पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकि रामायणम् । [ किष्किन्धाकाण्डम् ४ जाम्बवान्वानरश्रेष्ठः सह सर्वैः प्लवङ्गमैः ॥ भूतलात्संहसोत्थाय गृध्रराजमथाब्रवीत् ॥ २ ॥ व सीता केन वा दृष्टा को वा हैरति मैथिलीम् ॥ तदाख्यातु भवान्सर्वं गतिर्भव वनौकसाम् ||३|| को दाशरथिबाणानां वज्रवेगनिपातिनाम् || स्वयं लक्ष्मणमुक्तानां न चिन्तयति विक्रमम् ।। ४ ।। से हरीन्प्रीतिसंयुक्ता सीताश्रुतिसमाहितान् || पुनराश्वासयन्त्रीत इदं वचनमब्रवीत् ॥ ५ ॥ श्रूयतामिह वैदेह्या यथा मे हरणं श्रुतम् ॥ येन चापि ममाख्यातं यत्र वाँऽऽयतलोचना ॥ ६ ॥ अहमसिन्गिरौ दुर्गे बहुयोजनमायते || चिरान्निपतितो वृद्धः क्षीणप्राणपराक्रमः ॥ ७ ॥ तं मामेवं गतं पुत्रः सुपार्श्वो नाम नामतः ॥ आहारेण यथाकालं बिभर्ति पततां वरः ॥ ८ ॥ तीक्ष्णकामास्तु गन्धर्वास्तीक्ष्णकोपा भुजङ्गमाः ॥ मृगाणां तु भयं तीक्ष्णं ततस्तीक्ष्णक्षुधा वयम् ॥९॥ स कदाचित्क्षुधार्तस्य ममाहाराभिकाङ्क्षिणः ॥ गंतसूर्येऽहनि प्राप्तो मम पुत्रो ह्यनामिषः ।। १० ।। स मया वृद्धभावाच्च कोपाच्च परिभत्सितः ॥ क्षुत्पिपासापरीतेन कुमारः पततां वरः ॥ ११ ॥ सं मामाहारसंरोधात्पीडितं प्रीतिवर्धनः ॥ अनुमान्य यथातत्वमिदं वचनमब्रवीत् ॥ १२ ॥ अहं तात यथाकालममिषार्थी खमाप्लुतः || महेन्द्रस्य गिरेद्वारमावृत्य च समास्थितः ॥ १३ ॥ ततः सत्त्वसहस्राणां सागरान्तरचारिणाम् || पन्थानमेकोऽध्यवसं सन्निरोद्धुमवाङ्मुखः ॥ १४ ॥ तत्र कश्चिन्मया दृष्टः सूर्योदय समप्रभाम् || स्त्रियँमादाय गच्छन्वै भिन्नाञ्जनचर्येप्रभः ॥ १५ ॥ घट्टनात् पूर्वोक्तार्थविरोधस्फोरकत्वाच्च । तथापि ते | व्याख्यास्यन्ते -- तत इत्यादि || हृष्टाः रोमाञ्चाञ्चि- वदता उ इतिपदं | यस्यगृध्रराजस्य वदता वाग्मिता । ततः तेनगृध्रराजेनभाषितंवचः निशम्य तेल्लवगर्षभाः हृष्टाः | उ विस्म- यइत्यर्थः । प्रायः प्रायोपवेशिनांहर्षोत्कर्षःक्वापिनावलोकित इतिदैव गतिर्विचित्रेति विसिस्मिरे इतिभावः । यद्वा वदतेतितृतीयैकव- चनं गृध्रराजपदेनान्वेति । निशम्यतत्रसंहृष्टाइतिपाठे नायासः | चदतइतिपदेवा वदशब्दात्तृतीयान्तात्तसिः । तस्य गृध्रराजे- मेत्यनेनान्वयः । वदतइति षष्ठीशेषेसती तृतीयार्थेवा ॥ १ ॥ ति० अब्रवीत् लङ्कायांसीतादर्शनं त्वदेकसाक्षिकमन्यसाक्षिकम- पिवेतिदार्ढ्यायापृच्छदित्यर्थः । भूतलादुत्थाय प्रायोपवेशत्यक्त्वेत्यर्थः ॥ शि० वानरश्रेष्ठः वानरेभ्योऽधिकवयस्कः । गृध्ररा- जानं समासान्त विधेरनित्यत्वादृजभावः ॥