पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९८ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ न ह्यहं तं इमे सर्वे सामदानादिभिर्गुणैः ॥ देण्डेन वा त्वया शक्या: सुग्रीवादपकर्षितुम् ॥ ११ ॥ विगृह्यासनमप्या हुर्दुर्बलेन बैलीयसः || आत्मरक्षाकरस्तस्मान्न विगृह्णीत दुर्बलः ॥ १२ ॥ यां चेमां मन्यसे धात्रीमेतद्विलमिति श्रुतम् ॥ एतल्लक्ष्मण बाणाना मीषत्कार्य विदारणे ॥ १३ ॥ स्वल्पं हि कृतमिन्द्रेण क्षिपता ह्यशनि पुरा || लक्ष्मणो निशितैर्वाणैर्भिन्द्यात्पत्रपुटं यथा ॥ १४ ॥ लक्ष्मणस्य तु नाराचा बहवः सन्ति तद्विधाः ॥ वज्राशनिसमस्पर्शा गिरीणामपि दारणाः ॥१५॥ अवस्थाने यदैव त्वमासिष्यसि परंतप || तदैव हरयः सर्वे त्यक्ष्यन्ति कृतनिश्चयाः ॥ १६ ॥ मरन्तः पुत्रदाराणां नित्योद्विग्ना बुभुक्षिताः ॥ खेदिता दुःखशय्याभिस्त्वां करिष्यन्ति पृष्ठतः ॥ १७॥ स त्वं हीनः सुहृद्भिश्च हितकामैश्च बन्धुभिः ॥ तृणादपि भृशोद्विशः स्पन्दमानाद्भविष्यसि ||१८|| ने च जातु न हिंस्युस्त्वां घोरी लक्ष्मणसायकाः ॥ अपवृत्तं जिघांसन्तो महावेगा दुरासदाः ॥१९॥ असाभिस्तु गतं सार्धं विनीतवदुपस्थितम् || आनुपूर्व्यात सुग्रीवो राज्ये त्वां स्थापयिष्यति ॥ २० ॥ धर्मकामः पितृव्यस्ते प्रीतिकामो दृढव्रतः ॥ शुचिः सत्यप्रतिज्ञश्व नै त्वां जातु जिघांसति ॥ २१ ॥ प्रियकामश्च ते मातुस्तदर्थं चास्य जीवितम् ॥ तैस्थापत्यं च नास्त्यन्यत्तस्मादङ्गद गम्यताम् ॥ २२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे चतुःपञ्चाशः सर्गः ॥ ५४ ।। र्षितुं न शक्याः ॥१०- ११ ॥ बलीयसः प्रबलस्य | भिन्द्याद्धि ॥ १४ ॥ तद्विधाः तादृशाः । अपरिच्छि- दुर्बले समं विगृह्य आसनमण्यवस्थानमपि कर्तव्य - न्नवैभवा इति यावत् । गिरीणामपि दारणा: बिलस्य माहुः । नतु दुर्बलस्य बलीयसा | तस्मात् आत्मरक्षा- किमुतेति भावः ॥ १५ ॥ अवस्थाने बिले । यद्वा करः स्वक्षेमकाम इति यावत् । दुर्बल: बलीयसा न विगृह्यावस्थाने आसिष्यसि स्थास्यसि । विगृह्यावस्थानं विगृह्णीत विगृह्य नासीत ॥ १२ ॥ स्वतो बलाभावेपि यदाध्यवसिष्यसीत्यर्थः ॥ १६-१८ || लक्ष्मणसा- दुर्गबलमस्तीत्याशङ्कघाह - यां चेति ॥ यामिमां गुहां यकाः अपवृत्तं वृत्तहीनं स्वकार्याकरमित्यर्थः । त्वां न धात्रीं रक्षकां मन्यसे । एतद्विलमिति ताराच्छ्रतं । हिंस्युरिति न हिंस्युरेवेत्यर्थः ॥ १९ ॥ आनुपूर्व्यात् एतत् ऋक्षबिलं । विदारणे विषये लक्ष्मणबाणानामी- क्रमप्राप्तेः ॥ २० – २२ ॥ इति श्रीगोविन्दराजविर- षत्कार्यं अयत्नसाध्यमित्यर्थः ॥ १३ ॥ पुरा बिलवा- चिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने किष्कि- सिनं मयमुद्दिश्याशनिं व क्षिपतेन्द्रेण स्वल्पं कृतं न्धाकाण्डव्याख्याने चतुःपञ्चाशः सर्गः ॥ ५४ ॥ द्वारमात्रं कृतं । लक्ष्मणस्तु निशितैर्बाणैः पत्रपुटमिव भावः ॥ ९ ॥ स० इमां गुहां । इमां स्वयंप्रभांवा धात्रीं एकत्र रक्षयित्रीं । अपरत्र धारयित्रीं । एतत् परिदृश्यमानंबिलं । मन्यसे इतराशक्यस्थानंमन्यसे । एतत् विदारणं बुद्धिस्थंबिलविदारणं | लक्ष्मणबाणानां लक्ष्मणबाणैः । ईषत् कार्यमितिद्वेपदे । अल्पकार्यमित्यर्थः । तेननखलप्रसक्तिः । “ स्वल्पं हिकृतं " इत्युत्तरग्रन्थानुकूल मिदंव्याख्यानं | खलभावआर्ष इति व्याख्यानमैकप- द्याश्रयेणतस्यप्रतिकूलमितिमन्तव्यं ॥ १३ ॥ ति० पुरा पूर्वं । माययाभूतलान्तर्निर्मितैतत्पुरवर्तिमयवधार्थमशनिं तत्प्रदेशभुवि क्षिपतेन्द्रेण स्वल्पमेवकृतं मयवधमात्रंकृतं नतुपुरंभ | लक्ष्मणस्तु निशितैर्बाणैरेतत्पुरम पिपत्रपुटमिवभिन्द्यात् ॥ स० स्वल्पं द्वारमात्रं । पत्रपुटं पुति शब्दकरोती तितथा । पञ्चतत्पुटंच | शुष्कपर्णमितियावत् । पुटपत्रमितिभाव्यमितितुदत्तोत्तरं । “ बिलंवःशुष्कवर्णवत् ” इतिसंग्रहरामायणोक्तेः ॥ १४ ॥ ति० तद्विधाइत्यस्यविवरणं वज्राशनीत्यादि । वज्रं इन्द्रकरस्थं । अशनिर्मेघस्थः । यद्वातद्विधाः वालिहन्तृबाणसदृशाः ॥ १५ ॥ ति० सर्वत्रात्रलक्ष्मणनामग्रहणंतस्यक्रूर स्वभावत्वात् । ईदृशानां रामलक्ष्यत्वाच ॥ १९ ॥ ति० धर्मराजः धर्ममार्गवर्तीराजा तथाप्रीतिकामएवत्वयि नतुत्वद्वधकामः ॥ शि० धर्मराजः सद्धर्मैः शोभमानः ॥ २१ ॥ इतिचतुःपञ्चाशः सर्गः ॥ ५४ ॥ २ क. ग. ङ.. -ट. दण्डेनन, ख. घ. नदण्डेन. ३ न्च. छ. झ ञ ट बलीयसा. ४ छ. झ ञ ट विदारणं. ५ क. ङ. - ट. लक्ष्मणस्य च ६ छ. झ. ट. दारका. ७ ङ. छ. झ ट अवस्थानं. ८ च. ज. [ पा० ] १ क. ग. नचतेसर्वे. ९ क. ग. ज. झ. अत्युप्रवेगानिशिताघोराः १० ङ. रामलक्ष्मण, ११ च. –ञ, १३ च - झ. द. सत्लांजातुननाशयेत् १४८ तस्यापत्यंतु. दुःखाद्दुःखतरंगत्वा किं करिष्यन्तिदुर्गताः अपावृत्तं, १२ छ, झ, ट. धर्मराजः, Vi