पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०० श्रीमद्वाल्मीकि रामायणम् । [ किष्किन्धाकाण्डम् ४ बैन्धनाद्वाऽवसादान्मे श्रेयः प्रायोपवेशनम् || अनुजानीत मां सर्वे गृहं गच्छन्तु वानराः ॥११॥ अहं वः प्रतिजानामि नागमिष्याम्यहं पुरीम् ॥ इहैव प्रायमासिष्ये श्रेयो मरणमेव मे ॥ १२ ॥ अभिवादन पूर्व तु राघवौ बलशालिनौ || अभिवादनपूर्वं तु राजा कुशलमेव च || वाच्यस्तातो यवीयान्मे सुग्रीवो वानरेश्वरः ॥ १३ ॥ आरोग्यपूर्व कुशलं वाच्या माता रुमा च मे ॥ मातरं चैव मे तारामाश्वासयितुमर्हथ ॥ १४ ॥ प्रकृत्या प्रियपुत्रा सा सानुक्रोशा तपस्विनी ॥ विनष्टमिह मां श्रुत्वा व्यक्तं हास्यति जीवितम् ॥१५॥ ऐतावदुक्त्वा वचनं वृद्धांस्तानभिवाद्य च || विवेशं चाङ्गदो भूमौ रुदन्दर्भेषु दुर्मनाः ॥ १६ ॥ तस्य संविशतस्तत्र रुदन्तो वानरर्षभाः || नयनेभ्यः प्रमुमुचुरुष्णं वै वारि दुःखिताः ॥ १७ ॥ सुग्रीवं चैव निन्दन्तः प्रशंसन्तश्च वालिनम् || परिवार्याङ्गदं सर्वे व्यवसायमासितुम् ॥ १८ ॥ मैंतं तद्वालिपुत्रस्य विज्ञाय लवगर्षभाः || उपस्पृश्योदकं तंत्र प्राङ्मुखाः समुपाविशन् ॥ १९ ॥ दक्षिणाग्रेषु दर्भेषु उदक्तीरं समाश्रिताः || मुमूर्षवो हरिश्रेष्ठा एतत्क्षममिति स्म ह ॥ २० ॥ रामस्य वनवासं च क्षयं दशरथस च ॥ जनस्थानवधं चैव वधं चैव जटायुषः ॥ २१ ॥ हरणं चैव वैदेह्या वालिनश्च वधं रैंणे ॥ रामकोपं च वदतां हरीणां भयमागतम् ॥ २२ ॥ सँ संविशद्भिर्बहुभिर्महीधरो महाद्रिकूटप्रतिमैः प्लवङ्गमैः ॥ बभूव सन्नादिर्तेनिर्दरान्तरो भृशं नदद्भिर्जलदै रिवोल्बणैः ॥ २३ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे पञ्चपञ्चाशः सर्गः ॥ ५५ ॥ बन्धनाद्वावसादान्म इति वेति प्रसिद्धौ । बन्धनरू - | मत्वेति शेषः ॥ १९-२० ॥ जनस्थानवधं जनस्था- पावसादात् ॥ ११–१२ ॥ राघवौ कुशलं वाच्या- नस्थरक्षोवधं ॥ २१ ॥ आगतं भयं प्रायोपवेशनरूप- वित्यनुषङ्गः ॥ १३–१४ ॥ तपस्विनी शोचनीया भयनिमित्तं च । वदतां वदत्सु च । स महीधरो भृशं ।। १५ -१६ ।। तस्य संविशतः तस्मिन् संविशति । | सन्नादितनिर्दशन्तरो बभूवेत्युत्तरेणान्वयः ॥ २२– २३ || इति श्रीगोविन्दराजविरचिते श्रीमद्रामायण- संवेशः शयनं ।। १७–१८ ।॥ तत्र विन्ध्ये | उदक्तीरं भूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने समुद्रस्योत्तरतरं । एतत् प्रायोपवेशनं क्षममिति पञ्चपञ्चाशः सर्गः ॥ ५५ ॥ । निश्चयजननाय शठायुक्तियुक्ता ॥ १० ॥ स० अहमहमितिद्विरुक्तिः प्रतिज़ानामि गमिष्यामीत्याख्यातद्वययोगादुपपन्ना | यद्वा अहमिति मान्तमहङ्कारवद्वाच्यव्ययं | अहं अहन्तावान् अभिमानीतियावत् ॥ १२ ॥ ति० राजा सुग्रीवः । कुशलमेववाच्य इत्यनुकर्षः । नत्विदानीं दुःखवशादुक्तमित्यर्थः ॥ ति० अथमातुःकुशल विज्ञापनाशेषतयाऽऽरोग्यपूर्वकत्व विशेषाभिधित्सयाच पुनः सुग्रीवेकुशल विज्ञापनमाह -- वाच्यस्तातइति ॥ १३ ॥ ति० निन्दन्तः । अङ्गदपक्ष्याइतिशेषः । व्यवसन् व्यवास्यन् ॥ शि० वालिनंप्रशंसन्तः वाली अतीवभाग्यवान् युद्धेरामसंमुखेमृतइतिवदन्तः ॥ १८ ॥ ती० उत्तरीयं समाहिता इति कर्तरि निष्ठा | उत्तरीयंसंवसितवन्तइत्यर्थः । उदक्तीसमाश्रिताइतिचपाठः || ति० हरिश्रेष्ठ अपि एतत्प्रायोपवेशन मेवास्माकमद्यक्षमं युक्तंइति मन्यन्ते स्मेतिशेषः । स्वामिनिम्रियमाणे तंपरित्यज्यास्माकंगमनमयुक्तमिति तत्क्षमत्वव्यवसायः ॥ २० ॥ ती० हरीणांभयमा- गतं संपातिरूपंभयनिमित्तंप्राप्तं | एतच्चानन्तरस र्गादौस्पष्टीभविष्यति ॥ स० रामकोपं सुग्रीवोपरि | हरीणांतेषां सुग्रीवादागतंभयं वदतामित्यन्वयः ॥ २२ ॥ ती० भयनिमित्तागमनेहेतुमाह - ससंविशद्भिरिति ॥ संनादित निर्दरान्तरत्वस्य भयनिमित्तसं- पात्यागमनहेतुत्वात् ॥ २३ ॥ इतिपञ्चपञ्चाशः सर्गः ॥ ५५ ॥ [ पा ] १ क. ख. ग. ङ.. - ट. बन्धनाचा. २ङ – ट. अनुजानन्तु ३ क. – घ. गृहान् ४ ङ. ट. नगमिष्याम्यहं. ५क. घ. • पूर्वेहि. ६ च. – ट. राजाकुशलमेवच | अभिवादन पूर्व राघवौबलशालिनौ. ७ ङ च ज ञ वाच्यः पिता. ८ क. –च. ज. ज. विनष्ट॑मामिहश्रुत्वा ९ क ख. घ. एतावद्वचनंचोक्त्वावृद्धानप्यभिवाद्यच १० क. – घ. संविवेशाङ्गदो. ११ ङ. —ट. दुर्मुखः १२ क. सुग्रीवंचापि १३ क. ख. घ. छ. ञ. व्यवास्यन्. ग. व्यतिष्ठन्. १४ ख. झ ट तद्वाक्यं वालिपुत्रस्य. १५ ख. घ. -ट सर्वेप्राङ्मुखाः क. विन्ध्येप्राङ्मुखाः. १६ ङ. -ट. तथा. १७ क. ख. एवंवदद्भिर्बहुभिः १८ ख. झ. निर्झरान्तरो. १९ ङ. -ट, रिवांबरं,