सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५९ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २०९ सोहमभ्यवहारार्थी तौ दृष्ट्वा कृतनिश्रयः ॥ तेन साम्ना विनीतेन पन्थानमैभियाचितः ॥ १६ ॥ नै हि सामोपपन्नानां प्रहर्ता विद्यते कंचित् || नीचेष्वपि जनः कश्चित्किमङ्ग बत मद्विधः ॥ १७॥ स यातस्तेजसा व्योम संक्षिपन्निव वेगतः ॥ अथाहं खचरैर्भूतैरभिगम्य सभाजितः ॥ १८ ॥ दिष्ट्या जीवँसि तातेति ह्यब्रुवन्मां महर्षयः ॥ कथंचित्सकलत्रो सौ गतस्ते स्वस्त्यसंशयम् || एवमुक्तस्ततोऽहं तैः सिद्धैः परमशोभनैः ॥ १९ ॥ सच मे रावणो राजा रक्षसां प्रतिवेदितः || हेरन्दाशरथेर्भाय रामस्य जनकात्मजाम् ॥ २० ॥ भ्रष्टाभरण कौशेयां शोकंवेगपराजिताम् || रामलक्ष्मणयोर्नाम क्रोशंन्तीं मुक्तमूर्धजाम् ॥ २१ ॥ एष कालाव्ययस्तावदिति कौलविदां वरः ॥ एतमर्थ समग्रं मे सुपार्श्वः प्रत्यवेदयत् ॥ २२ ॥ तच्छ्रुत्वाऽपि हि मे बुद्धिर्नासीत्काचित्पराक्रमे ॥ अँपक्षो हि कथं पक्षी कर्म किंचिदुपक्रमे ॥ २३ ॥ यत्तु शक्यं मया कर्तुं वाम्बुद्धिगुणवर्तिना ॥ श्रूयतां तत्प्रवक्ष्यामि भवतां पौरुषाश्रयम् ॥ २४ ॥ वाङ्मतिभ्यां तु सर्वेषां करिष्यामि प्रियं हि वः ॥ यद्धि दाशरथेः कार्य मम तन्नात्र संशयः ॥२५॥ ताः । बभूवुरिति शेषः ॥ १–१७ ॥ सभाजितः | प्रतिवेदितः ज्ञातः । सुपार्श्ववचनमिदं ॥ २० - २१ ॥ पूजितः ॥ १८ ॥ असौ सकलन : सरक्ष्यवर्गः । अतः कालात्यय: कालातिक्रमहेतुः । रावणदर्शनमितिभावः कथंचित् गतः । अतस्ते स्वस्त्यासीत् असंशयं । इति ॥ २२ – २४ ॥ सर्वेषां वः युष्माकं । वाङ्मतिभ्यां मां महर्षयोऽब्रुवन्नितियोजना ॥ १९ ॥ मेमया । प्रियं करिष्यामि हि । दाशरथेर्यत्कार्य तन्ममैव इदं वक्ष्यमाणं । वचनमब्रवीत् ॥ १२ ॥ ति० तौस्त्रीपुरुषौ । कृतनिश्चयः इमावेव हत्वा पितुरभ्यवहारार्थंनेष्यामीति कृतनिश्च- यइत्यर्थः । ततस्तेन विनीतेनसता सानैव पन्थानमभियाचितोस्मि । अतएवासौत्यक्तइतिशेषः ॥ १६ ॥ ति० दिष्ट्याजीवति सीतेतिपाठः । दिष्ट्यासीता त्वदृष्टिपथंप्राप्ता जीवतिस्म । त्वया तद्धननस्येषत्करत्वात् । एवं पूजयित्वा मांमहर्षयोऽब्रुवन् । असौत्वयादृष्टः पुरुषः सकलत्रः कथंचित्कुशलीगतः । अतोसंशयंतेस्वस्त्यस्तु इतिकतकः । अन्येतु दिष्टयाजीवसितातेतिपाठः । हेतात त्वंदिष्टया रावणंप्राप्यापि जीवसीत्यब्रुवन् । यतोसौ सकलत्रः अतोसंशयं त्वां संशयमप्रापय्य गतः अतस्ते स्वस्तिजात- मित्यर्थमाहुः ॥ स० हेतात वत्स असौ स्वस्ति क्षेमेण । कथंचित्रामोपेक्षितः गतः अधुनाऽध्वनिवर्ततइत्याहुः । सकलत्रइति । कलत्रेण दुर्गस्थानेनलङ्कयासहितः सकलन्त्रः । अभूदितिशेषः । कथंचित्रावणेनायुध्यतेतिवा । त्वंजीवसीतिमांप्रतिमहर्षयोऽब्रुवन् । इति अब्रुवन्नित्येतत्सदृशाद्यसंहित निर्देशाः विवक्षाभावात्साधवोज्ञेयाः । यद्वा कथंचित्सकलत्रः तेनखेनैवकलत्रत्वे संमततत्कइत्यर्थो- लभ्यते । 'उभयथापि महर्षयः' ' सिद्धैः परमशोभनैः ' इत्यत्रोत्तरत्रचोक्तर्वक्ष्यमाणत्वान्महत्त्वादिमतांकथमेतेषांसीतायांरावणक- लत्रत्वबुद्धिः परबोधनंचकथमिति निरस्तं ॥ “ कलत्रंश्रोणिभार्ययोः । दुर्गस्थानेनृपादीनां " इतिविश्वः ॥ १९ ॥ ति० अतोऽहं भ्रष्टाभरणत्वादिगुणांरामभायपश्यन् स्थितइत्येषतावन्मेकालात्ययः कालातिपातहेतुरितिसमग्रंएतदर्थेवाक्यविदांवरःसुपार्श्वः मेप्र- त्यवेदयत् ॥ २१ – २२॥ स० पराक्रमंश्रुतवतोपिते कुतोनपराक्रमे मतिरुदितेत्यतआह— अपक्षइति । पूर्वपक्षी इदानीमपक्षो हि यतः कथंचित्कर्मसमारभे प्रारंभंकुर्यो । आरभेदितिपाठे पारोक्षिकयुक्तिरितिमन्तव्यं । परस्मैपदितातु चान्द्री ॥ २३ ॥ स० वाग्बुद्धिगुणवर्तिना वाक्कबुद्धिश्चतयोर्गुणायेषांते आर्याः ताननुवर्तितुंशीलमस्यास्तीति सतथा । तेनमयाकर्तुयच्छक्यं तत्रतत् श्रूयतां । पौरुषाश्रयं पौरुषस्यपराक्रमस्यआश्रयोयस्मिंस्तत् । यद्वा वाग्बुद्धिगुणवर्तिना वाग्बुद्धिहेतुकोगुणउपकारः तन्मात्रानुवर्ति- ना । शि० वाग्बुद्धिगुणवर्तिना वचसाबुद्धिगुणेन समीचीनोपदेशादिनाचवर्तनशीलेनमया ॥ २४ ॥ [ पा० ] १ ग. ङ. छ. झ ञ ट . मभ्यवहारार्थ. २ ङ. – ट. मनुयाचितः ३ ङ. च. ज. अ. नच. ४ ङ. ट. भुवि. ५ क. —ट. वेगितः. ६ क. ग. झ.ट. खेचरैः. ७ क. ङ. छ. ट. जीवतिसीतेति. ८ क. ङ. च. छ. झ ञ ट . अब्रुवन् ९ छ. झ. ज. ट. पश्यन्दाशरथे. १० च. सीतांशोकपरायणां. ज. सीतांशोकपराजितां ११ ख. विक्रोशन्तींमुहुर्मुहुः १२ छ. झ. ट. स्तातइति. च. ज. स्तावद्विद्धि १३ क. ग. झ ञ ट . वाक्यविदांवरः. छ. वाक्यविशारदः १४ क. -ट. एतदर्थे. १५ क, पुत्रेणोक्तंवनौकसः १६ ख. घ. अपक्षोहं. १७ ङ. छ. झ ञ ट किंचित्समारभेत् च. ज. किंचित्समारभे. १८ ग, कामंमयाशक्यं. १९ ख वशवर्तिना. २० क. ङ. -ट, हिसर्वेषां वा. रा. १४६