पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१८ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ पञ्चषष्टितमः सर्गः ॥६५॥ अङ्गदचोदनया गजादिजांबवदन्तयूथपेषु एकैकेनोत्तरोत्तरं दशयोजनाधिक्यक्रमेण दशयोजना दिनवतियोजनपर्यन्तं लवने स्वस्वशक्तिनिवेदनम् ॥ १ ॥ अङ्गदेन जांववन्तंप्रति स्वस्य शतयोजनप्लवनेपि शक्तिनिवेदनपूर्वकं प्रतिनिवर्तनेश- क्सिंदेहकथनम् ॥ २ ॥ अङ्गदंप्रति जांबवता लौकिकरीत्यनुसारेण प्रतिनिवर्तनादिषु शक्तिकथनेन प्रशंसनपूर्वकं तस्य स्वामित्वोत्तया भृत्यकार्येप्रयतनस्यानौचित्योक्तिः ॥ ३ ॥ अङ्गदेन जांबवन्तंप्रति गस्यन्तराभावैनपुनःप्रायोपवेशनस्यैव शर- णीकरणीयत्वोक्तिपूर्वकं प्रकृतकार्यसि ड्युपायचिन्तनप्रार्थने तेन तंप्रति तदङ्गीकारेण हनुमतश्चोदना ॥ ४ ॥ `ततोङ्गदवचः श्रुत्वा सेर्वे ते बानरोत्तमाः ॥ स्वं स्वं गतौ समुत्साहमाहुस्तंत्र यथाक्रमम् ॥ १ ॥ गजो गवाक्षो गवयः शरभो गन्धमादनः ॥ मैन्दव द्विविदश्चैव सुषेणो जांबवांस्तथा ॥ २ ॥ आषभाषे गजस्तत्र प्लवेयं दशयोजनम् || गवाक्षो योजनान्याह गमिष्यामीति विंशतिम् ॥ ३ ॥ गवयो वानरस्तत्र वानरांस्तानुवाच ह || त्रिंशतं तु गमिष्यामि योजनानां प्लवङ्गमाः ॥ ४ ॥ शरभस्तानुवाचाथ वानरान्वानरर्षभः ॥ चत्वारिंशद्गमिष्यामि योजनानां वङ्गमाः ॥ ५॥ वानरस्तु महातेजा अब्रवीद्वन्धमादनः ॥ योजनानां गमिष्यामि पञ्चाशत्तु न संशयः ॥ ६ ॥ मैन्दस्तु वानरस्तत्र वानरांस्तानुवाच ह ॥ योजनानां परं षष्टिमहं विमुत्सहे ॥ ७॥ ततस्तत्र महातेजा द्विविदः प्रत्यभाषत ॥ गमिष्यामि न संदेहः सप्ततिं योजनान्यहम् ॥ ८ ॥ सुषेणस्तु हॅरिश्रेष्ठः प्रोक्तवान्कपिसत्तमान् || अशीतिं योजनानां तु प्लवेयं प्लवगेश्वराः ॥ ९ ॥ तेषां कथयतां तत्र सर्वोस्ताननुमान्य च ॥ ततो वृद्धतमस्तेषां जांबवान्प्रत्यभाषत ॥ १० ॥ पूर्वमस्माकमप्यासीत्कश्चिद्गतिपराक्रमः ॥ ते वयं वयसः पारमनुप्राप्ताः स सांप्रतम् ॥ ११ ॥ किंतु नैवं गते शक्यमिदं कार्यमुपेक्षितुम् ॥ यदर्थ कपिराजश्व रामच कृतनिश्चय ॥ १२ ॥ सांप्रत कालभेदेन या गतिस्तां निबोधत ॥ नवति योजनानां तु गमिष्यामि न संशयः ॥ १३ ॥ 'तांस्तु सर्वान्हरिश्रेष्ठाञ्जाम्बवान्पुनरब्रवीत् || न खल्वतावदेवासीगमने मे पराक्रमः ॥ १४ ॥ गतौ गमनविषये । यद्यपि गजादयोपि शतयोज- | इति पूर्वमङ्गदोक्तेश्च । तथापि रावणाधिष्ठितलङ्काप्रवे - नलङ्घने शक्ताः । “भूतले सागरे वापि शैलेषु च वनेषु शसीतान्वेषणादिकं दुष्करमन्येनेति तत्साधकहनुम- च । पातालस्यापिमध्ये वा न ममाच्छिद्यते गति: " इति सुप्रीवसंनिधौ वानरयूथपैः स्वस्वशक्तेः ख्यापितत्वात् । त्प्रोत्साहनाय तथोक्तवन्त इति ध्येयम् ॥ १–९॥ “ नहिवो गमने सङ्गः कदाचित्कस्यचित्कचित् " तेषां कथयतां तेषु कथयत्सु सत्सु ॥ १०–१४॥ स० विंशति॑ियोजनानि । “ विंशत्याद्याः सदैकले ” इत्यमरादेकवचनोपपत्तिः । एवमुत्तरत्रापिज्ञेयं ॥ ३ ॥ स० तेषांकथ- यतांसतां । तेषामिति निर्धारणेषष्ठी । तेषांवृद्धतमइति तेषांद्वयस्यान्वयः ॥ १ ॥ स० वयमिति । यद्यपि “अस्मदोद्वयोश्च” इस त्रसविशेषणत्वेतुप्रतिषेधइति बहुवचनप्रतिषेधोस्ति । तथापि विधेय विशेषणतावरणेन “ शैवावयं – पञ्चाक्षरीजपपराः " इत्या- [ पा० ] १ छ. झ. ट. अथाङ्गदवचः ख. तदाङ्गदवचः क. अङ्गदस्यवचः २ ङ. – ट. तेसर्वेवानरर्षभाः. ३ ङ–ट. मूचुस्तत्र. ४ ङ. — ज. ज. त्रिंशत्तुच. ५ क. – घ. छ. झ. ट. शरभोवानरस्तत्र वानरांस्तानुवाचह. ६ ङ. - ट. नसंशयः. ७ छ. झ झ वानरांस्तु क. वानरांस्तान्महा ८ छ. झ. ट. महातेजाः सत्ववान्कपिसत्तमः• ङ च ज ञ महातेजाः प्रोक्तवान्क- पिसत्तमः क. ग. हरिश्रेष्ठः प्रोक्तवान्हरिसत्तमः. ९ ख. छ. झ ट प्रतिजानेहंयोजनानांपराक्रमे १० ग. ङ. च. ज. ज. वानर्षभाः . क. घ. प्लवगोत्तमाः ११ ङ. ज. ञ वृद्धतरस्तेषां. ग. घ. वृद्धतमस्तत्र १२ छ. झ ट सांप्रतंकालमस्माकं. ज. संप्राप्ता का लभेदेन. १३ क.ट. तांच. १४ ख. घ. कपिश्रेष्ठान. १५ क. छ. झ. ट. खांबवानिदमब्रवीत्.