पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०२ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ राघवार्थे परिश्रान्ता वयं संत्यक्तजीविताः ॥ कान्ताराणि प्रपन्नाः स न च पश्याम मैथिलीम्॥१२॥ स सुखी गृध्रराजस्तु रावणेन हतो रणे ॥ मुक्तच सुग्रीवभयागतश्च परमां गतिम् ॥ १३ ॥ जटायुषो विनाशेन राज्ञो दशरथस्य च || हरणेन च वैदेह्याः संशयं हरयो गताः ॥ १४ ॥ रामलक्ष्मणयोर्वेस अरण्ये सह सीतया || राघवस्य च बाणेन वालिनच तथा वधः ॥ १५ ॥ रामकोपादशेषाणां राक्षसानां तथा वधः ॥ कैकेय्या वरदानेन ईंदं हि विकृतं कृतम् ।। १६ ।। तदसुखमनुकीर्तितं वचो भुवि पतितांश्च समीक्ष्य वानरान् ॥ भृशचॅलितमतिर्महामतिः कृपणमुदाहृतवान्स गृध्रराट् ॥ १७ ॥ तंतु श्रुत्वा तैदा वाक्यमङ्गदस्य मुखोद्गतम् || अब्रवीद्वचनं गृध्रस्तीक्ष्णतुण्डो महास्वनः ॥ १८ ॥ कोऽयं गिरा घोषयति प्राणै: प्रियतमस्य मे ॥ जटायुषो वधं भ्रातुः कम्पयन्निव मे मनः ॥ १९ ॥ कथमासीज्जनस्थाने युद्धं राक्षसगृधयोः ॥ नामधेयमिदं आतुर्थस्याद्य मया श्रुतम् ।। इच्छेयं गिरिदुर्गाच्च भवद्भिरवतारितुम् ॥ २० ॥ यवीयसो गुणज्ञस्य श्लाघनीयस्य विक्रमैः ॥ अतिदीर्घस्य कालस्य तुष्टोऽसि परिकीर्तनात् ॥ २१ ॥ तदिच्छेयमहं श्रोतुं विनाशं वानरर्षभाः ॥ आतुर्जटायुषस्तस्य जनस्थाननिवासिनः ॥ २२ ॥ बद्धाः । अन्योन्यं प्रत्येकं प्रत्येकं ॥ १० - १२ ॥ | कृतं हीति संबन्धः । इत्यङ्गदोब्रवीदितिसंबन्धः ॥ १५ परमां गतिं मुक्तिमित्यर्थः ॥ १३–१४ ॥ रामल- - १६ ॥ समीक्ष्य ज्ञात्वेत्यर्थः । ज्ञानं च वचनश्रवणं क्ष्मणयोरित्यादि ॥ रामवनवासमारभ्य प्रायोपवेशप- | वानराणां दर्शनं च । अस्य श्लोकस्यानन्तरं सर्गसमा- र्यन्तं यदस्ति तत्सर्वमिदं विकृतं कैकेय्या वरदानेन ! प्तिर्भवितुमर्हति ॥ १७ ॥ तीक्ष्णतुण्ड : तीक्ष्णमुखः । स्त्यक्त्वापि यथाराम स्यप्रियंकुर्वन्ति तथावयं करिष्यामइतिशेषः ॥ अन्योन्यमुपकुर्वन्ति शिष्टाः । ततस्तस्यरामस्योपकारार्थ आत्मना स्वस्वप्रयत्नेन आत्मानंदेहंत्यजत | स० स्नेहयन्त्रिताः उत्तमेषुस्नेहो भक्तिः | मध्यमेषुस्नेहः प्रीतिः । अधमेषु कारुण्यं कृपा । त्यजतेतितृतीयान्तं जटायुषोविशेषणं | आत्मानं शरीरं । आत्मना मनसा ॥ १०-११ ॥ ति० ननु प्राणत्यागेन कथंरामस्यसंतोषोतआह - प्रियमिति | हियतः जटायुषा प्राणांस्त्यजता प्रियंकृतमिति रामस्य मतमितिशेषः । तथाऽस्मन्मरणे - नापि रामस्तथा मंस्यतीतिभावः ॥ ११ ॥ स० सामान्यतस्तिर्यक्स्वामित्वंसुप्रीवस्येति सुग्रीवभयान्मुक्तइति जटायुषंप्रति वचन- मुचितमितिभावः । यद्वा स्वेषांसुग्रीवाद्भयंयथा तथा सर्वेषामपि भयंतस्मादिति भ्रान्तिपरवशतयाऽङ्गदेनैवमुक्त मितिमंतव्यं ॥ सुग्रीवभंयात् सुग्रीवस्य भयं स्वकार्याकरणे यस्मात्सतथा रामः तस्मात् । मुक्तः शरीरात् । परमांगतिंगतइत्यन्वयः । अनेन सुग्रीवोपि परतन्त्रइति भीतोस्मान्भीषयतीतिसूच्यते ॥ १३ ॥ ति० जटायुषोविनाशेन द्रागितिशेषः । यदिपुनर्मुहूर्त पपि युद्धेरा वर्णनिरुन्ध्यात्तदा रामदृग्गोचरोरावणः सीतां नहरेदितिभावः । राज्ञोदशरथस्यच द्राग्विनाशेन । यदि पक्षमात्रमपि राजजीवनं स्यात्तदा रामंप्रत्यानयेदेवेतिभावः । वैदेहीहरणंतु स्पष्टमेव वानराणांप्राणसंशयकारणं ॥ १४ ॥ रामानु० तदसुखमिति | श्रुत्वेतिशेषः । सगृध्रराडितिसम्यक् । अन्यथा वृत्तभङ्गः स्यात् । केषुचित्कोशेष्वस्यश्लोकस्यानन्तरं सर्गकरणंदृश्यते केषुचित्सूर्यांशु दग्धपक्षत्वादित्यस्यानन्तरंदृश्यते । प्रायेण सर्गसमाप्तिद्योतकवृत्तभेदसद्भावात्तदसुख मितिश्लोकानन्तरं सर्गकरणमुपपन्नसितिप्रती- यते ॥१७॥ स० गृध्रस्य खानुजमरणश्रवणतोङ्ग स्मरणं नास्तीतिसूचयितुं कविः पुनः तीक्ष्णतुण्डोवचनमब्रवी दितिवदति - तत्त्विति । या पूर्वेवानरान्प्रत्युदाहृतवानिति अत्रतु अङ्गदस्यमुखोद्गतं श्रुत्वा वचनमब्रवीदित्युक्त्या राजपुत्रवेनाङ्गदमात्रंप्रत्युक्तिरिति नपुनरु- क्तिः ॥ १८ ॥ ति० कोघोषयति समयाप्रष्टव्यइतिशेषः ॥ १९ ॥ स० रावणस्य ऋषिकुलजत्वेनाभ्यर्हितत्वाद्राक्षसगृध्रयोरि- तियुक्तं ॥ ति० अवतारितुमिच्छेयं । आत्मानमितिशेषः ॥ २० ॥ ति० अवतारणफलमाह - यवीयसइति कनिष्ठस्येत्यर्थः ॥ २१ ॥ ति० श्रोतुमिच्छेयं । युष्मत्समीपमागत्ये तिशेषः ॥ २२ ॥ ति० तस्येति । अन्वयस्तुयस्यरामः प्रियः पुत्रः स दशरथो [पा०] १ च. मरणेगताः• २ क. ख. घ. - ट. वसमरण्ये ३ क. वधस्तथा ४ क. रामकोपाचसर्वेषां. ५ ङ. – ट. रक्षसांच. ६ ङ. छ. झ. ट. इदंच. ७ ङ च छ. झ ञ ट निरीक्ष्य ८ छ. झ ञ ट चकितमतिः ९ ग. ङ.―ट. १० च. ज. ततः ग. इतिश्रुत्वा. ११ छ. झ ट तथा. १२ छ. ज. महाखगः. १३ क. ग. ङ. ट. प्रियतरस्य मे. १४ ङ. –ज, न. चिरायाद्य. १५ क. - ट. परितुष्टोस्मिकीर्तनातू. गृध्रराजः.