पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१० श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ 'ते भवन्तो मतिश्रेष्ठा बलवन्तो मैनस्विनः ॥ प्रेषिताः कपिराजेन देवैरपि दुरासदाः ॥ २६ ॥ रामलक्ष्मणबाणाञ्च निर्शिताः कङ्कपत्रिणः ॥ त्रयाणामपि लोकानां पर्याप्तास्त्राणनिग्रहे ॥ २७ ॥ कामं खलु दशग्रीवस्तेजोबलसमन्वितः ॥ भवतां तु समर्थानां न किंचिदपि दुष्करम् ॥ २८ ॥ तदलं कालसङ्गेन क्रियता बुद्धिनिश्रयः ॥ न हि कर्मसु सज्जन्ते बुद्धिमन्तो भवद्विधाः ॥ २९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकोनषष्टितमः सर्गः ॥ ५९ ॥ षष्टितमः सर्गः ॥ ६० ॥ अङ्गदादीन्प्रतिसंपातिना स्वस्य सीतावृत्तान्तपरिज्ञानकारणनिवेदनारंभः ॥ १ ॥ सूर्यकिरणनिर्दग्धपक्षतया मोहाद्विन्ध्य- शिखरेपतितेन षडात्रानन्तरं मोहादुत्तीर्णेनसंपातिना तस्यदेशस्य विन्ध्यगिरित्वप्रत्यभिज्ञानम् ॥ २ ॥ ततो गिरिशिखरा- कथंचिञ्चिरपरिचितस्य निशाकरना नोमहर्षेराश्रममवतीर्य तच्चरणप्रणामिनं संपातिंप्रति महर्षिणा दग्धपक्षतया कथंचि- संपातित्व प्रत्यभिज्ञानेन तत्पक्षदाहहेतुप्रश्नः ॥ ३ ॥ 99 ततः कृतोदकं स्नातं तं गृध्रं हरियूथपाः || उपविष्टा गिरौ दुर्गे परिवार्य समन्ततः ॥ १ ॥ तमङ्गदमुपासीनं तैः सर्वैर्हरिभिर्वृतम् ॥ जनितप्रत्ययो हर्षात्संपाति: पुनरब्रवीत् ॥ २॥ कृत्वा निःशब्दमेकाग्राः शृण्वन्तु हरयो मम || तत्त्वं संकीर्तयिष्यामि यथा जानामि " मैथिलीम् ॥३॥ अस्य विन्ध्यस्य शिखरे पतितोसि पुरा वने ॥ सूर्यातपपरीताङ्गो निर्दग्धः सूर्यरश्मिभिः ॥ ४ ॥ लब्धसंज्ञस्तु षड्रात्राद्विवशो विह्वलन्भिव || वीक्षमाणो दिश: सर्वा नाभिजानामि किंचन ॥ ५ ॥ ततस्तु सागरान्शैलानदीः सर्वाः सरांसि च ॥ वैनान्युदधिवेलां च सैंमीक्ष्य मतिरागमत् ॥ ६ ॥ ततः कृतोदकमित्यादि ॥ १ ॥ जनितप्रत्ययः जनि- इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे तविश्वासो यथा भवति तथाऽब्रवीदितियोजना । मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने एकोन- वानरदर्शनरूपस्वकार्यतो जनितविश्वास इत्यर्थ: षष्टितमः सर्गः ॥ ५९ ॥ ॥ २५-२८ ॥ कालसङ्गेन कालविलम्बेन ॥ २९ ॥ ॥ २–४ ॥ विह्वलन्निव मूर्च्छन्निव ॥ ५ - ६ ॥ स० कपिराजेन सुग्रीवेण । प्रहिताः प्रेषिताः । देवैरपिदुरासदाः । अतोमनस्विनः सीतान्वेषणमानसाः । भवतेतिशेषः ॥२६॥ स० निशिताः शाणोल्लीढाः । विहिताइतिपाठेदधातेर्हिरिति हौ विहिताः कृताइत्यर्थः । विहिताः विशिष्टहितकराः विगतहिताश्च । साध्वसाधूनामितिवा । त्राणेनस हितोनिग्रहः त्राण निग्रहः तस्मिन् । यद्वा त्रयाणांलोकानांमध्येविहिताः द्वेषिणः लोकानामित्यावर्तते । तेषांत्राणनिग्रहेपर्याप्ताः त्राणनिरोधेसमर्थाइतिवा ॥२७॥ स० भवतांतुसमर्थाना मित्यत्र तुशब्देन स्वयं समर्थानां तत्रापिरामानुगृही- तानांदुष्करंनेतिविशेषंयोतयति ॥२८॥ ति० सज्जन्ते अलसाभवन्ति ॥ शि० बुद्धिनिश्चयः । बुद्धिजनित निश्चय विशिष्टः सीता- दर्शनोद्योगइल्यर्थः ॥ क्रियतां । कालसङ्गेन कालविलंबेन | अलंनक्रियतामित्यर्थः ॥ २९ ॥ इत्येकोनषष्टितमः सर्गः ॥ ५९ ॥ । शि० कृतंउदकं उदकक्रिया येनतं ॥ १ ॥ ती० जनितप्रत्ययः निशाकरमुनिनोक्तप्रकारेण रामदूतवानरागमनदर्शनात्प- क्षप्ररोहाञ्च निशाकरोक्तार्थेजनितविश्वासः ॥ २ ॥ स० निश्शब्दंकृत्वा न विद्यतेशब्दोयस्मिंस्तन्निशब्दकरणं । तदुत्तरकालः क्वाप्रत्ययार्थः । ततश्चाशब्दाभिन्नकरणानन्तरकरणाश्रया भवन्तोभवन्विति ॥ ती० स्ववृत्तान्तकथनं सीतावृत्तान्त कथनोपयु- 'तमितिद्योतयितुं यथाजानामिमैथिलीमित्युक्तं ॥ ३ ॥ स० कपिप्रवरत्वेनानघेल्यङ्गदमात्रसंबोधनं युक्तं ॥ ४ ॥ ति० विह्वलन्निव परमार्तएवसन् ॥ ५ ॥ रामानु० सागरानित्यत्र सागरमित्यर्थः । विन्ध्यप्रदेशपतितस्य सकलसागरदर्शनस्यानुपपन्नत्वात् । मतिः प्रत्यभिज्ञा ॥ ६॥ [ पा० ] १ क. ग. ङ.―ट. तद्भवतो. २ ट, यशस्विनः ३ क. – घ. सहिताः ङ. – ट. प्रहिताः ४ च. ज. बाणाहि. ५ ङ. - ज. ज. ट. विहिताः• ६ ग. पर्याप्ताः शत्रु निग्रहे ७ ङ च ज ञ. गृधंच. ग. गृधंतं. ८ ग. हरिपुङ्गवाः ९ ङ. – ट. रम्ये. १० ङ. - ट तथ्यं. ११ ख जानकीं. १२ ख. अहं. १३ छ. झ.ट. पुराऽनघ. क. महावने. १४ ग. ङ. ट. सूर्यतापपरीताङ्गः १५ ङ. च. ज. न. वनान्यपिचदेशांश्च. छ. झ. ट. वनानिचप्रदेशांश्च १६ ङ. – ट, निरीक्ष्यमतिरागता. 1