पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५७ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २०३ तैस्यैव च मम भ्रातुः सखा दशरथः कथम् ॥ यस्य रामः प्रियः पुत्रो ज्येष्ठो गुरुजनप्रियः ॥२३॥ सूर्यांशुदग्धपक्षत्वान्न शैक्नोम्युपसर्पितुम् || इच्छेयं पर्वतादस्मदैवतर्तुमरिन्दमाः ॥ २४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये किष्किन्धाकाण्डे षट्पञ्चाशः सर्गः ॥ ५६ ॥ सप्तपञ्चाशः सर्गः ॥ ५७ ॥ अङ्गदेन संपातेः पर्वतादवतारणपूर्वकं तंप्रति रामवनप्रवेशादिस्वप्रायोपवेशान्तनिखिलवृत्तान्त निवेदनम् ॥ १ ॥ शोकाद्धष्टस्वरमपि श्रुत्वा ते हरियूथपाः || श्रद्दधुनैव तद्वाक्यं कर्मणा तस्य शङ्किताः ॥ १ ॥ ते प्रायमुपविष्टास्तु दृष्ट्वा गृधं प्लवङ्गमाः || चक्रुर्बुद्धिं तदा रौद्रां सर्वान्नो भक्षयिष्यति ॥ २ ॥ सर्वथा प्रायमासीनान्यदि नो भक्षयिष्यति ॥ कृतकृत्या भविष्यामः क्षिप्रं सिद्धिमितो गताः ॥ ३॥ एतां बुद्धिं तँतचक्रुः सर्वे ते वानरर्षभाः ॥ अवतार्य गिरेः शृङ्गामाहाङ्गदस्तदा ॥ ४ ॥ बभूवर्क्षरजा नाम वानरेन्द्र प्रतापवान् ॥ ममार्यः पार्थिवः पक्षिन्धार्मिकस्तस्य चात्मजौ ॥ ५ ॥ सुग्रीवश्चैव वाली च पुत्रावोघबलावुभौ || लोके विश्रुतकर्माभूद्राजा वाली पिता मम ॥ ६ ॥ राजा कृत्स्त्रस्य जगत इक्ष्वाकूणां महारथः ॥ रामो दाशरथिः श्रीमान्प्रविष्टो दण्डकावनम् ॥ ७ ॥ लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया || पितुर्निदेशनिरतो धर्म्य पन्थानमाश्रितः ॥ तस्य भार्या जनस्थानाद्रावणेन हता बलात् ॥ ८ ॥ रामस्य तु पितुर्मित्रं जटायुर्नाम गृध्रराट् || ददर्श सीतां वैदेहीं ह्रियमाणां विहायसा ॥ ९ ॥ " वफास्ये वदनं तुण्डं " इत्यमरः ॥ १८-२४ ।। अत्र “कथमासीज्जनस्थाने युद्धं राक्षसगृध्रयोः” “सखा दशरथः कथं ” इत्येवमनुवादात्पूर्वमिदमप्यङ्गदेनो- मिति " अथ संपातिप्रश्नोत्तरं सप्तपञ्चाशे - शोकादित्यादि । कर्मणा हिंसाकर्मणा ॥१॥ रौद्रां आमत्यागाध्यवसाय- रूपत्वेन क्रूरां ॥ २-४ ॥ आर्यः पितामहः । आत्मजौ ध्येयम् ॥ इति श्रीगोविन्दराजविरचिते औरसौ ॥ ५ ॥ ओघबलौ ओघसङ्ख्याकपुरुषबलौ । ओघसङ्ख्या च पूर्वोक्ता ||६-८|| रामस्य तु पितुर्मि- | त्रमिति कथनात् मैत्रीप्रकारं तु न जानामीत्युक्तं भवति ममभ्रातुस्तस्यैवजटायुषःसखा । अतस्तत्स्नेहात्प्रयतमानस्य तस्यजनस्थानवासिनः तस्य प्रसिद्धविक्रमस्य । जटायुषोविनाशः कथ. मभवदिति तस्यविनाशं श्रोतुमिच्छेयमिति । कथंसखा इत्यन्वयस्तुनोचितः । तदुत्तरस्याप्रेऽभावात् ॥ शि० यस्यरामःपुत्रः सं ममभ्रातुःसखा दशरथः कथंलोकान्तरंगतइतिशेषः ॥ २२ २३ ॥ ति० अवतर्तुं अवतारयितुं | स० अवतर्तुं अवतरितुं । आगमशासनमनित्यमितिवा तृ इतिहखान्तधातोरनिङ्कवाद्वा तद्रूपं । विस्तृतंचैतत्तत्रताराथेत्यनुव्याख्यानव्याख्यासुधापरिमले । ततोनुसन्धेयमिति ॥ २४ ॥ इतिषट्पञ्चाशः सर्गः ॥ ५६ ॥ श्रीमद्रामायणभूषणे मुक्ताहाराख्याने किष्किन्धाका- ण्डव्याख्याने षट्पञ्चाशः सर्गः ॥ ५६ ॥ ति० भ्रष्टस्वरं भक्षणवचनस्वरापेक्षया भ्रष्टस्वरमित्यर्थः । तेनखरेण यद्यपि सनिश्चितशोकः परितुष्टो स्मीतिश्रद्धेयवचनोभवति । तथापि नश्रद्दधुः यतस्तस्यकर्मणाशङ्किताः । भक्षणार्थं वञ्चनमेव करोतीति बुद्ध्येतिभावः ॥ स० कर्मणा मृतान्भक्षयिष्यामीतिव्या- हरणेन ॥ १ ॥ ति० सिद्धिं मरणरूपां ॥ ३ ॥ ति० एतांबुद्धिं भक्षणाभीष्टत्वबुद्धिं ॥ ४ ॥ ति० पार्थिवः वानराणामितिशेषः ॥ ५ ॥ ति० घनबलौ बहुबलौ ॥ ६ ॥ [ पा० ] १ ख. तस्यचैव. २ क. ग. ङ. छ. झ ञ ट . शक्नोमिविसर्पितुं. ख. शक्नोम्यपसर्पितुं. घ. शक्तोस्मिविसर्पितुं. ३ घ. दवतर्वुलवंगमाः ४ क. ग. ङ. – ट. श्रुलावानरयूथपाः ५ ग. क्रूरां. ६ च. सर्वांश्च ७ ग. तदाचक्रुः . ८ ङ.–ट॰ हरियूथपाः. "९ क. ग. घ. च. – झ. ट. बभूवर्क्षरजोनाम. १० ग. पूर्वकः ११ क. ख. ङ. – ट. पक्षिन्धार्मिकौतस्य. ग. ख्यातोधार्मिकः. १२ क. पुत्रौदेवबलौमतौ. ख. पुत्रौदेवबलान्वितौ. ग. पुत्रौतुल्यबलावुभौ• छ. झ. ट. पुत्रौघनबलावुभौ. १३ घ. महाबलः १४ ग. ङ.-ट. सह.