1 सर्गः ५४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । बुद्ध्या ह्यष्टाया युक्तं चतुर्बलसमन्वितम् ॥ चतुर्दशगुणं मेने हनुमान्वालिनः सुतम् ॥ २ ॥ आपूर्यमाणं शश्वच्च तेजोवलपराक्रमैः || शशिनं शुक्लपक्षादौ वर्धमानमिव श्रिया ॥ ३ ॥ बृहस्पतिसमं बुद्ध्या विक्रमे सदृशं पितुः || शुश्रूषमाणं तारस्य शुक्रस्येव पुरन्दरम् ॥ ४ ॥ भर्तुरर्थे परिश्रान्तं सर्वशास्त्रविदां वरम् || अभिसंधातुमारेभे हनुमानङ्गदं ततः ॥ ५ ॥ स चतुर्णामुपायानां तृतीयमुपवर्णयन् || भेदयामास तान्सर्वान्वानरान्वाक्यसंपदा ॥ ६॥ तेषु सर्वेषु भिन्नेषु ततोऽभीषयदङ्गदम् || भीषणैर्बहुभिर्वाक्यैः कोषोपायसमन्वितैः ॥ ७॥ त्वं समर्थतरः पित्रा युद्धे तारेय वै धुरम् || दृढं धारयितुं शक्तः कपिराज्यं यथा पिता ॥ ८ ॥ नित्यमस्थिरचित्ता हि कंपयो हरिपुङ्गव || नाज्ञाप्यं विसहिष्यन्ति पुत्रदारान्विना त्वया ॥ ९ ॥ त्वां नैते नुयुञ्जेयुः प्रत्यक्षं प्रवदामि ते ॥ यथायं जाम्बवानील: सुहोत्रश्च हाकपिः ॥ १० ॥ १९७ 2 णाः " 66 राज्यं हृतं मेने राज्यं कर्तुं सामर्थ्यमस्तीति मेन | स्थायां हितमुपदिशतः शुक्रस्य वचनं पुरंदरः श्रुतवा- इत्यर्थः ॥ १ ॥ अष्टाङ्गया " ग्रहणं धारणं चैव स्मरणं नित्यवगम्यते । गुरोरिव पुरंदरमित क्वचित्पाठः प्रतिपादनम् । ऊहोपोहोर्थविज्ञानं तत्त्वज्ञानं च धीगु- ॥ ४ ॥ अभिसंधातुं अनुकूलयितुं ॥ ५ ॥ चतुर्णी इत्युक्ताष्टाङ्गयुक्तया । चतुर्बलसमन्वितं सामादीनां । तृतीयं भेद । साम दानं च भेदश्व बाहुबलमँनोबलोपायबलबन्धुबलयुक्तं । चतुर्दशगुणं दण्डश्चेति यथाक्रमम् ” इति क्रमनियमात् ॥ ६ ॥ " देशकालज्ञता दाढयै सर्वक्लेशसहिष्णुता । सर्ववि- कोपरूप उपाय: कोपोपाय: दण्ड : तत्समन्वितैः ज्ञानता दाक्ष्यमूर्ज: संवृतमत्रता || अविसंवादिता ॥ ७ ॥ पित्रा पितुः ॥ ८ ॥ आज्ञाप्यं आज्ञापन | • शौर्य शक्तिज्ञत्वं कृतज्ञता | शरणागतवात्सल्यममर्ष- भावे कृत्यप्रत्ययः । पुत्रदारान् पुत्रदारैर्विरहिताः । त्वमचापलम्" ॥ इत्युक्तचतुर्दशगुणयुक्तं ॥ २–३॥ त्वयेति कर्तरि तृतीया । अस्य आज्ञाप्यमित्यनेन " शुश्रूषस्य शृणोतीतिवत्कारकशेष- संबन्धः ॥ ९ ॥ अयं जाम्बवान्नीलः सुहोत्रश्च एते वाषष्ठी | शुक्रस्येव पुरंदर मिति पुरंदरशब्दसन्निधा- त्वां यथा नानुयुञ्जेयुः नानुवर्तेरन् । तथाहमपि नादत्र शुक्रशब्दो बृहस्पतिपरः । यद्वा कस्यांचिदव - नानुवर्ते हि । त इमे सर्वे सामादिभिः सुग्रीवादपक- सुग्रीवराज्यं हृतमितिमेने । तद्राज्यं स्वयंप्रभाराज्यमित्यर्थ इत्यन्ये ॥ १ ॥ स० शुक्लपक्षत्वेनादिः कृष्णपक्षस्य | समग्रःशु- क्लृपक्षइत्यर्थः । तस्मिन् ॥ ३ ॥ ति० शुक्रस्येवपुरन्दरं विपरीतोपदेशग्रहे उपमैषा ॥ स० शुश्रूषमाणं आकर्णयन्तं । तारस्यव- चइतिशेषः । कदापि नैतद्धटतइति सूचयितुमभूतोपमितिमाह - शुक्रस्येवपुरन्दरमिति || शुक्रस्यवाक्यंशुश्रूषमाणं पुरन्दरमिवेत्यन्वयः ॥ ४ ॥ ति० अभिसंधातुं तारादिभ्योभेदयितुं ॥ शि० अङ्गदंअभिसन्धातुं भर्तुरर्थेसंयोजयितुं ॥ ५ ॥ ति० वाक्यसंपदा भेदजननक्षमन्यायोपेतेन “ हीनाश्रयोनकर्तव्यः कर्तव्योमहदाश्रयः " इत्यादिवाक्यसमूहेन || स० चतुर्णी सामदानभेददण्डानां द्वितीयउपायो दानं । तमुपवर्णयन् हेतौशतृप्रत्ययः । राम कार्येसाधिते राज्यादिप्राप्तिर्भवतीं- तिवर्णयित्वा तान् अङ्गदानुवर्तिनोभेदयामास खानुकूलांश्चकारेतियावत् ॥ द्वितीयोभेदइति नागोजिभट्टीयव्याख्यानंतु " सामं - दानेभेददण्डावित्युपायचतुष्टयं " इति क्वचित्पुस्तकसंपुट्यां " भेददण्डौसामदाने" इत्युभयथाप्यमरपाठे भेदस्य द्वितीय त्वानुक्तिवि- रोधात् इह भेदयामासेति द्वितीयस्यभेदस्य भेदन हेतुत्वा संभवा चोपेक्ष्यं ॥ ६॥ ति० भीषण मेवस्तु तिपूर्वकरोति — व मिति | त्वपित्रांसु- ग्रीवेणयुद्धेसमर्थतरः । यद्वा त्वं पित्रासदृशइतिशेषः । अतएव युद्धेसमर्थतरइत्यर्थः । दृढंधारयितुंशक्तः । अस्य यदिसर्वेकपय- स्त्वामनुवर्त्स्यन्तीतिशेषः ॥ ८ ॥ ति० कपिराज्यं किष्किन्धायांवा ऋक्षविलेवा | नचतदस्तीत्याह – नित्यमिति | स्वभावादिति भावः । अस्थैर्यैकारणान्तरमप्याह – पुत्रदारंविनेति । पुत्रदाराणां किष्किन्धावर्तिनां सुग्रीवायत्तत्वात्त्वयासह बिलेऽवस्थाने तद्वि- योगस्यस्पष्टत्वात् । निगृह्यस्थापनमप्यशंक्यमित्याहं - लयाज्ञाप्यं त्वत्कर्तृकमाज्ञापनं नसहिष्यन्ति । त्वत्तोप्यधिक बलत्वादिति- [ पा० ] १ ग. बुद्ध्याप्यष्टाङ्गया. २ क ख गुरोरिव ३ क. भर्तुरर्थपरिश्रान्तं ४ क. गं. घ. च. ज. विशारदं ङ. छं. झ. ज. ट. विशारदः. ५ ख. ङ. – झ. द्वितीयं. ६ क. ग. घ. भिन्नेषुसर्वेषु. ७ ङ. - ट. विविधैर्वाक्यैः ८ क. ङ. – ट. ध्रुवं. ९ घ. हरयो. १० क. - झ. ट. पुत्रदारविना. ज. पुत्रदारैर्विना, ११ ङ. छ. झ ञ ट ह्यनुरजेयुः. ग. ह्यनुजीवेयुः, १२ ख. यथाच. १३ ङ. च. ज. ञ. महाबलः
पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१९९
दिखावट