्ञात्वेतिशेषः । सर्वान्सुपर्वणोविहाय व्यवहारसिद्ध्यै इन्द्रस्य प्रतिकृतिप्रविष्टत्वात् पायसप्रदोवासवइति चोक्तिर्युक्तिमतीति वासवग्रहणेनद्योतयतिकविरित्यवधेयं । सीताप्रतिकृतित्वमात्रतएव सेवेत्यप्यवसेयं । तदन्नंप्राप्य । इन्द्रादितिपञ्चमी हेतौ । इन्द्रहेतुकमिदंदास्यतीतिप्रकृतंदानं विज्ञाय ज्ञात्वा निर्वपिष्यति ॥ ८-९ ॥ ति० उत्सहेयं यदित्वयादेवकार्यायेहस्थातव्यंस्यादिति शेषः । पक्षवत्त्वेहिचापल्यागन्तव्य मेवेतोन्यत्रत्वयेतिभावः ॥ शि० इहस्थस्त्वं लोकानांहितं सीतावृत्तान्तबोधनरूपं । कार्यकरि- ध्यसि । एतेन पक्षप्राप्तौ तवनिश्चलास्थितिर्नभवितेति सूचितं ॥ १३ ॥ ति० दृष्टतत्वार्थदर्शनः दृष्टंसिद्धं तत्वार्थदर्शनं यस्य समह र्षिरेवं भाव्यर्थमब्रवीत् । अतोहेतोरहमपि भ्रातरौरामलक्ष्मणौद्रष्टुमिच्छामि । यदि महर्षिरेवंमांप्रति नावक्ष्यत्तदा प्राणांश्चिरंधार- यितुं नेच्छे नैच्छं । अपितुकलेवरंत्यक्ष्ये इत्येवैच्छमित्यर्थ इतिकतकः । अन्येतु निशाकरवाक्यमेवेदं अहंपदार्थोपिस एवेत्याहुः ॥ १५ ॥ इतिद्विषष्टितमः सर्गः ॥ ६२ ॥ [ पा० ] १ ङ. च. ज.-ट. परमानंच. २ ग. सुराणामति ३ छ. झ. ट. लक्ष्मणोवापिदेवरः . क. ख. भ्रात्रासौमित्रि- णासह. ४ ङ. – ट. एष्यन्तिप्रेषितास्तत्र ५ ग. ङ. च. ज. ञ. रामभार्याहि. ६ क. ख. ग. च. – ट. सर्वथातु. ७ क. ग. – छ. झ. ञ. ट. उत्सहेयमहं. ८ ट. स्त्वंच. झ. स्त्वंहि. ९ क. ग. ङ. च. ज. ज. लोकानामिदं. १० ङ. च. ज. ज. कर्तव्यं. ११ छ. झ. ट. गुरूणांच