पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ एवमुक्ता हनुमता तापसी वाक्यमब्रवीत् ॥ ६ ॥ [ इदं दैवतराजेन पुरा शक्रेण संयुगे || असुरार्थ विमुक्तेन तदा वज्रेण पातितम् ॥ ७ ॥ दुर्धर्ष तु दुरासादं नानारत्नसमन्वितम् || महाप्राज्ञेन रत्यर्थ निर्मितं विश्वकर्मणा ॥ ८ ॥ एवं दैवविसृष्टे तु विलेऽस्मिन्वज्रदास्तेि |] जीवता दुष्करं मन्ये प्रविष्टेन निवर्तितुम् ॥ ९ ॥ तपसस्तु प्रभावेन नियमोपार्जितेन च ॥ सर्वानेव बिलादसादुद्धरिष्यामि वानरान् ॥ १० ॥ निमीलयत चक्षूंषि सर्वे वानरपुङ्गवाः ॥ नहि निष्क्रमितुं शक्यमनिमीलितलोचनैः ॥ ११ ॥ तैंतः संमीलिताः सर्वे सुकुमाराङ्गुलैः करैः ॥ सहसापिदधुर्दृष्टिं हृष्टा गॅमनकाङ्ख्या ॥ १२ ॥ वानरास्तु महात्मानो हस्तरुद्धमुखास्तदा ॥ निमेषान्तरमात्रेण बिलादुत्तारितास्तया ॥ १३ ॥ ततस्तान्वारान्सर्वोस्तापसी धर्मचारिणी || 'निस्सृतान्विषमात्तस्मात्समाश्वास्येदमब्रवीत् ॥ १४ ॥ एष विन्ध्यो गिरिः श्रीमान्नानादुमताकुलः || एष प्रस्रवणः शैलः सागरोऽयं महोदधिः ॥ १५ ॥ स्वस्ति वोऽस्तु गमिष्यामि भवनं वानरर्षभाः ॥ इत्युक्त्वा तद्विलं श्रीमत्प्रविवेश स्वयंप्रभा ॥१६॥ ततस्ते ददृशुर्घोरं सागरं वरुणालयम् || अपारमभिगर्जन्तं घोरैरूमिंभिरावृतम् ॥ १७ ॥ मयस्य मायाविहितं गिरिदुर्ग विचिन्वताम् ॥ तेषां मासो व्यतिक्रान्तो यो राज्ञा समयः कृतः ॥ १८ ॥ विन्ध्यस्य तु गिरेः पादे संपुष्पितपादपे || उपविश्य महात्मानश्चिन्तामापेदिरे तदा ॥ १९ ॥ ततः पुष्पातिभाराग्राँल्लताशतसमावृतान् || दुमान्वासन्तिकान्दृष्ट्वा बभूवुर्भयशङ्किताः ॥ २० ॥ ते वसन्तमनुप्राप्तं प्रतिबुद्धा परस्परम् || नष्टसंदेशकालार्था निपेतुर्धरणीतले ॥ २१ ॥ ततस्तान्कवृद्धांस्तु शिष्टांश्चैव वनौकसः ॥ वाचा मधुरयाऽऽभाष्य यथावदनुमान्य च ॥ २२ ॥ स तु सिंहवृषस्कन्धः पीनायतभुजः कपिः ॥ युवराजो महाप्राज्ञ अङ्गदो वाक्यमब्रवीत् ।। २३ ।। शासनात्कपिराजस्य वयं सर्वे विनिर्गताः || मासः पूर्णो बिलस्थानां हरयः किं न बुध्यते ॥ २४ ॥ ॥ ३–१३ ॥ विषमात् संकटप्रदेशात् ॥१४ – १८|| | शिशिरे पुष्यन्ति | भयशङ्किता: सुग्रीवाद्भयविषयश- क्षणपश्चिमकोटावित्यर्थः । ङ्कावन्तः ॥ २० ॥ वसन्तं अनुप्राप्तं प्रत्यासन्नं । “ हिमवद्विन्ध्यशैलाभ्यां प्रायो व्याप्ता वसुंधरा " तदानीं हि शिशिरः । तथाहि । शरत्कालान्ते मार्ग- इति भेषजकल्पोक्तिः ॥ १९ ॥ पुष्पातिभाराग्रान् शीर्षे मासि सेनां सन्निधाप्य पौषमासमवधिं कृत्वा पुष्पैरतिभाराणि अप्राणि येषां तान् । वासन्तिकान् प्रस्थापितवान् । स पौषो माघश्चातीतः । फाल्गुन वसन्तफलिनचूतादीन् । ये वसन्ते फलन्ति ते एव प्रवृत्त इति । तेन वसन्तः प्रत्यासन्न एव न प्राप्तः स० अङ्गुलीनांसमूहाआङ्गुलानि । सुकुमाराणि आङ्गुलानियेषां तैः । एतेनादारुत्वादसंख्याव्ययादित्वात्कथंषजचावितिनिरस्तं ॥ १२ ॥ रामानु० धर्मचारिणी यान् बिलादुत्तारयामास तान् समाश्वास्य इदमब्रवी दितिसंबन्धः ॥ शि० तया स्वयंप्रभयैव । बिलादुत्तारिताः । उवाएवार्थौ । च अनन्तरं । धर्मचारिणी निस्सृतान्वानरान्समाश्वास्येदमब्रवीत् । श्लोकद्वयमेकान्वयि ॥१३-१४॥ ति० प्रखवणः किष्किन्धासमीपप्रस्रवणादन्योऽयमित्याहुः । अत्युच्चत्वात्ततोपितस्यदर्शन मित्यन्ये ॥ यत्रेच्छा तत्रगन्तव्यमितितात्पर्य ॥ १५ ॥ शि० वासन्तिकान् वसन्तकालिकानिवद्रुमान् । वासन्तिकशब्द आचारक्किबन्त प्रकृतिक कर्तृक्किबन्तः । एतेन तद्देशस्य प्रभावातिशयःसूचितः ॥ २० ॥ ति० नष्टः संदेशकाले राजसंदिष्टमासरूपेकाले अनुष्ठेयोऽर्थोयेषांते ॥ २१ ॥ ति० शिष्टान् [ पा० ] १ इदमर्धपञ्चकं ग. पाठे. दृश्यते. २ ङ. – ट. बिलात्तस्मात्तारयिष्यति ३ ङ. च. छ. ञ. निमीलयन्तु. ४ ङ, च. ज. ततस्तुमीलिताः. छ. झ ञ ट ततोनिमीलिता: ग. ततःसुमीलिताः क. ततस्तेवानराः सर्वे. ५ क. – घ. गमनकाङ्क्षि- णः. ६ ग. स्तदा. ७ च. ज. सर्वांस्तुतान्वानरांश्चतापसी. ङ. छ. झ. ट. उवाच सर्वोस्तांस्तत्रतापसी. ग. बिलादुत्तारयामासस- र्वान्वैधर्मचारिणी. ञ. उत्तार्यसवस्तांस्तत्रतापसी. ८ घ. निर्गतान्. ९ क. ख. ङ. – ट. लतायुतः १० ख. वानरोत्तमाः ११ क. ङ. — ट. राकुलं. १२ क. – ङ. ज. ज. महाभागाः १३ ख. घ. प्रतिबुद्धाः, ग. छ. झ ञ ट प्रतिवेद्य. च. ज. प्रतिपद्य. क. प्रतिबुध्य. १४ क. कार्यार्थाः १५ ङ.ट. वृद्धांच