पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५६ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । षट्पञ्चाशः सर्गः ॥ ५६ ॥ कपिकुलकोलाहलाद्विन्ध्यकन्दराद्विनिर्गतेनसंपातिना कपिकुलावलोकनेन चिरतराहारपरिकल्पनहर्षाद्विधिप्रशंसनपूर्वकं क्रमेण सर्ववानरभक्षणप्रतिज्ञानम् ॥ १ ॥ तदाकर्णनखिन्नेनाङ्गदेन हनुमन्तंप्रति रामकार्याकरणेन प्राणविमोक्षणाद्वामोप- काराय रावणान्मारणाधिगमाच्च क्रमेणात्मगर्हणजटायुःप्रशंसनपूर्वकमेतावद्विपत्ति निमित्तत्वोस्कीर्तनेन कैकेयीगर्हणम् ॥ २ ॥ तदा कर्णन निर्विण्णेनसंपातिनाऽङ्गदंप्रति स्वस्य जटायुरप्रजत्व निवेदनेन तन्मरणप्रकारप्रश्नपूर्वकं स्वस्थसूर्यकिरणनिर्दग्धपक्षस्वो- तया पर्वतादवतारणप्रार्थना ॥ ३ ॥ २०१ उपविष्टास्तु ते सर्वे यस्मिन्प्रायं गिरिस्थले || हरयो गृध्रराजश्च तं देशमुपचक्रमे ॥ १ ॥ संपातिर्नाम नाम्ना तु चिरंजीवी विहङ्गमः ॥ भ्राता जटायुषः श्रीमान्प्रख्यातबलपौरुषः ॥ २ ॥ कन्दरादभिनिष्क्रम्य स विन्ध्यस्य महागिरेः ॥ उपविष्टान्हरीन्दृष्ट्वा हृष्टात्मा गिरमब्रवीत् ॥ ३ ॥ विधिः किल नरं लोके विधानेनानुवर्तते ॥ यथाऽयं विहितो भक्ष्यश्चिरान्मह्यमुपागतः ॥ ४ ॥ परं पराणां भक्षिष्ये वानराणां मृतं मृतम् || उँवाचेदं वचः पक्षी तानिरीक्ष्य प्लवङ्गमान् ॥ ५ ॥ तस्य तद्वचनं श्रुत्वा भक्ष्यलुब्धस्य पक्षिणः ॥ अङ्गदः परमायस्तो हनुमन्तमथाब्रवीत् ॥ ६ ॥ पश्य सीतापदेशेन साक्षाद्वैवस्वतो यमः ॥ इमं देशमनुप्राप्तो वानराणां विपत्तये ॥ ७ ॥ रामस्य नैं कृतं कार्ये रौज्ञो न च वचः कृतम् ॥ हरीणामियमज्ञाता विपत्तिः सहसाऽऽगता ॥ ८ ॥ वैदेयाः प्रियकामेन कृतं कर्म जटायुषा | गृध्रराजेन यत्तत्र श्रुतं वस्तदशेषतः ॥ ९ ॥ तथा सर्वाणि भूतानि तीर्यग्योमिगतान्यपि ॥ प्रियं कुर्वन्ति रामस्य त्यक्त्वा प्राणान्यथा वयम् || अन्योन्यमुपकुर्वन्ति स्नेहकारुण्ययन्त्रिताः ॥ १० ॥ तेनं तस्योपकारार्थं त्यजतात्मानमात्मना || प्रियं कृतं हि रामस्य धर्मज्ञेन जटायुषा ॥ ११ ॥ अथ संपातिसंवादः षट्पञ्चाशे - उपविष्टा इत्या | ॥ ४ ॥ पराणां वानराणां मध्ये मृतंमृतं परं वानरं दि || उपचक्रमे प्राप्तुमुपक्रान्तः ॥ १ ॥ संपातिरि- भक्षिष्य इत्येवं वच उवाचेत्यन्वयः ।। ५ ।। परमायस्तः त्यादि लोकद्वयमेकान्वयं ॥ २ – ३ || विधिः दैवं । परमोद्विम इत्यर्थः ॥ ६-७ ॥ अज्ञाता अचिन्तिता विधानेन योगक्षेमसंपादनेन । यथा यस्मात्कारणात् | ॥८-९ ॥ स्नेहकारुण्ययन्त्रिताः स्नेहकारुण्याभ्यां 1 " स० विधिः दैवं कर्मफलंवा । विधानेनापूर्वकर्मानुरोधेन । नरमनुवर्तते । सामान्येनोक्तंस्खस्मिन्निगमयन्नवगमयति — यथेति । चिरादुपोषितायेतिशेषः । विहितोमह्यं मद्योग्यः | भक्ष्यः कपिपिशितरूपः । यद्वा मयमितिचतुर्थीद्वितीयार्थे । विहितोयोग्योभ- क्ष्योमामुपागतइत्यन्वयः ॥ ४ ॥ रामानु० पराणां श्रेष्ठानां । वानराणांमध्ये परं वानरं मृतंमृतं मारयित्वामारयित्वा भक्षि• ध्येइत्येवंवचउवाचेतिसंबन्धः ॥ पूर्वत्र “ हरीणांभयमागतं " इतिवचनस्य परत्र “ पश्यसीतापदेशेन " इत्याद्यङ्गदनिर्वेदवचन- स्यच स्वयंमृतभक्षणेऽनुपपन्नत्वान्मारयित्वामारयित्वेति व्याख्यातं || ति० यतः परंपराणां पतिउपविष्टानांवानराणांमध्ये मृतं मृतंक्रमाद्भक्षिष्ये । तस्मादितिपूर्वेण संबन्धः ॥ ५ ॥ स० सीतापदेशेन सीताव्याजेनप्राप्तप्रायोपवेशानामित्यर्थः । वानराणांविप त्तये साक्षाद्वैवस्वतोयमः अयंगृध्ररूपी इमंदेशमनुप्राप्तः । गृध्रापदेशेनेतिपाठे सुगमोर्थः । शनैश्चरव्यावृत्तयेयमइति । यमलंभ्रमभ्रं- शाय वैवस्वतइति ॥ ७ ॥ स० पूर्वपश्येति हनुमन्मात्रं संबोध्योक्तमिति तइतिवक्तव्येवइत्युक्तिः अङ्गदस्याङ्गस्मरणाभावेनेतिज्ञेयं ॥ यद्वा पूर्वेपश्येत्युक्तिर्मुख्यत्वाच्छ्रोतृषुहनुमतः संभवति । अत्रमुख्यामुख्योभयधिवक्षयावइत्युक्तिः ॥ ९ ॥ ति० रामस्यप्रियंकु- न्तीत्यनेन तस्मिन्सर्वप्रेमास्पदत्वंसूचयतासर्वात्मवंसूचितं ॥ सार्वात्म्यमेवढयति – अन्योन्यमिति । स्नेहकारुण्ययन्त्रिताः । रामेइ- तिशेषः । सर्वस्यरामत्वात्तदीय स्नेहेनैव परस्परोपकारकरणमित्यर्थः ॥ १० ॥ शि० तिर्यग्योनिगतानि जटायुःप्रभृतीनि । प्राणां- [ पा०] १ ख. उपविष्टांस्तुतान्सर्वोस्तस्मिन्प्रायंगिरेस्तटे । गृध्रराजोहरीन्प्रेक्ष्यप्रख्यातबलपौरुषः. २ घ. गिरेस्तटे, ३ ग. - ञ. चिरजीवी. ४ ङ.ट. निवख्यातबल. ५ क. ख. ग. मिहागतः ६ ख. च. ज. झ ञ. उवाचैतद्वचः. ग. घ. उवाचैवंवचः. ङ. छ. ट. उवाचतद्वचः ७ ङ. – ज. अ.ट. गृध्रापदेशेन. ८ ख. द्वैवस्वतंयमं. ९ ख मनुप्राप्तं १० छ. झ. ट. कार्यनकृतनकृतराजशासनं. ११ ङ च छ. ञ, राज्ञश्चनवचः १२ क. ग. च. -ट. ततस्तस्योप. १३ ङ. कारार्थे. वा. रा. १४५