२॥ रामानु० अथजांबवान् लूनपक्षः कन्दरान्तर्गतःसन्संपातिदूरवृत्तं सीतापहरणादिकं केनप्रकारेणावगतवानिति मला विशेषतोऽवगन्तुंपृच्छति - वसीतेत्यादिना ॥ वि० सीतांकोहरतिस्म । ह्रियमाणाच केनदृष्टा स्वयाऽन्येनापिवा । हृताचं क्ववावर्तते इतिसर्वे भवानाख्यातु । सामान्यतः श्रुत्वा प्रायोपवेशादुत्थितानां विशिष्यवदलित्यर्थः ॥ ३ ॥ स० सीताप्रतिकृर्तिनेताऽनङ्ग स्मरणइत्याह — कइति । स्वयमिति दाशरथिबाणपदेनेव लक्ष्मणमुक्तपदेनाप्यन्वेति ॥ स्वयंदाशरथिः स्वेच्छयैव दाशरथिर्दशरथापत्यँरामः | तस्य बाणानामित्यत्रैवान्वयोवा । यद्वा दार्शरथिंपदेन रामरामानुजयोर्ब्रहणं । स्वयंलक्ष्मणमुक्तानांस्वयंलक्ष्मणं स्वस्वनाम रामेतिलक्ष्मणेतिच मुक्तशिल्पिभिर्येषु तेतथा । लक्ष्मणलाञ्छनेनानि " इतिविश्वः ॥ ४ ॥ रामानु० सीता श्रुतिसमाहितान् सीतावृत्तान्त श्रवणेनसमाहितान् ॥ ति० प्रतिसंमुक्तान् व्यक्तप्रायोपवे- शान् । सीताश्रुतिसमाहितान् सीताविषयवृत्तान्त श्रवणेसावधानान् पुनराश्वासयन् अन्यसाक्षिकताप्रदर्शनेनभूयः स्वोक्तार्थप्रत्या पयन् ॥ ५ ॥ ति० वैदेह्याहरणंयथा मेमयाश्रुतं येनचममाख्यातं यत्रसाऽऽयतलोचनावर्तते इतिश्रुतं तदपि इह इदानीं श्रूयतां ॥ ६ ॥ ति० क्षीणःप्राणोबलंपराक्रमश्चयस्यसः ॥ ७ ॥ स० गन्धर्वाः चित्ररथायाः | तीक्ष्णकामाः तीक्ष्णः समयासम- यपरीक्षांविनाऽऽयास्यन्कामःस्त्रीवाञ्छायेषांतेतथा । “ स्त्रीकामावैगन्धर्वाः ” इतिब्राह्मणात् । ततः ततोप्याधिक्येन । तीक्ष्णा बहुवाराहारहेतुःक्षुधा क्षुत्येषांतेतथा ॥ टाबन्तः क्षुधाशब्दः ॥ ९ ॥ रामानु० क्षुधार्तस्यमम । समीपमितिशेषः ॥ शि० अहनि अहोनिमित्तेसूर्ये आगतेसतीतिशेषः । सूर्योदयकालइत्यर्थः । गतः पुत्रः सायमनामिषः प्राप्तः आगतः ॥ १० ॥ ति० यत एवं अतः स मम प्रीतिवर्धनः मया आहारसंरोधात्पीडितः दुर्वचनेन खेदंप्रापितःसन् | मामनुमान्य क्षमापयित्वा । यथातत्वं

66 [ पा० ] १ ख. घ. सहसोत्पत्य. २ क. ख. घ. ङ. छ. झ. ट. गृध्रराजानमब्रवीत्. ग. च. ज. ज. गृध्रराजंतमब्रवीत्. ३ ग. जानाति ४ क. जानकीं. ५ छ. झ ट प्रतिसंमुक्तान्. ६ क. ख. ग. ङ. च. झ ञ ट चायतलोचना ७ ख. च. छ. ज. ञ. ट. गतःपुत्रः ८ क. –च. ज. ज. ममचाहारकाङ्क्षिणः ९ क. ख. ङ. – ट. गतः सूर्ये. १० क. ग. ङ.ट. समयाहारसंरोधात्पीडितः ११ ख. ग. प्रीतिवर्धनं. १२ ङ. मामिषार्थे. १३ ङ. -ट. सुसमाश्रितः. ग. चसमाश्रितः, १४ क. ख. घ. — टं. तत्रसव १५ ग. नारीमादाय १६ कट चयोपमः. २०८ i