पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६० ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । २११ हृष्टपक्षिगणाकीर्णः कैन्दरान्तरकूटवान् || दक्षिणस्योदधेस्तीरे विन्ध्योऽयमिति निश्चयः ॥ ७॥ आसीच्चा त्राश्रमं पुण्यं सुरैरपि सुपूजितम् ऋषिर्निशाकरो नाम यस्मिन्नुग्रता भवत् || ८ || अष्टौ वर्षसहस्राणि ते नासिनृषिणा विना || वसतो मम धर्मज्ञाः स्वर्गते तु निशाकरे ॥ ९ ॥ अवतीर्य च विन्ध्याग्रात्कृच्छ्रेण विषमाच्छनैः ॥ तीक्ष्णदर्भी वसुमती दुःखेन पुनरागतः ॥ १० ॥ तमृषिं द्रष्टुकामोमि दुःखेनाभ्यागतो भृशम् ॥ जटायुषा मया चैवँ बहुशोधिगतो हि सः ॥ ११॥ तस्याश्रमपदाभ्याशे वर्वाताः सुगन्धिनः ॥ वृक्षो वाऽपुष्पितः कश्चिदफलो वा न विद्यते ||१२|| उपेत्य चाश्रमं पुण्यं वृक्षमूलमुपाश्रितः || द्रष्टुकाम: प्रतीक्षेहं भगवन्तं निशाकरम् ॥ १३ ॥ अंथापश्यमदूरस्थमृषि ज्वलिततेजसम् || कृताभिषेकं दुर्धर्षमुपावृत्तमुदङ्मुखम् ।। १४ ।। तमृक्षाः सृमरा व्याघ्राः सिंहा नौगा: सरीसृपाः ॥ परिवार्योपगच्छन्ति धातारं प्राणिनो यथा ||१५|| ततः प्राप्तमृषिं ज्ञात्वा तानि सत्वानि वै ययुः ॥ प्रविष्टे राजनि यथा सर्व सामात्यकं बलम् ॥१६॥ वै ऋषिस्तु दृष्ट्वा 'मैं प्रीतः प्रविष्टश्याश्रमं पुनः ॥ मुहूर्तमात्रान्निष्म्य ततः कार्यमपृच्छत ॥ १७ ॥ सौम्य वैकल्यतां दृष्ट्वा रोम्णां ते नावगम्यते || अग्निदग्धाविमौ पक्षौ त्वक्चैव व्रणिता तव ||१८|| गृध्रौ द्वौ दृष्टपूर्वी मे मातरिश्वसमौ जवे || गृध्राणां चैव राजानौ आतारौ कामरूपिणौ ॥ १९ ॥ 'ज्येष्ठो हि त्वं तु संपाते जटायुरनुजस्तव || मानुषं रूपमास्थाय गृह्णीतां चरणौ मम ॥ २० ॥ किं ते व्याधिसमुत्थानं पक्षयोः पतनं कथम् ॥ दण्डो वायं कृतः केन सर्वमाख्याहि पृच्छतः ॥२१॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे षष्टितमः सर्गः ॥ ६० ॥ निश्चयः अभूदिति शेषः ॥ ७॥ भवत् अभवत् ॥ ८ ॥ | दृष्ट्वा नावगम्यते | स्वरूपमिति शेषः । रोमविकलत्वहे- वर्षसहस्राणि गतानीति शेषः ।।९ – १७|| विकल एव तुः – अग्निदग्धाविति । दृश्येते इति शेषः । व्रणितेत्यत्र वैकल्यं । चातुर्वर्ण्यादित्वात् स्वार्थे ष्यञ् । तस्य भावो दृश्यत इति शेषः ||१८ – २१॥ इति श्रीगोविन्दराज- वैकल्यता । व्रणिता संजातव्रणा | ते नावगम्यत इ- विरचिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने कि- त्यत्र त इति भिन्नं पदं। हे सौम्य ते रोम्णां वैकल्यतां ष्किन्धाकाण्डव्याख्याने षष्टितमः सर्गः ॥ ६० ॥ ति० कन्दराण्युदरेयस्य सचासौकूटवान् शृङ्गवान् ॥ ७ ॥ स० आश्रमं आश्रमः | "आश्रमोखी" इत्यमरः । उमतपेतिलुप्त- प्रथमाकप्रातिपदिकनिर्देशः । आगमशासनस्यानित्यवादडभावोवा संधिरार्षइतिवा । अथवा सुरैरपिपूजितं भवत्सत् आश्रममासी- दित्यन्वयः । उप्रतपाऋषिर्यस्मिन्नासीदित्यावृत्त्यान्वयः ॥ ८ ॥ ति० तमृषिंद्रष्टुकामोस्मि द्रष्टुकामोऽभूवमित्यर्थः । अतएवदुःखेन तदभ्याशमभ्यागतः । ननुतद्वासोत्रे तित्वयाकथंज्ञातमतआह-जटायुषेति । अधिगतः प्राप्तः सेवितइत्यर्थः ॥ ११ ॥ स० सुग न्धिनः गन्धएषामस्तितेगन्धिनः । शोभनाश्चतेगन्धिनश्चेतिविग्रहः | योग्यतयाशोभनलंगन्धेज्ञेयं । एतेन कथमनित्यत्वंकर्मधारयाद्वे निरितिशङ्काद्वयंपरास्तं ॥ १२ ॥ ति० उदयुखमुपावृत्तं समुद्रस्नात्वोदच्युखतयाप्रत्यावृत्तं ॥ १४ ॥ ति० तस्य स्वसेवायोग्यल- प्रदर्शनायतिर्यंग्योनिसेव्यत्वं तपोमहिमजंदर्शयति-तमृक्षाइति ॥ ती० धातारं पोषकं ययुः प्रापुः ॥ १५ ॥ ति० शरीरके अल्पेशरीरे ॥ प्राणाः चाद्विक्रमबलेअपि । तेदग्धकल्पाः ॥ १८ ॥ ति० अवितः ज्ञातः ॥ २० ॥ ती० किं कीदृशं | व्याधि- समुत्थानं षष्ठीतत्पुरुषः । अयंदण्डोव्रणकरःप्रहारः खेनधृतः केनकृतः । स० अथवा व्याधेः समुत्थानंयस्मात्तत् रोगकारणं । अयं दण्डः पक्षक्षतिरूपः ॥ २१ ॥ इतिषष्टितमः सर्ग ॥ ६० ॥ [ पा० ] १ ङ. च. छ. झ ञ ट . कन्दरोदरकूटवान्. २ क. ख. ग. ङ. – ट. निश्चितः ३ ङ. च. छ. श. ञ. ट. गिरौ. ग. वने. ४ च. – ट. धर्मज्ञे. ५ ग. अवतीर्यतु. ६ ख. चापि . ७ क. - घ. च. छ. झ ञ ट नापुष्पितः ८ ग० दफलोत्र. ९ क. – ट. दृश्यते. १० क. – ट. प्रतीक्षेच. ११ ग. छ. ज झ ट अथपश्यामिदूरस्थं ङ. अथापश्य महंरम्यं. १२ क. ङ. छ. झ ञ ट. नानासरीसृपाः १३ ख. ग. ड. छ.ट. दातारं. १४ क. ग. ङ. च. छ. झ ञ ट मांतुष्ट: ख मांतत्र. १५ ङ. च. छ. झ. ञ.ट. निर्गम्य. १६ ङ. -ट. पक्षौप्राणाश्चापिशरीरके १७ क. ङ. द्वौगृध्रौ १८ छ. झ. ट. ज्येष्ठोऽवितस्त्वं. ङ. ञ. ज्येष्ठस्त्वंतुस. १९ क. ख. वपुरास्थाय. २० क. दण्डोयंवा. घ. दग्धोवायं. २१ ख. छ. झ. ट. धृतः. घ. हृतः,