पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५५ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । पञ्चपञ्चाशः सर्गः ॥ ५५ ॥ हनुमदुक्तंसुग्रीवस्यगुणवत्वमसहमानेनाङ्गदेन सुप्रीवेदोषोद्भावनेन तद्गर्हणपूर्वकं वानरान्प्रति स्वस्यप्रायोपवेशनाभ्यनुज्ञा- नेन प्रायोपवेशनम् ॥ १ ॥ तथाभूतेऽङ्गदे सबाष्पमोचनं सुग्रीवगर्हणपूर्वकं स्वयमपि प्रायोपविष्टैः सकलकपिवरैः रामन- वेशादिस्वप्रायोपवेशावधिकसर्ववृत्तान्तोद्घोषणेन गिरिदरीपरिपूरणम् ॥ २ ॥ श्रुत्वा हनुमतो वाक्यं प्रश्रितं धर्मसंहितम् || खामिसत्कारसंयुक्तमङ्गदो वाक्यमंत्रवीत् ॥ १॥ स्थैर्यमात्ममनः शौच मानृशंस्यमथार्जवम् ॥ विक्रमश्चैव धैर्य च सुग्रीवे नोपपद्यते ॥ २ ॥ भ्रातुर्येष्ठस्य यो भार्या जीवतो महिषीं प्रियाम् ॥ धर्मेण मातरं यस्तु स्वीकरोति जुगुप्सितः ॥ ३ ॥ कथं स धर्मे जानीते येन भ्रात्रा महात्मना ॥ युद्धायाभिनियुक्तेन बिलस्य पिहितं मुखम् ॥ ४ ॥ सत्यात्पाणिगृहीतश्च कृतकर्मा महायशाः ॥ विस्मृतो राघवो येन स कस्य तु कृतं स्मरेत् ॥ ५ ॥ लक्ष्मणस्य भैयाद्येन नाधर्मभयभीरुणा || आदिष्टा मार्गितुं सीतां धर्ममसिन्कथं भवेत् ॥ ६ ॥ तस्मिन्पापे कृतघ्ने तु स्मृतिहीने चलात्मनि ॥ आर्यः को विश्वसेज्जातु तत्कुलीनो जिँजीविषुः ॥ ७ ॥ राज्ये पुत्रः प्रतिष्ठाप्यः संगुणो निर्गुणोऽपि वा ॥ कथं शत्रुकुलीनं मां सुग्रीवो जीवयिष्यति ॥८॥ भिन्नमन्त्रोपराद्धश्च हीनशक्तिः कथं ह्यहम् || किष्किन्धां प्राप्य जीवेयमनाथ इव दुर्बलः ॥ ९ ॥ उपांशुदण्डेन हि मां बैन्धनेनोपपादयेत् || शठः क्रूरो नृशंसश्च सुग्रीवो राज्यकारणात् ॥ १० ॥ तु 9 अथ हरीणां प्रायोपवेशः पञ्चपञ्चाशे - श्रुत्वेत्यादि | पाणिगृहीतः पाणौ गृहीतः ॥ ५ ॥ कथं तर्हि सेना- ॥ १ ॥ स्थैर्य स्थिरबुद्धिता | आत्ममनःशौचं आत्म- मानीतवान्सुग्रीव इत्याशङ्का – लक्ष्मणस्येति || शुद्धिः मनसः शौचं अन्तःकरणशुद्धिश्चेत्यर्थः । धैर्य नाधर्मभयभीरुणा भयशब्दोत्र भयहेतुपरः । अधर्म- गाम्भीर्यम् ॥ २ ॥ मनःशौचाभावमुपपादयति – रूपभयहेतोर्भीरुणा न च । किंतु लक्ष्मणस्य भयात् । भ्रातुरिति ॥ स कथं धर्म जानीत इति वक्ष्यमाणमा- लक्ष्मणदण्डनिमित्तभयादित्यर्थः ॥ ६–७ ॥ तव कृष्यते । जीवत इत्यनेन भ्रातुर्मरणानन्तरं तद्भार्याप यौवराज्यस्थापनं किं विस्मृतोसीत्यत्राह- - राज्य रिग्रहः कुलधर्म इत्यवगम्यते || ३ || आनृशंस्याभा- इति ॥ पुत्रः जनिष्यमाणः स्वपुत्रः ॥ ८ ॥ भिन्नमन्त्रः मुपपादयति — युद्धायेति ॥ युद्धायाभिनियुक्तेन प्रकाशितविगृह्यावस्थानमन्त्रः । अपराद्धः कृतापराधः। द्वारान्निर्गतस्य शत्रोः युद्धाय वालिना नियुक्तेनेत्यर्थः यद्वा पितृहिंसनेन संजातापराधः ॥ ९ ॥ उपांशुद- ॥ ४ ॥ आर्जवाभावमुपपादयति — सत्यादिति ॥ण्डेन रहस्यदण्डरूपेण । उपपादयेत् प्रापयेत् ॥ १० ॥ ति० ज्येष्ठस्यभ्रातुर्भार्या धर्मेणमातरं धर्ममार्गेणवर्तमानांज्येष्ठभ्रातृपत्नींतांमातृतुल्यां | जीवतोममसमक्षं । अनेन "देवराञ्चसु • तोत्पत्ति " इत्यतोपिधर्मत्वंवारितं । यद्वा जीवतोमहिषीमिति महिषयुद्धकालिकस्वीकारपरं । यःस्वीकरोति कथं स धर्मजानीते इत्यन्वयः । एतेन हनूमदुक्तं धर्मराजत्वंप्रत्याख्यातं । एतद्वचोऽङ्गदस्यकेवलरोषमूलं त्रैवर्णिकातिरिक्तधर्मास्मरणपूर्वकं ॥ स० धर्मेणमातरं ज्येष्ठभ्रातृपत्नीत्वरूपधर्मप्रयोज्यमातृत्ववतीं ॥ ३ ॥ ति० ' धर्ममस्मिन् ' इतिपाठे धर्मे धर्मधीमूलंप्रवर्तन मित्यर्थः ॥ ६ ॥ ति० स्मृतिभिन्ने स्मृतिर्मन्वादीनां भिन्ना व्यक्ता येन । तत्कुलीनः तज्ज्ञातिकोटिप्रविष्टः ॥ ७ ॥ ति० सुग्रीवः सगुणो निर्गुणोवास्तु नमे तद्विचारेण किंचित् । अपितु शत्रुकुलीनं मांपुत्रंराज्येप्रतिष्ठाप्य कथंसुग्रीवो जीवयिष्यति नकथमपीत्यर्थः ॥ स० शत्रुकुलीनं शत्रोर्वालिनः कुलंदेहः तत्रभवस्तस्मादुत्पन्नः । 66 कुलात्खः "1 कुलंगोत्रेदेहेपि ". इतिविश्वः ॥ ८ ॥ ति० भिन्नोबिलप्रवेशरूपोमन्त्रोयस्यसः । एवंमन्त्रस्ययस्य कस्यापिमुखाच्छ्रवणेऽवश्यंभावि निस्पष्टमपराद्धश्चभवामि । हीनशक्तिः सुग्रीवा- पेक्षयाहीनबलः । हनुमदुक्तरीत्यासहायबलहीनैश्च ॥ ९ ॥ स० उपांशुदण्डेन लोकाविदितशिक्षया | बन्धनेन कारागारस्थापना- दिना । शठोगूढद्वेषी । घोरः असह्यव्यापारः | नृशंसोघातकः । यद्यप्यर्थत एकताऽमीषां । तथापि त्रिवारंवदिष्यामीति हनूमतो [ पा० ] १ क. –ट दुरात्मना २ ग घ ङ. च. ज. बिलस्यापिहितं. ३ च. न. कस्यसुकृतं. ४ ग. च.ट. भयेनेह. ५ झ. धर्मस्तस्मिन् न. ट. धर्मस्त्वस्मिन् ६ छ. झ. स्मृतिभिन्ने ७ ङ. -ट, विशेषतः ८ ग. ङ. - ट. पुत्रंप्रतिष्ठा प्य. (6 ९ ग. ङ. च. ज. ज. सद्गुणो. १० डट. विगुणोपिवा. ११ ङ. च. ज. अ. भिन्नमन्त्रोविरुद्ध १२ क बाघनेन.