सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६२ ] तुल्यः पृथ्वीप्रमाणेन भास्करः प्रतिभाति नौ ॥ १३ ॥ जंटायुर्मामनापृच्छय निपपात महीं तर्तः ॥ तं दृष्ट्वा तूर्णमाकाशादात्मानं मुक्तवानहम् ॥ १४ ॥ पक्षाभ्यां च मया गुप्तो जटायुर्न दह्यते ॥ प्रमादात्तत्र निंर्दग्ध: पतन्वायुपथादहम् ॥ १५ ॥ आशङ्के तं निपतितं जनस्थाने जटायुषम् ॥ अहं तु पतितो विन्ध्ये दग्धपक्षो जडीकृतः ॥ १६ ॥ राज्येन हीनो भ्राता च पक्षाभ्यां विक्रमेण च ॥ सर्वथा मर्तुमेवेच्छन्पतिष्ये शिखरागिरेः ॥ १७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकषष्टितमः सर्गः ॥ ६१ ॥ श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २१३ द्विषष्टितमः सर्गः ॥ ६२ ॥ संपातिना वानरान्प्रति निशाकरेण ध्यानादेष्यत्सीताहरणादिवृत्तान्तपरिज्ञानेन स्वंप्रति पुनःपक्षप्ररोहस्य भविष्यत्वा- भिधानपूर्वकं वानरेभ्यः सीतावृत्तान्तनिवेदनाय स्वस्य देहत्यागप्रतिषेधननिवेदनम् ॥ १ ॥ एवमुक्त्वा मुनीश्रेष्ठमरुदं दुःखितो भृशम् ॥ अथ ध्यात्वा मुहूर्त तु भगवानिदमब्रवीत् ॥ १ ॥ पक्षौ च ते प्रपक्षौ च पुनरन्यौ भविष्यतः ॥ प्राणाच चक्षुषी चैव विक्रमथ बलं च ते ॥ २ ॥ पुराणे सुमहत्कार्य भविष्यति मया श्रुतम् || दृष्टं मे तपसा चैव श्रुत्वा च " विदितं मम ॥ ३ ॥ राजा दशरथो नाम कश्चिदिक्ष्वाकुन्दनः ॥ तस्य पुत्रो महातेजा रामो नाम भविष्यति ॥ ४ ॥ अरण्यं च सह भ्रात्रा लक्ष्मणेन गमिष्यति ॥ अस्मिन्नर्थे नियुक्तः सन्पित्रा सत्यपराक्रमः ॥ ५ ॥ नैऋतो रावणो नाम तस्य भार्या हरिष्यति || राक्षसेन्द्रो जैनस्थानादवध्यः सुरदानवैः ॥ ६ ॥ सौ च कामैः प्रलोभ्यन्ती भक्ष्यैर्भोज्यैश्च मैथिली ॥ न भोक्ष्यति महाभागा 'दुःखे मना यशस्विनी ॥ ७ ॥ चक्षुरिन्द्रियं सन्निवर्त्य स्वेन विप्रयुज्य | भूयो भृशं धक्ष्यतीति बुद्ध्यवधानाभावात् ॥ १५ – १७ ॥ हतं मे मनः महतायत्नेन अस्मिन् चक्षुषि पुनः संधाय इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे महता यत्नेन भूयो रविः समवलोकित इति संबन्ध: मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने एकषष्टि- ॥१२ – १३॥ निपपात महीं महीं प्रति निपपातेत्यर्थः । तमः सर्गः ॥ ६१ ॥ पतन्तं दृष्ट्वा अहमाकाशात् पूर्वाधिष्ठिताकाशप्रदेशात् । आत्मानं तूर्ण मुक्तवान् । जटायुषो रक्षणार्थं तदुपरि अस्मिन्नर्थे अरण्यगमने ॥ १६ ॥ काम्यन्त इति सत्वरमागच्छमित्यर्थः ॥ १४ ॥ प्रमादात् सूर्यो कामैः अपेक्षणीयैः । प्रलोभ्यन्ती प्रलोभ्यमाना ॥७॥ ति० पृथ्व्यत्र जंबूद्वीपावच्छिन्नाबोध्या ॥ १३ ॥ इत्येकषष्टितमः सर्गः ॥ ६१ ॥ ति० पक्षप्रपक्षौ सूक्ष्मपक्षमहापक्षौ ॥ प्राणाः पुष्टप्राणाः । चक्षुषी उद्धृतशक्तिके ॥२॥ ति० पुराणे नारदादिभिरुच्यमानेभ- विष्यरामचरितरूपेपुराणे ॥ श्रुत्वाविदितं तपसादृष्टंच ॥३॥ स० ॥ सुरदानवैः सुरैस्सहितादानवास्तैः । एतेन " येषां च विरोध: शाश्वतिकः” इत्येकवद्भावाभावः कथमितिनिरस्तं ॥ ६ ॥ स० प्रलोभ्यन्ती प्रलोभ्यमाना । प्रलोभयितुंयोग्याःप्रलोभ्याः तद्वदाचरन्ती | वस्तुतस्तु नप्रलोभनीयेत्यर्थः । अदुःखमन्ना भोज्याभावप्रयोज्यदुःखरहिता । नित्यतृप्तत्वात्तस्यदुरन्नत्वाद्वा- sभोजनमितिमन्तव्यं । भोक्ष्यति भोक्ष्यते ॥ ७॥ [ पा० ] १ घ. मनांदृत्य २ च. ज. प्रति ३ ख. घ. पक्षाभ्यांतु. ४ क. ङ. ट. प्रदयत. ५ क. अहंनिपतितो. ६ क. ग. ङ. —ट. राज्याच. ७ छ. झ ट भृशदुःखितः ८ ङ. च. छ. ञ. ट. मुहूर्तेच. ९ ख. घ. छ. झ. ट. चक्षुषी चैवप्राणाश्च. क. चक्षुषीचैवतेप्राणा: १० क. विदितंभया ११ छ. झ ट वर्धनः १२ ख. र. तस्मिन्नर्थे. १३ ख. छ. झ ट जनस्थानेअवध्यः १४ क. साचप्रलोभितातेन १५ छ. झ. दुःखभग्ना. क. – च ज ञ ट दुःखमना.